भगवन्तं देवदेवं ब्रह्माणं परमेष्ठिनम् ।
विधातारं विश्वसृजं पद्मयोनिं प्रजापतिम् ॥ 1 ॥
शुद्धस्फटिकसङ्काशं महेन्द्रशिखरोपमम् ।
बद्धपिङ्गजटाजूटं तडित्कनककुण्डलम् ॥ 2 ॥
शरच्चन्द्राभवदनं स्फुरदिन्दीवरेक्षणम् ।
हिरण्मयं विश्वरूपमुपवीताजिनावृतम् ॥ 3 ॥
मौक्तिकाभाक्षवलयस्तन्त्रीलयसमन्वितः ।
कर्पूरोद्धूलिततनुं स्रष्टारं नेत्रगोचरम् ॥ 4 ॥
विनयेनोपसङ्गम्य शिरसा प्रणिपत्य च ।
नारदः परिपप्रच्छ देवर्षिगणमध्यगः ॥ 5 ॥
नारद उवाच ।
भगवन् देवदेवेश सर्वज्ञ करुणानिधे ।
श्रोतुमिच्छामि तत्तत्वं भोगमोक्षैकसाधनम् ॥ 6 ॥
ऐश्वर्यस्य समग्रस्य फलदं द्वन्द्ववर्जितम् ।
ब्रह्महत्यादिपापघ्नं पापाद्यरिभयापहम् ॥ 7 ॥
यदेकं निष्कलं सूक्ष्मं निरञ्जनमनामयम् ।
यत्ते प्रियतमं लोके तन्मे ब्रूहि पितर्मम ॥ 8 ॥
ब्रह्मोवाच ।
शृणु नारद वक्ष्यामि ब्रह्ममूलं सनातनम् ।
सृष्ट्यादौ मन्मुखे क्षिप्तं देवदेवेन विष्णुना ॥ 9 ॥
प्रपञ्चबीजमित्याहुरुत्पत्तिस्थितिहेतुकम् ।
पुरा मया तु कथितं कश्यपाय सुधीमते ॥ 10 ॥
सावित्रीपञ्जरं नाम रहस्यं निगमत्रये ।
ऋष्यादिकं च दिग्वर्णं साङ्गावरणकं क्रमात् ॥ 11 ॥
वाहनायुधमन्त्रास्त्रमूर्तिध्यानसमन्वितम् ।
स्तोत्रं शृणु प्रवक्ष्यामि तव स्नेहाच्च नारद ॥ 12 ॥
ब्रह्मनिष्ठाय देयं स्याददेयं यस्य कस्यचित् ।
आचम्य नियतः पश्चादात्मध्यानपुरःसरम् ॥ 13 ॥ ओमित्यादौ विचिन्त्याथ व्योमहेमाब्जसंस्थितम् ।
धर्मकन्दगतज्ञानादैश्वर्याष्टदलान्वितम् ॥ 14 ॥
वैराग्यकर्णिकाधीनां प्रणवग्रहमध्यगाम् ।
ब्रह्मवेदिसमायुक्तां चैतन्यपुरमध्यगाम् ॥ 15 ॥
तत्त्वहंससमाकीर्णां शब्दपीठे सुसंस्थिताम् ।
नादबिन्दुकलातीतां गोपुरैरपि संवृताम् ॥ 16 ॥
विद्याऽविद्याऽमृतत्वादि प्रकारैरपिसंवृताम् ।
निगमार्गलसञ्छन्नां निर्गुणद्वारवाटिकाम् ॥ 17 ॥
चतुर्वर्गफलोपेतां महाकल्पवनैर्वृताम् ।
सान्द्रानन्दसुधासिन्धुनिगमद्वारवाटिकाम् ॥ 18 ॥
ध्यानधारणयोगादि तृणगुल्मलतावृताम् ।
सदसच्चित्स्वरूपाख्य मृगपक्षिसमाकुलाम् ॥ 19 ॥
विद्याऽविद्याविचाराख्यलोकालोकाचलावृताम् ।
पञ्चीकरणपञ्चोत्थभूततत्त्वनिवेदिताम् ॥ 20 ॥
अविकारसमाश्लिष्टनिजध्यानगुणावृताम् ।
वेदोपनिषदर्थाख्य देवर्षिगणसेविताम् ॥ 21 ॥
इतिहासग्रहगणैः सदारैरभिवन्दिताम् ।
गाथाप्सरोभिर्यक्षैश्च गणकिन्नरसेविताम् ॥ 22 ॥
नारसिंहमुखैश्चापि पुरुषैः कल्पचारणैः ।
कृतगानविनोदादिकथालापनतत्पराम् ॥ 23 ॥
तदित्यवाङ्मनोगम्यतेजोरूपधरां पराम् ।
जगतः प्रसवित्रीं तां सवितुः सृष्टिकारिणीम् ॥ 24 ॥
