हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
हिरण्य गर्भ सूक्तम्
हि॒र॒ण्य॒ग॒र्भः
सम॑वर्त॒ताग्रे॑
भू॒तस्य॑
जा॒तः
पति॒रेक॑
आसीत्
।
स
दा॑धार
पृथि॒वीं
द्यामु॒तेमां
कस्मै॑
दे॒वाय॑
ह॒विषा॑
विधेम
॥
1
य
आ॑त्म॒दा
ब॑ल॒दा
यस्य॒
विश्व॑
उ॒पास॑ते
प्र॒शिषं॒-यँस्य॑
दे॒वाः
।
यस्य॑
छा॒यामृतं॒-यँस्य॑
मृ॒त्युः
कस्मै॑
दे॒वाय॑
ह॒विषा॑
विधेम
॥
2
यः
प्रा॑ण॒तो
नि॑मिष॒तो
म॑हि॒त्वैक॒
इद्राजा॒
जग॑तो
ब॒भूव॑
।
य
ईशे॑
अ॒स्य
द्वि॒पद॒श्चतु॑ष्पदः॒
कस्मै॑
दे॒वाय॑
ह॒विषा॑
विधेम
॥
3
यस्ये॒मे
हि॒मवं॑तो
महि॒त्वा
यस्य॑
समु॒द्रं
र॒सया॑
स॒हाहुः
।
यस्ये॒माः
प्र॒दिशो॒
यस्य॑
बा॒हू
कस्मै॑
दे॒वाय॑
ह॒विषा॑
विधेम
॥
4
येन॒
द्यौरु॒ग्रा
पृ॑थि॒वी
च॑
दृ॒ल्हा
येन॒
स्वः॑
स्तभि॒तं-येँन॒
नाकः॑
।
यो
अं॒तरि॑क्षे॒
रज॑सो
वि॒मानः॒
कस्मै॑
दे॒वाय॑
ह॒विषा॑
विधेम
॥
5
यं
क्रंद॑सी॒
अव॑सा
तस्तभा॒ने
अ॒भ्यैक्षे॑तां॒
मन॑सा॒
रेज॑माने
।
यत्राधि॒
सूर॒
उदि॑तो
वि॒भाति॒
कस्मै॑
दे॒वाय॑
ह॒विषा॑
विधेम
॥
6
आपो॑
ह॒
यद्बृ॑ह॒तीर्विश्व॒माय॒न्
गर्भं॒
दधा॑ना
ज॒नयं॑तीर॒ग्निम्
।
ततो॑
दे॒वानां॒
सम॑वर्त॒तासु॒रेकः॒
कस्मै॑
दे॒वाय॑
ह॒विषा॑
विधेम
॥
7
यश्चि॒दापो॑
महि॒ना
प॒र्यप॑श्य॒द्दक्षं॒
दधा॑ना
ज॒नयं॑तीर्य॒ज्ञम्
।
यो
दे॒वेष्विधि॑
दे॒व
एक॒
आसी॒त्कस्मै॑
दे॒वाय॑
ह॒विषा॑
विधेम
॥
8
मा
नो॑
हिंसीज्जनि॒ता
यः
पृ॑थि॒व्या
यो
वा॒
दिवं॑
स॒त्यध॑र्मा
ज॒जान॑
।
यश्चा॒पश्चं॒द्रा
बृ॑ह॒तीर्ज॒जान॒
कस्मै॑
दे॒वाय॑
ह॒विषा॑
विधेम
॥
9
प्रजा॑पते॒
न
त्वदे॒तान्य॒न्यो
विश्वा॑
जा॒तानि॒
परि॒
ता
ब॑भूव
।
यत्का॑मास्ते
जुहु॒मस्तन्नो॑
अस्तु
व॒यं
स्या॑म॒
पत॑यो
रयी॒णाम्
॥
10