हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
अन्न सूक्तम् - ऋग्वेद
पि॒तुं
नु
स्तो॑षं
म॒हो
ध॒र्माणं॒
तवि॑षीम्
।
यस्य॑
त्रि॒तो
व्योज॑सा
वृ॒त्रं
विप॑र्वम॒र्दय॑त्
॥
1
॥
स्वादो॑
पितो॒
मधो॑
पितो
व॒यं
त्वा॑
ववृमहे
।
अ॒स्माक॑मवि॒ता
भ॑व
॥
2
॥
उप॑
नः
पित॒वा
च॑र
शि॒वः
शि॒वाभि॑रू॒तिभि॑:
।
म॒यो॒भुर॑द्विषे॒ण्यः
सखा॑
सु॒शेवो॒
अद्व॑याः
॥
3
॥
तव॒
त्ये
पि॑तो॒
रसा॒
रजां॒स्यनु॒
विष्ठि॑ताः
।
दि॒वि
वाता॑
इव
श्रि॒ताः
॥
4
॥
तव॒
त्ये
पि॑तो॒
दद॑त॒स्तव॑
स्वादिष्ठ॒
ते
पि॑तो
।
प्र
स्वा॒द्मानो॒
रसा॑नां
तुवि॒ग्रीवा॑
इवेरते
॥
5
॥
त्वे
पि॑तो
म॒हानां॑
दे॒वानां॒
मनो॑
हि॒तम्
।
अका॑रि॒
चारु॑
के॒तुना॒
तवाहि॒मव॑सावधीत्
॥
6
॥
यद॒दो
पि॑तो॒
अज॑गन्वि॒वस्व॒
पर्व॑तानाम्
।
अत्रा॑
चिन्नो
मधो
पि॒तोऽरं॑
भ॒क्षाय॑
गम्याः
॥
7
॥
यद॒पामोष॑धीनां
परिं॒शमा॑रि॒शाम॑हे
।
वाता॑पे॒
पीव॒
इद्भ॑व
॥
8
॥
यत्ते॑
सोम॒
गवा॑शिरो॒
यवा॑शिरो॒
भजा॑महे
।
वाता॑पे॒
पीव॒
इद्भ॑व
॥
9
॥
क॒र॒म्भ
ओ॑षधे
भव॒
पीवो॑
वृ॒क्क
उ॑दार॒थिः
।
वाता॑पे॒
पीव॒
इद्भ॑व
॥
10
॥
तं
त्वा॑
व॒यं
पि॑तो॒
वचो॑भि॒र्गावो॒
न
ह॒व्या
सु॑षूदिम
।
दे॒वेभ्य॑स्त्वा
सध॒माद॑म॒स्मभ्यं॑
त्वा
सध॒माद॑म्
॥
11
॥