Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

चिदम्बरेश्वर स्तोत्रम्

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वतीवामभागम् सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि 1 वाचामतीतं फणिभूषणाङ्गं गणेशतातं धनदस्य मित्रम् कन्दर्पनाशं कमलोत्पलाक्षं चिदम्बरेशं हृदि भावयामि 2 रमेशवन्द्यं रजताद्रिनाथं श्रीवामदेवं भवदुःखनाशम् रक्षाकरं राक्षसपीडितानां चिदम्बरेशं हृदि भावयामि 3 देवादिदेवं जगदेकनाथं देवेशवन्द्यं शशिखण्डचूडम् गौरीसमेतं कृतविघ्नदक्षं चिदम्बरेशं हृदि भावयामि 4 वेदान्तवेद्यं सुरवैरिविघ्नं शुभप्रदं भक्तिमदन्तराणाम् कालान्तकं श्रीकरुणाकटाक्षं चिदम्बरेशं हृदि भावयामि 5 हेमाद्रिचापं त्रिगुणात्मभावं गुहात्मजं व्याघ्रपुरीशमाद्यम् श्मशानवासं वृषवाहनस्थं चिदम्बरेशं हृदि भावयामि 6 आद्यन्तशून्यं त्रिपुरारिमीशं नन्दीशमुख्यस्तुतवैभवाढ्यम् समस्तदेवैः परिपूजिताङ्घ्रिं चिदम्बरेशं हृदि भावयामि 7 तमेव भान्तं ह्यनुभातिसर्व- -मनेकरूपं परमार्थमेकम् पिनाकपाणिं भवनाशहेतुं चिदम्बरेशं हृदि भावयामि 8 विश्वेश्वरं नित्यमनन्तमाद्यं त्रिलोचनं चन्द्रकलावतंसम् पतिं पशूनां हृदि सन्निविष्टं चिदम्बरेशं हृदि भावयामि 9 विश्वाधिकं विष्णुमुखैरुपास्यं त्रिलोचनं पञ्चमुखं प्रसन्नम् उमापतिं पापहरं प्रशान्तं चिदम्बरेशं हृदि भावयामि 10 कर्पूरगात्रं कमनीयनेत्रं कंसारिमित्रं कमलेन्दुवक्त्रम् कन्दर्पगात्रं कमलेशमित्रं चिदम्बरेशं हृदि भावयामि 11 विशालनेत्रं परिपूर्णगात्रं गौरीकलत्रं हरिदम्बरेशम् कुबेरमित्रं जगतः पवित्रं चिदम्बरेशं हृदि भावयामि 12 कल्याणमूर्तिं कनकाद्रिचापं कान्तासमाक्रान्तनिजार्धदेहम् कपर्दिनं कामरिपुं पुरारिं चिदम्बरेशं हृदि भावयामि 13 कल्पान्तकालाहितचण्डनृत्तं समस्तवेदान्तवचोनिगूढम् अयुग्मनेत्रं गिरिजासहायं चिदम्बरेशं हृदि भावयामि 14 दिगम्बरं शङ्खसिताल्पहासं कपालिनं शूलिनमप्रयेम् नागात्मजावक्त्रपयोजसूर्यं चिदम्बरेशं हृदि भावयामि 15 सदाशिवं सत्पुरुषैरनेकैः सदार्चितं सामशिरः सुगीतम् वैय्याघ्रचर्माम्बरमुग्रमीशं चिदम्बरेशं हृदि भावयामि 16 चिदम्बरस्य स्तवनं पठेद्यः प्रदोषकालेषु पुमान् धन्यः भोगानशेषाननुभूय भूयः सायुज्यमप्येति चिदम्बरस्य 17 इति श्री चिदम्बरेश्वर स्तोत्रं सम्पूर्णम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits