Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

नृसिंह अष्टोत्तर शत नामावलिः

ओं नारसिंहाय नमः । ओं महासिंहाय नमः । ओं दिव्यसिंहाय नमः । ओं महाबलाय नमः । ओं उग्रसिंहाय नमः । ओं महादेवाय नमः । ओं स्तम्भजाय नमः । ओं उग्रलोचनाय नमः । ओं रौद्राय नमः । ओं सर्वाद्भुताय नमः । 10 ओं श्रीमते नमः । ओं योगानन्दाय नमः । ओं त्रिविक्रमाय नमः । ओं हरये नमः । ओं कोलाहलाय नमः । ओं चक्रिणे नमः । ओं विजयाय नमः । ओं जयवर्धनाय नमः । ओं पञ्चाननाय नमः । ओं परस्मै ब्रह्मणे नमः । 20 ओं अघोराय नमः । ओं घोरविक्रमाय नमः । ओं ज्वलन्मुखाय नमः । ओं ज्वालमालिने नमः । ओं महाज्वालाय नमः । ओं महाप्रभवे नमः । ओं निटिलाक्षाय नमः । ओं सहस्राक्षाय नमः । ओं दुर्निरीक्ष्याय नमः । ओं प्रतापनाय नमः । 30 ओं महादंष्ट्रायुधाय नमः । ओं प्राज्ञाय नमः । ओं चण्डकोपिने नमः । ओं सदाशिवाय नमः । ओं हिरण्यकशिपुध्वंसिने नमः । ओं दैत्यदानवभञ्जनाय नमः । ओं गुणभद्राय नमः । ओं महाभद्राय नमः । ओं बलभद्राय नमः । ओं सुभद्रकाय नमः । 40 ओं करालाय नमः । ओं विकरालाय नमः । ओं विकर्त्रे नमः । ओं सर्वकर्तृकाय नमः । ओं शिंशुमाराय नमः । ओं त्रिलोकात्मने नमः । ओं ईशाय नमः । ओं सर्वेश्वराय नमः । ओं विभवे नमः । ओं भैरवाडम्बराय नमः । 50 ओं दिव्याय नमः । ओं अच्युताय नमः । ओं कविमाधवाय नमः । ओं अधोक्षजाय नमः । ओं अक्षराय नमः । ओं शर्वाय नमः । ओं वनमालिने नमः । ओं वरप्रदाय नमः । ओं विश्वम्भराय नमः । ओं अद्भुताय नमः । 60 ओं भव्याय नमः । ओं श्रीविष्णवे नमः । ओं पुरुषोत्तमाय नमः । ओं अनघास्त्राय नमः । ओं नखास्त्राय नमः । ओं सूर्यज्योतिषे नमः । ओं सुरेश्वराय नमः । ओं सहस्रबाहवे नमः । ओं सर्वज्ञाय नमः । ओं सर्वसिद्धिप्रदायकाय नमः । 70 ओं वज्रदंष्ट्राय नमः । ओं वज्रनखाय नमः । ओं महानन्दाय नमः । ओं परन्तपाय नमः । ओं सर्वमन्त्रैकरूपाय नमः । ओं सर्वयन्त्रविदारणाय नमः । ओं सर्वतन्त्रात्मकाय नमः । ओं अव्यक्ताय नमः । ओं सुव्यक्ताय नमः । ओं भक्तवत्सलाय नमः । 80 ओं वैशाखशुक्लभूतोत्थाय नमः । ओं शरणागतवत्सलाय नमः । ओं उदारकीर्तये नमः । ओं पुण्यात्मने नमः । ओं महात्मने नमः । ओं चण्डविक्रमाय नमः । ओं वेदत्रयप्रपूज्याय नमः । ओं भगवते नमः । ओं परमेश्वराय नमः । ओं श्रीवत्साङ्काय नमः । 90 ओं श्रीनिवासाय नमः । ओं जगद्व्यापिने नमः । ओं जगन्मयाय नमः । ओं जगत्पालाय नमः । ओं जगन्नाथाय नमः । ओं महाकायाय नमः । ओं द्विरूपभृते नमः । ओं परमात्मने नमः । ओं परस्मै ज्योतिषे नमः । ओं निर्गुणाय नमः । 100 ओं नृकेसरिणे नमः । ओं परतत्त्वाय नमः । ओं परस्मै धाम्ने नमः । ओं सच्चिदानन्दविग्रहाय नमः । ओं लक्ष्मीनृसिंहाय नमः । ओं सर्वात्मने नमः । ओं धीराय नमः । ओं प्रह्लादपालकाय नमः । 108

Recite with devotion and pure heart

Regular practice brings spiritual benefits