वरेण्यमित्यन्नमयीं पुरुषार्थफलप्रदाम् ।
अविद्यावर्णवर्ज्यां च तेजोवद्भर्गसञ्ज्ञिकाम् ॥ 25 ॥
देवस्य सच्चिदानन्द परब्रह्मरसात्मिकाम् ।
धीमह्यहं स वै तद्वद्ब्रह्माद्वैतस्वरूपिणीम् ॥ 26 ॥
धियो यो नस्तु सविता प्रचोदयादुपासिताम् ।
परोऽसौ सविता साक्षाद्देवोनिर्हरणाय च ॥ 27 ॥
परोरजस इत्यादि परब्रह्मात्मसावदोम् ।
आपो ज्योतिरिति द्वाभ्यां पाञ्चभौतिकसञ्ज्ञिकाम् ॥ 28 ॥
रसोऽमृतं ब्रह्मपदैस्तां नित्यां तापिनीं पराम् ।
भूर्भुवःसुवरित्येतैर्निगमत्वप्रकाशिकाम् ॥ 29 ॥
महर्जनस्तपःसत्यलोकोपरिसुसंस्थिताम् ।
तादृगस्या विराड्रूपं रहस्यं प्रवदाम्यहम् ॥ 30 ॥
व्योमकेशाकुलाकाश द्योकिरीटविराजिताम् ।
तटिद्भ्रुकुटिनाक्रान्तविधिविष्णुशिवार्चिताम् ॥ 31 ॥
गुरुभार्गवकर्णान्तां सोमसूर्याग्निलोचनाम् ।
इडापिङ्गलसौषुम्ण वामनासापुटान्विताम् ॥ 32 ॥
सन्ध्याद्विरोष्ठपुटितां लसद्वाग्भवजिह्विकाम् ।
सन्ध्यासौ द्युमणेः कण्ठलसद्बाहुसमन्विताम् ॥ 33 ॥
पर्जन्यहृदयासक्तवसुसुस्तनमण्डलाम् ।
आकाशोदरवित्रस्तनाभ्यवान्तरदेशिकाम् ॥ 34 ॥
प्राजापत्याख्यजघनामिन्द्राणीकटिसञ्ज्ञिकाम् ।
ऊरू मलयमेरुभ्यां शोभमानां सुरद्विषम् ॥ 35 ॥
जानुनी जह्नुकुशिकौ वैश्वदेवलसद्भुजाम् ।
अयनद्वयजङ्घाद्यसुराद्यपितृसञ्ज्ञिकाम् ॥ 36 ॥
पदाङ्घ्रिनखरोमालिभूतलद्रुमलाञ्छिताम् ।
ग्रहराश्यर्क्षदेवर्षिमूर्तिं च परसञ्ज्ञिकाम् ॥ 37 ॥
तिथिमासर्तुवर्षाख्यसुकेतुनिमिषात्मिकाम् ।
अहोरात्रार्धमासाख्यामार्यां चन्द्रमसात्मिकाम् ॥ 38 ॥
मायाकल्पितवैचित्र्यसन्ध्याच्छादनसंवृताम् ।
ज्वलत्कालानलप्रख्यां तडित्कोटिसमप्रभाम् ॥ 39 ॥
कोटिसूर्यप्रतीकाशां चन्द्रकोटिसुशीतलाम् ।
सुधामण्डलमध्यस्थां सान्द्रानन्दामृतात्मिकाम् ॥ 40 ॥
वागतीतां मनोरम्यां वरदां वेदमातरम् ।
चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् ॥ 41 ॥
ध्यात्वा स्वात्मन्यभेदेन ब्रह्मपञ्जरमारभेत् ।
पञ्जरस्य ऋषिश्चाहं छन्दो विकृतिरुच्यते ॥ 42 ॥
देवता च परो हंसः परब्रह्माधिदेवता ।
प्रणवो बीजशक्तिः स्यादों कीलकमुदाहृतम् ॥ 43 ॥
तत्तत्त्वं धीमहि क्षेत्रं धियोऽस्त्रं यः परं पदम् ।
मन्त्रमापो ज्योतिरिति योनिर्हंसः सवेधकम् ॥ 44 ॥
विनियोगस्तु सिद्ध्यर्थं पुरुषार्थचतुष्टये ।
ततस्तैरङ्गषट्कं स्यात्तैरेव व्यापकत्रयम् ॥ 45 ॥
पूर्वोक्तदेवतां ध्यायेत्साकारगुणसम्युताम् ।
पञ्चवक्त्रां दशभुजां त्रिपञ्चनयनैर्युताम् ॥ 46 ॥
मुक्ताविद्रुमसौवर्णामोषधीशसमाननाम् ।
