पत्रिग्राम समुद्भूतं द्वारकामायि वासिनम् ।
भक्ताभीष्टप्रदं देवं सायिनाथं नमाम्यहम् ॥ 1 ॥
महोन्नत कुलेजातं क्षीराम्बुधि समे शुभे ।
द्विजराजं तमोघ्नं तं सायिनाथं नमाम्यहम् ॥ 2 ॥
जगदुद्धारणार्थं यो नररूप धरो विभुः ।
योगिनं च महात्मानं सायिनाथं नमाम्यहम् ॥ 3 ॥
साक्षात्कारे जये लाभे स्वात्मारामो गुरोर्मुखात् ।
निर्मलं मम गात्रं च सायिनाथं नमाम्यहम् ॥ 4 ॥
यस्य दर्शन मात्रेण नश्यन्ति व्याधि कोटयः ।
सर्वे पापाः प्रणश्यन्ति सायिनाथं नमाम्यहम् ॥ 5 ॥
नरसिंहादि शिष्याणां ददौ योऽनुग्रहं गुरुः ।
भवबन्धापहर्तारं सायिनाथं नमाम्यहम् ॥ 6 ॥
धनाढ्यान् च दरिद्रान्यः समदृष्ट्येव पश्यति ।
करुणासागरं देवं सायिनाथं नमाम्यहम् ॥ 7 ॥
समाधिस्थोपि यो भक्त्या समतीर्थार्थदानतः ।
अचिन्त्य महिमानन्तं सायिनाथं नमाम्यहम् ॥ 8 ॥
इति श्री सायिनाथ अष्टकम् ॥