Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

सायिनाथ पञ्चरत्न स्तोत्रम्

प्रत्यक्षदैवं प्रतिबन्धनाशनं
सत्यस्वरूपं सकलार्तिनाशनम् ।
सौख्यप्रदं शान्तमनोज्ञरूपं
सायिनाथं सद्गुरुं चरणं नमामि ॥ 1 ॥
भक्तावनं भक्तिमतां सुभाजनं
मुक्तिप्रदं भक्तमनोहरम् ।
विभुं ज्ञानसुशीलरूपिणं
सायिनाथं सद्गुरुं चरणं नमामि ॥ 2 ॥
कारुण्यमूर्तिं करुणायताक्षं
करारिमभ्यर्थित दासवर्गम् ।
कामादि षड्वर्गजितं वरेण्यं
सायिनाथं सद्गुरुं चरणं नमामि ॥ 3 ॥
वेदान्तवेद्यं विमलान्तरङ्गं
ध्यानाधिरूढं वरसेव्यसद्गुरुम् ।
त्यागि महल्सापति सेविताग्रं
सायिनाथं सद्गुरुं चरणं नमामि ॥ 4 ॥
पत्रिग्रामे जातं वर षिरिडि ग्रामनिवासं
श्रीवेङ्कटेश महर्षि शिष्यम् ।
शङ्करं शुभकरं भक्तिमतां
सायिनाथं सद्गुरुं चरणं नमामि ॥ 5 ॥
इति श्री सायिनाथ पञ्चरत्न स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits