हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
षिर्डीसायि अष्टोत्तर शत नामावलिः
ओं
श्रीसायिनाथाय
नमः
।
ओं
लक्ष्मीनारायणाय
नमः
।
ओं
कृष्णरामशिवमारुत्यादिरूपाय
नमः
।
ओं
शेषशायिने
नमः
।
ओं
गोदावरीतटशिरडीवासिने
नमः
।
ओं
भक्तहृदयालयाय
नमः
।
ओं
सर्वहृद्वासिने
नमः
।
ओं
भूतावासाय
नमः
।
ओं
भूतभविष्यद्भाववर्जिताय
नमः
।
ओं
कालातीताय
नमः
।
10
ओं
कालाय
नमः
।
ओं
कालकालाय
नमः
।
ओं
कालदर्पदमनाय
नमः
।
ओं
मृत्युञ्जयाय
नमः
।
ओं
अमर्त्याय
नमः
।
ओं
मर्त्याभयप्रदाय
नमः
।
ओं
जीवाधाराय
नमः
।
ओं
सर्वाधाराय
नमः
।
ओं
भक्तावनसमर्थाय
नमः
।
ओं
भक्तावनप्रतिज्ञाय
नमः
।
20
ओं
अन्नवस्त्रदाय
नमः
।
ओं
आरोग्यक्षेमदाय
नमः
।
ओं
धनमाङ्गल्यदाय
नमः
।
ओं
बुद्धीसिद्धीदाय
नमः
।
ओं
पुत्रमित्रकलत्रबन्धुदाय
नमः
।
ओं
योगक्षेमवहाय
नमः
।
ओं
आपद्बान्धवाय
नमः
।
ओं
मार्गबन्धवे
नमः
।
ओं
भुक्तिमुक्तिस्वर्गापवर्गदाय
नमः
।
ओं
प्रियाय
नमः
।
30
ओं
प्रीतिवर्धनाय
नमः
।
ओं
अन्तर्यामिने
नमः
।
ओं
सच्चिदात्मने
नमः
।
ओं
नित्यानन्दाय
नमः
।
ओं
परमसुखदाय
नमः
।
ओं
परमेश्वराय
नमः
।
ओं
परब्रह्मणे
नमः
।
ओं
परमात्मने
नमः
।
ओं
ज्ञानस्वरूपिणे
नमः
।
ओं
जगतः
पित्रे
नमः
।
40
ओं
भक्तानां
मातृदातृपितामहाय
नमः
।
ओं
भक्ताभयप्रदाय
नमः
।
ओं
भक्तपराधीनाय
नमः
।
ओं
भक्तानुग्रहकातराय
नमः
।
ओं
शरणागतवत्सलाय
नमः
।
ओं
भक्तिशक्तिप्रदाय
नमः
।
ओं
ज्ञानवैराग्यदाय
नमः
।
ओं
प्रेमप्रदाय
नमः
।
ओं
संशयहृदयदौर्बल्य
पापकर्मवासनाक्षयकराय
नमः
।
ओं
हृदयग्रन्थिभेदकाय
नमः
।
50
ओं
कर्मध्वंसिने
नमः
।
ओं
शुद्धसत्त्वस्थिताय
नमः
।
ओं
गुणातीत
गुणात्मने
नमः
।
ओं
अनन्तकल्याणगुणाय
नमः
।
ओं
अमितपराक्रमाय
नमः
।
ओं
जयिने
नमः
।
ओं
दुर्धर्षाक्षोभ्याय
नमः
।
ओं
अपराजिताय
नमः
।
ओं
त्रिलोकेषु
अविघातगतये
नमः
।
ओं
अशक्यरहिताय
नमः
।
60
ओं
सर्वशक्तिमूर्तये
नमः
।
ओं
स्वरूपसुन्दराय
नमः
।
ओं
सुलोचनाय
नमः
।
ओं
बहुरूपविश्वमूर्तये
नमः
।
ओं
अरूपव्यक्ताय
नमः
।
ओं
अचिन्त्याय
नमः
।
ओं
सूक्ष्माय
नमः
।
ओं
सर्वान्तर्यामिणे
नमः
।
ओं
मनोवागतीताय
नमः
।
ओं
प्रेममूर्तये
नमः
।
70
ओं
सुलभदुर्लभाय
नमः
।
ओं
असहायसहायाय
नमः
।
ओं
अनाथनाथदीनबन्धवे
नमः
।
ओं
सर्वभारभृते
नमः
।
ओं
अकर्मानेककर्मासुकर्मिणे
नमः
।
ओं
पुण्यश्रवणकीर्तनाय
नमः
।
ओं
तीर्थाय
नमः
।
ओं
वासुदेवाय
नमः
।
ओं
सताङ्गतये
नमः
।
ओं
सत्परायणाय
नमः
।
80
ओं
लोकनाथाय
नमः
।
ओं
पावनानघाय
नमः
।
ओं
अमृतांशुवे
नमः
।
ओं
भास्करप्रभाय
नमः
।
ओं
ब्रह्मचर्यतपश्चर्यादि
सुव्रताय
नमः
।
ओं
सत्यधर्मपरायणाय
नमः
।
ओं
सिद्धेश्वराय
नमः
।
ओं
सिद्धसङ्कल्पाय
नमः
।
ओं
योगेश्वराय
नमः
।
ओं
भगवते
नमः
।
90
ओं
भक्तवत्सलाय
नमः
।
ओं
सत्पुरुषाय
नमः
।
ओं
पुरुषोत्तमाय
नमः
।
ओं
सत्यतत्त्वबोधकाय
नमः
।
ओं
कामादिषड्वैरिध्वंसिने
नमः
।
ओं
अभेदानन्दानुभवप्रदाय
नमः
।
ओं
सर्वमतसम्मताय
नमः
।
ओं
श्रीदक्षिणामूर्तये
नमः
।
ओं
श्रीवेङ्कटेशरमणाय
नमः
।
ओं
अद्भुतानन्दचर्याय
नमः
।
100
ओं
प्रपन्नार्तिहराय
नमः
।
ओं
संसारसर्वदुःखक्षयकराय
नमः
।
ओं
सर्ववित्सर्वतोमुखाय
नमः
।
ओं
सर्वान्तर्बहिःस्थिताय
नमः
।
ओं
सर्वमङ्गलकराय
नमः
।
ओं
सर्वाभीष्टप्रदाय
नमः
।
ओं
समरसन्मार्गस्थापनाय
नमः
।
ओं
श्रीसमर्थसद्गुरुसायिनाथाय
नमः
।
108
॥
इति
श्री
सायि
अष्टोत्तर
शत
नामावली
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits