हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्रद्धा सूक्तम् - ऋग्वेद
श्र॒द्धया॒ग्निः
समि॑ध्यते
श्र॒द्धया॑
हूयते
ह॒विः
।
श्र॒द्धां
भग॑स्य
मू॒र्धनि॒
वच॒सा
वे॑दयामसि
॥
1
प्रि॒यं
श्र॑द्धे॒
दद॑तः
प्रि॒यं
श्र॑द्धे॒
दिदा॑सतः
।
प्रि॒यं
भो॒जेषु॒
यज्व॑स्वि॒दं
म॑
उदि॒तं
कृ॑धि
॥
2
यथा॑
दे॒वा
असु॑रेषु
श्र॒द्धामु॒ग्रेषु॑
चक्रि॒रे
।
ए॒वं
भो॒जेषु॒
यज्व॑स्व॒स्माक॑मुदि॒तं
कृ॑धि
॥
3
श्र॒द्धां
दे॒वा
यज॑माना
वा॒युगो॑पा॒
उपा॑सते
।
श्र॒द्धां
हृ॑द॒य्य॑या॒ऽऽकू॑त्या
श्र॒द्धया॑
विन्दते॒
वसु॑
॥
4
श्र॒द्धां
प्रा॒तर्ह॑वामहे
श्र॒द्धां
म॒ध्यन्दि॑नं॒
परि॑
।
श्र॒द्धां
सूर्य॑स्य
नि॒म्रुचि॒
श्रद्धे॒
श्रद्धा॑पये॒ह
न॑:
॥
5