हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
भू सूक्तम्
ओम्
॥
ओं
भूमि॑र्भू॒म्ना
द्यौर्व॑रि॒णाऽंतरि॑क्षं
महि॒त्वा
।
उ॒पस्थे॑
ते
देव्यदिते॒ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे
॥
आऽयंगौः
पृश्ञि॑रक्रमी॒-दस॑नन्मा॒तरं॒
पुनः॑
।
पि॒तरं॑
च
प्र॒यंथ्-सुवः॑
॥
त्रि॒ग्ं॒शद्धाम॒
विरा॑जति॒
वाक्प॑त॒ङ्गाय॑
शिश्रिये
।
प्रत्य॑स्य
वह॒द्युभिः॑
॥
अ॒स्य
प्रा॒णाद॑पान॒त्यं॑तश्च॑रति
रोच॒ना
।
व्य॑ख्यन्-महि॒षः
सुवः॑
॥
यत्त्वा᳚
क्रु॒द्धः
प॑रो॒वप॑म॒न्युना॒
यदव॑र्त्या
।
सु॒कल्प॑मग्ने॒
तत्तव॒
पुन॒स्त्वोद्दी॑पयामसि
॥
यत्ते॑
म॒न्युप॑रोप्तस्य
पृथि॒वी-मनु॑दध्व॒से
।
आ॒दि॒त्या
विश्वे॒
तद्दे॒वा
वस॑वश्च
स॒माभ॑रन्न्
॥
मे॒दिनी॑
दे॒वी
व॒सुंध॑रा
स्या॒द्वसु॑धा
दे॒वी
वा॒सवी᳚
।
ब्र॒ह्म॒व॒र्च॒सः
पि॑तृ॒णां
श्रोत्रं॒
चक्षु॒र्मनः॑
॥
दे॒वी
हि॑रण्यग॒र्भिणी॑
दे॒वी
प्र॑सो॒दरी᳚
।
सद॑ने
स॒त्याय॑ने
सीद
।
स॒मु॒द्रव॑ती
सावि॒त्री
आह॒नो
दे॒वी
म॒ह्यं॑गी᳚
।
म॒हो
धर॑णी
म॒होऽत्य॑तिष्ठत्
॥
शृ॒ङ्गे
शृं॑गे
य॒ज्ञे
य॑ज्ञे
विभी॒षणी᳚
इंद्र॑पत्नी
व्या॒पिनी॒
सर॑सिज
इ॒ह
।
वा॒यु॒मती॑
ज॒लशय॑नी
स्व॒यं
धा॒राजा॑
स॒त्यंतो॒
परि॑मेदिनी
सो॒परि॑धत्तंगाय
॥
वि॒ष्णु॒प॒त्नीं
म॑हीं
दे॒वीं᳚
मा॒ध॒वीं
मा॑धव॒प्रियाम्
।
लक्ष्मीं᳚
प्रियस॑खीं
दे॒वीं॒
न॒मा॒म्यच्यु॑तव॒ल्लभाम्
॥
ओं
ध॒नु॒र्ध॒रायै॑
वि॒द्महे॑
सर्वसि॒द्ध्यै
च॑
धीमहि
।
तन्नो॑
धरा
प्रचो॒दया᳚त्
।
शृ॒ण्वंति॑
श्रो॒णाममृत॑स्य
गो॒पां
पुण्या॑मस्या॒
उप॑शृणोमि॒
वाच᳚म्
।
म॒हींदे॒वीं-विँष्णु॑पत्नी
मजू॒र्यां
प्रती॒ची॑मेनाग्ं
ह॒विषा॑
यजामः
॥
त्रे॒धा
विष्णु॑-रुरुगा॒यो
विच॑क्रमे
म॒हीं
दिवं॑
पृथि॒वी-मं॒तरि॑क्षम्
।
तच्छ्रो॒णैत्रिशव॑
इ॒च्छमा॑ना
पुण्य॒ग्ग्॒
श्लोकं॒-यँज॑मानाय
कृण्व॒ती
॥
स्यो॒नापृ॑थिवि॒भवा॑नृक्ष॒रानि॒वेश॑नी
यच्छा॑न॒श्शर्म॑
स॒प्रथाः᳚
॥
अदि॑तिर्दे॒वा
गं॑ध॒र्वा
म॑नु॒ष्याः᳚
पि॒तरो
सु॑रास्तेषाग्ं
स॒र्व
भू॒ता॒नां᳚
मा॒ता
मे॒दिनी॑
महता
म॒ही
।
सावि॒त्री
गा॑य॒त्री
जग॑त्यु॒र्वी
पृ॒थ्वी
ब॑हुला॒
विश्वा॑
भू॒ताक॒तमाकायासा
स॒त्येत्य॒मृते॑ति
वसि॒ष्ठः
॥
इक्षुशालियवसस्यफलाढ्ये
पारिजात
तरुशोभितमूले
।
स्वर्ण
रत्न
मणि
मंटप
मध्ये
चिंतयेत्
सकल
लोकधरित्रीम्
॥
श्यामां-विँचित्रां
नवरत्न
भूषितां
चतुर्भुजां
तुंगपयोधरान्विताम्
।
इंदीवराक्षीं
नवशालि
मंजरीं
शुकं
दधानां
शरणं
भजामहे
॥
सक्तु॑मिव॒
तित॑उना
पुनंतो॒
यत्र॒
धीरा॒
मन॑सा॒
वाच॒
मक्र॑त
।
अत्रा॒
सखा᳚स्स॒ख्यानि॑
जानते
भ॒द्रैषां᳚-लँ॒क्ष्मीर्नि॑हि॒ताधि॑वा॒चि
॥
ओं
शांतिः॒
शांतिः॒
शांतिः॑
॥