वाणीं परां रमां मायां चामरैर्दर्पणैर्युताम् ॥ 47 ॥
षडङ्गदेवतामन्त्रै रूपाद्यवयवात्मिकाम् ।
मृगेन्द्रवृषपक्षीन्द्रमृगहंसासनस्थिताम् ॥ 48 ॥
अर्धेन्दुबद्धमुकुटकिरीटमणिकुण्डलाम् ।
रत्नताटङ्कमाङ्गल्यपरग्रैवेयनूपुराम् ॥ 49 ॥
अङ्गुलीयककेयूरकङ्कणाद्यैरलङ्कृताम् ।
दिव्यस्रग्वस्त्रसञ्छन्नरविमण्डलमध्यगाम् ॥ 50 ॥
वराऽभयाब्जयुगलां शङ्खचक्रगदाङ्कुशाम् ।
शुभ्रं कपालं दधतीं वहन्तीमक्षमालिकाम् ॥ 51 ॥
गायत्रीं वरदां देवीं सावित्रीं वेदमातरम् ।
आदित्यपथगां देवीं स्मरेद्ब्रह्मस्वरूपिणीम् ॥ 52 ॥
विचित्रमन्त्रजननीं स्मरेद्विद्यां सरस्वतीम् ।
त्रिपदा ऋङ्मयी पूर्वा मुखी ब्रह्मास्त्रसञ्ज्ञिका ॥ 53 ॥
चतुर्विंशतितत्त्वाख्या पातु प्राचीं दिशं मम ।
चतुष्पादा यजुर्ब्रह्मदण्डाख्या पातु दक्षिणा ॥ 54 ॥
षट्त्रिंशत्तत्त्वयुक्ता सा पातु मे दक्षिणां दिशम् ।
प्रत्यङ्मुखी पञ्चपदी पञ्चाशत्तत्त्वरूपिणी ॥ 55 ॥
पातु प्रतीचीमनिशं सामब्रह्मशिरोङ्किता ।
सौम्या ब्रह्मस्वरूपाख्या साथर्वाङ्गिरसात्मिका ॥ 56 ॥
उदीचीं षट्पदा पातु चतुःषष्टिकलात्मिका ।
पञ्चाशत्तत्त्वरचिता भवपादा शताक्षरी ॥ 57 ॥
व्योमाख्या पातु मे चोर्ध्वं दिशं वेदाङ्गसंस्थिता ।
विद्युन्निभा ब्रह्मसञ्ज्ञा मृगारूढा चतुर्भुजा ॥ 58 ॥
चापेषुचर्मासिधरा पातु मे पावकीं दिशम् ।
ब्राह्मी कुमारी गायत्री रक्ताङ्गी हंसवाहिनी ॥ 59 ॥
बिभ्रत्कमण्डल्वक्षस्रक्स्रुवान्मे पातु नैरृतीम् ।
चतुर्भुजा वेदमाता शुक्लाङ्गी वृषवाहिनी ॥ 60 ॥
वराऽभयकपालाक्षस्रग्विणी पातु मारुतीम् ।
श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना ॥ 61 ॥
शङ्खाराब्जाभयकरा पातु शैवीं दिशं मम ।
चतुर्भुजा वेदमाता गौराङ्गी सिंहवाहना ॥ 62 ॥
वराभयाब्जयुगलैर्भुजैः पात्वधरां दिशम् ।
तत्तत्पार्श्वस्थिताः स्वस्ववाहनायुधभूषणाः ॥ 63 ॥
स्वस्वदिक्षु स्थिताः पान्तु ग्रहशक्त्यङ्गदेवताः ।
मन्त्राधिदेवतारूपा मुद्राधिष्ठानदेवताः ॥ 64 ॥
व्यापकत्वेन पात्वस्मानापहृत्तलमस्तकी ।
तत्पदं मे शिरः पातु फालं मे सवितुःपदम् ॥ 65 ॥
वरेण्यं मे दृशौ पातु श्रुतिं भर्गः सदा मम ।
घ्राणं देवस्य मे पातु पातु धीमहि मे मुखम् ॥ 66 ॥
जिह्वां मम धियः पातु कण्ठं मे पातु यःपदम् ।
नः पदं पातु मे स्कन्धौ भुजौ पातु प्रचोदयात् ॥ 67 ॥
करौ मे च परः पातु पादौ मे रजसोऽवतु ।
सा मे नाभिं सदा पातु कटिं वै पातुमेवदोम् ॥ 68 ॥
ओमापः सक्थिनी पातु गुह्यं ज्योतिः सदा मम ।
