Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

स्वस्ति सूक्तम्

स्व॒स्ति नो᳚ मिमीताम॒श्विना॒ भगः॑ स्व॒स्ति दे॒व्यदि॑तिरन॒र्वणः॑ ।
स्व॒स्ति पू॒षा असु॑रो दधातु नः स्व॒स्ति द्यावा᳚पृथि॒वी सु॑चे॒तुना᳚ ॥
स्व॒स्तये᳚ वा॒युमुप॑ ब्रवामहै॒ सोमं᳚ स्व॒स्ति भुव॑नस्य॒ यस्पतिः॑ ।
बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये᳚ स्व॒स्तय॑ आदि॒त्यासो᳚ भवन्तु नः ॥
विश्वे᳚ दे॒वा नो᳚ अ॒द्या स्व॒स्तये᳚ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये᳚ ।
दे॒वा अ॑वन्त्वृ॒भवः॑ स्व॒स्तये᳚ स्व॒स्ति नो᳚ रु॒द्रः पा॒त्वंह॑सः ॥
स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति ।
स्व॒स्ति न॒ इन्द्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो᳚ अदिते कृधि ॥
स्व॒स्ति पन्था॒मनु॑ चरेम सूर्याचन्द्र॒मसा᳚विव ।
पुन॒र्दद॒ताघ्न॑ता जान॒ता सं ग॑मेमहि ॥
स्व॒स्त्यय॑नं॒ तार्क्ष्य॒मरि॑ष्टनेमिं म॒हद्भू᳚तं वाय॒सं दे॒वता᳚नाम् ।
अ॒सु॒र॒घ्नमिन्द्र॑सखं स॒मत्सु॑ बृ॒हद्यशो॑ नाव॑मि॒वा रु॑हेम ॥
अं॒हो॒मुच॑मा॒ङ्गि॑रसं॒ गयं᳚ च स्व॒स्त्या᳚त्रे॒यं मन॑सा च॒ तार्क्ष्य᳚म् ।
प्रय॑तपाणिः श॒रणं प्रप॑द्ये स्व॒स्ति सं᳚बा॒धेष्वभ॑यं नो अस्तु ॥
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ । हरिः ओं ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits