हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
आयुष्य सूक्तम्
यो
ब्रह्मा
ब्रह्मण
उ॑ज्जहा॒र
प्रा॒णैः
शि॒रः
कृत्तिवासाः᳚
पिना॒की
।
ईशानो
देवः
स
न
आयु॑र्दधा॒तु॒
तस्मै
जुहोमि
हविषा॑
घृते॒न
॥
1
॥
विभ्राजमानः
सरिर॑स्य
म॒ध्या॒-द्रो॒च॒मा॒नो
घर्मरुचि॑र्य
आ॒गात्
।
स
मृत्युपाशानपनु॑द्य
घो॒रा॒नि॒हा॒यु॒षे॒णो
घृतम॑त्तु
दे॒वः
॥
2
॥
ब्रह्मज्योति-र्ब्रह्म-पत्नी॑षु
ग॒र्भं॒-यँ॒मा॒द॒धात्
पुरुरूपं॑
जयं॒तम्
।
सुवर्णरंभग्रह-म॑र्कम॒र्च्यं॒
त॒मा॒यु॒षे
वर्धयामो॑
घृते॒न
॥
3
॥
श्रियं-लँक्ष्मी-मौबला-मंबिकां॒
गां॒
ष॒ष्ठीं
च
या॒मिंद्रसेने᳚त्युदा॒हुः
।
तां-विँद्यां
ब्रह्मयोनिग्ं॑
सरू॒पा॒मि॒हा॒यु॒षे
तर्पयामो॑
घृते॒न
॥
4
॥
दाक्षायण्यः
सर्वयोन्यः॑
स
यो॒न्यः॒
स॒ह॒स्र॒शो
विश्वरूपा॑
विरू॒पाः
।
ससूनवः
सपतयः॑
सयू॒थ्या॒
आ॒यु॒षे॒णो
घृतमिदं॑
जुषं॒ताम्
॥
5
॥
दिव्या
गणा
बहुरूपाः᳚
पुरा॒णा॒
आयुश्छिदो
नः
प्रमथ्नं॑तु
वी॒रान्
।
तेभ्यो
जुहोमि
बहुधा॑
घृते॒न॒
मा॒
नः॒
प्र॒जाग्ं
रीरिषो
मो॑त
वी॒रान्
॥
6
॥
ए॒कः॒
पु॒र॒स्तात्
य
इदं॑
बभू॒व॒
यतो
बभूव
भुवन॑स्य
गो॒पाः
।
यमप्येति
भुवनग्ं
सां᳚परा॒ये॒
स
नो
हविर्घृत-मिहायुषे᳚त्तु
दे॒वः
॥
7
॥
व॒सू॒न्
रुद्रा॑-नादि॒त्यान्
मरुतो॑ऽथ
सा॒ध्या॒न्
ऋ॑भून्
य॒क्षा॒न्
गंधर्वाग्श्च
पितॄग्श्च
वि॒श्वान्
।
भृगून्
सर्पाग्श्चांगिरसो॑ऽथ
स॒र्वा॒न्
घृ॒त॒ग्ं
हु॒त्वा
स्वायुष्या
महया॑म
श॒श्वत्
॥
8
॥
विष्णो॒
त्वं
नो॒
अंत॑म॒श्शर्म॑यच्छ
सहंत्य
।
प्रते॒धारा॑
मधु॒श्चुत॒
उथ्सं॑
दुह्रते॒
अक्षि॑तम्
॥ ॥
ओं
शांतिः॒
शांतिः॒
शांतिः॑
॥