ऊरू मम रसः पातु जानुनी अमृतं मम ॥ 69 ॥
जङ्घे ब्रह्मपदं पातु गुल्फौ भूः पातु मे सदा ।
पादौ मम भुवः पातु सुवः पात्वखिलं वपुः ॥ 70 ॥
रोमाणि मे महः पातु लोमकं पातु मे जनः ।
प्राणांश्च धातुतत्त्वानि तदीशः पातु मे तपः ॥ 71 ॥
सत्यं पातु ममायूंषि हंसो वृद्धिं च पातु मे ।
शुचिषत्पातु मे शुक्रं वसुः पातु श्रियं मम ॥ 72 ॥
मतिं पात्वन्तरिक्षसद्धोता दानं च पातु मे ।
वेदिषत्पातु मे विद्यामतिथिः पातु मे गृहम् ॥ 73 ॥
धर्मं दुरोणसत्पातु नृषत्पातु वधूं मम ।
वरसत्पातु मे मायाऽमृतसत्पातु मे सुतान् ॥ 74 ॥
व्योमसत्पातु मे बन्धून् भ्रातॄनब्जश्च पातु मे ।
पशून्मे पातु गोजाश्च ऋतजाः पातु मे भुवम् ॥ 75 ॥
सर्वं मे अद्रिजा पातु यानं मे पात्वृतं सदा ।
मम सर्वं बृहत्पातु विभुरों पातु सर्वदा ॥ 76 ॥
अनुक्तमथ यत्स्थानं शरीरान्तर्बहिश्च यत् ।
तत्सर्वं पातु मे नित्यं हंसः सोऽहमहर्निशम् ॥ 77 ॥
इदं तु कथितं सम्यङ्मया ते ब्रह्मपञ्जरम् ।
सन्ध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ॥ 78 ॥
धारयेद्द्विजवर्यो यः श्रावयेद्वा समाहितः ।
स विष्णुः स शिवः सोऽहं सोऽक्षरः स विराट् स्वराट् ॥ 79 ॥
शताक्षरात्मकं देव्या नामाष्टाविंशतिः शतम् ।
शृणु वक्ष्यामि तत्सर्वमति गुह्यं सनातनम् ॥ 80 ॥
भूतिदा भुवना वाणी वसुधा सुमना मही ।
तुर्या शोभा द्विजप्रीता कामधुक् भक्तसिद्धिदा ॥ 81 ॥
विश्वा च विजया वेद्या सन्ध्या ब्राह्मी सरस्वती ।
हरिणी जननी नन्दा सविसर्गा तपस्विनी ॥ 82 ॥
पयस्विनी सती त्यागा चैन्दवी सत्यवी रसा ।
शैवी लास्यप्रिया तुष्टा जप्या सत्या सती ध्रुवा ॥ 83 ॥
भक्तवश्या च गायत्री भीमा विष्णुप्रिया जया ।
विश्वा तुर्या परा रेच्या निर्घृणी यमिनी भवा ॥ 84 ॥
गोवेद्या च जरिष्ठा च स्कन्दिनी धीर्मतिर्हिमा ।
अनन्ता रविमध्यस्था सावित्री ब्राह्मणी त्रयी ॥ 85 ॥
अपर्णा चण्डिका ध्येया मनुश्रेष्ठा च सात्विकी ।
भीषणा योगिनी पक्षी नदी प्रज्ञा च चोदिनी ॥ 86 ॥
धनिनी यामिनी पद्मा रोहिणी रमणी ऋषिः ।
ब्रह्मिष्ठा भक्तिगम्या च कामदा बलदा वसुः ॥ 87 ॥
आद्या वर्णमयी हृद्या लक्ष्मीः शान्ता रमाऽच्युता ।
सेनामुखी साममयी बहुला दोषवर्जिता ॥ 88 ॥
सर्वकामदुघा सोमोद्भवाऽहङ्कारवर्जिता ।
तत्परा सुखदा सिद्धिः वेद्या पूज्या प्रसादिनी ॥ 89 ॥
विप्रप्रसादिनी पूज्या विश्ववन्द्या विनोदिनी ।
द्विपदा च चतुष्पादा त्रिपदा चैव षट्पदा ॥ 90 ॥
अष्टापदी नवपदी सा सहस्राक्षरात्मिका ।
अमोघफलदाऽनादिः सर्वा सर्वाङ्गसुन्दरी ॥ 91 ॥
