Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

मांडूक्य उपनिषद्

ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः भ॒द्रं प॑श्येमा॒क्षभि॒-र्यज॑त्राः स्थि॒रैरंगै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु ओं शांतिः॒ शांतिः॒ शांतिः॑ अथ मांडूक्योपनिषत् हरिः ओम् ओमित्येतदक्षरमिदग्ं सर्वं तस्योपव्याख्यानं भूतं भवद् भविष्यदिति सर्वमोंकार एव यच्चान्यत् त्रिकालातीतं तदप्योंकार एव 1 सर्वग्ं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् 2 जागरितस्थानो बहिष्प्रज्ञः सप्तांग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः 3 स्वप्नस्थानोऽंतःप्रज्ञः सप्तांग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः 4 यत्र सुप्तो कंचन कामं कामयते कंचन स्वप्नं पश्यति तत् सुषुप्तम् सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानंदमयो ह्यानंदभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः 5 एष सर्वेश्वरः एष सर्वज्ञ एषोऽंतर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् 6 नांतःप्रज्ञं बहिष्प्रज्ञं नोभयतःप्रज्ञं प्रज्ञानघनं प्रज्ञं नाप्रज्ञम् अदृष्टमव्यवहार्यमग्राह्यमलक्षणं अचिंत्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपंचोपशमं शांतं शिवमद्वैतं चतुर्थं मन्यंते आत्मा विज्ञेयः 7 सोऽयमात्माध्यक्षरमोंकारोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति 8 जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद् वाऽऽप्नोति वै सर्वान् कामानादिश्च भवति एवं-वेँद 9 स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्​षात् उभयत्वाद्वोत्कर्​षति वै ज्ञानसंततिं समानश्च भवति नास्याब्रह्मवित्कुले भवति एवं-वेँद 10 सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति वा इदं सर्वमपीतिश्च भवति एवं-वेँद 11 अमात्रश्चतुर्थोऽव्यवहार्यः प्रपंचोपशमः शिवोऽद्वैत एवमोंकार आत्मैव सं​विँशत्यात्मनाऽऽत्मानं-यँ एवं-वेँद 12 इति मांडूक्योपनिषत् समाप्ता