शर्वाणी वैष्णवी चन्द्रचूडा त्रिणयना क्षमा ।
विश्वमाता त्रयीसारा त्रिकालज्ञानरूपिणी ॥ 92 ॥
चन्द्रमण्डलमध्यस्था भक्तपापविनाशिनी ।
वरदा छन्दसां माता ब्राह्मण्यपददायिनी ॥ 93 ॥
य इदं परमं गुह्यं सावित्रीमन्त्रपञ्जरम् ।
नामाष्टविंशतिशतं शृणुयाच्छ्रावयेत्पठेत् ॥ 94 ॥
मर्त्यानाममृतत्त्वाय भीतानामभयाय च ।
मोक्षाय च मुमुक्षूणां श्रीकामानां श्रिये सदा ॥ 95 ॥
विजयाय युयुत्सूनां व्याधितानामरोगकृत् ।
वश्याय वश्यकामानां विद्यायै वेदकामिनाम् ॥ 96 ॥
द्रविणाय दरिद्राणां पापिनां पापशान्तये ।
वादिनां वादविजये कवीनां कविताप्रदम् ॥ 97 ॥
अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छताम् ।
पशुभ्यः पशुकामानां पुत्रेभ्यः पुत्रकाङ्क्षिणाम् ॥ 98 ॥
क्लेशिनां शोकशान्त्यर्थं नृणां शत्रुभयाय च ।
राजवश्याय द्रष्टव्यं पञ्जरं नृपसेविनाम् ॥ 99 ॥
भक्त्यर्थं विष्णुभक्तानां विष्णोः सर्वान्तरात्मनि ।
नायकं विधिसृष्टानां शान्तये भवति ध्रुवम् ॥ 100 ॥
निःस्पृहाणां नृणां मुक्तिः शाश्वती भवती ध्रुवम् ।
जप्यं त्रिवर्गसम्युक्तं गृहस्थेन विशेषतः ॥ 101 ॥
मुनीनां ज्ञानसिद्ध्यर्थं यतीनां मोक्षसिद्धये ।
उद्यन्तं चन्द्रकिरणमुपस्थाय कृताञ्जलिः ॥ 102 ॥
कानने वा स्वभवने तिष्ठञ्छुद्धो जपेदिदम् ।
सर्वान्कामानवाप्नोति तथैव शिवसन्निधौ ॥ 103 ॥
मम प्रीतिकरं दिव्यं विष्णुभक्तिविवर्धनम् ।
ज्वरार्तानां कुशाग्रेण मार्जयेत्कुष्ठरोगिणाम् ॥ 104 ॥
मृगमङ्गं यथालिङ्गं कवचेन तु साधकः ।
मण्डलेन विशुद्ध्येत सर्वरोगैर्न संशयः ॥ 105 ॥
मृतप्रजा च या नारी जन्मवन्ध्या तथैव च ।
कन्यादिवन्ध्या या नारी तासामङ्गं प्रमार्जयेत् ॥ 106 ॥
तास्ताः संवत्सरादर्वाग्ध्रियेयुर्गर्भमुत्तमम् ।
पतिविद्वेषिणी या स्त्री अङ्गं तस्याः प्रमार्जयेत् ॥ 107 ॥
तमेव भजते सा स्त्री पतिं कामवशं नयेत् ।
अश्वत्थे राजवश्यार्थं बिल्वमूले सुरूपभाक् ॥ 108 ॥
पालाशमूले विद्यार्थी तेजस्व्यभिमुखो रवेः ।
कन्यार्थी चण्डिकागेहे जपेच्छत्रुभयाय च ॥ 109 ॥
श्रीकामो विष्णुगेहे च उद्याने स्त्रीर्वशी भवेत् ।
आरोग्यार्थे स्वगेहे च मोक्षार्थी शैलमस्तके ॥ 110 ॥
सर्वकामो विष्णुगेहे मोक्षार्थी यत्र कुत्रचित् ।
जपारम्भे तु हृदयं जपान्ते कवचं पठेत् ॥ 111 ॥
किमत्र बहुनोक्तेन शृणु नारद तत्त्वतः ।
यं यं चिन्तयते नित्यं तं तं प्राप्नोति निश्चितम् ॥ 112 ॥
इति श्रीमद्वसिष्ठसंहितायां ब्रह्मनारदसंवादे श्री गायत्री पञ्जर स्तोत्रम् ।