हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
चिदम्बर पञ्चचामर स्तोत्रम्
कदम्बकाननप्रियं
चिदम्बया
विहारिणं
मदेभकुम्भगुम्फितस्वडिम्भलालनोत्सुकम्
।
सदम्भकामखण्डनं
सदम्बुवाहिनीधरं
हृदम्बुजे
जगद्गुरुं
चिदम्बरं
विभावये
॥
1
॥
समस्तभक्तपोषणस्वहस्तबद्धकङ्कणं
प्रशस्तकीर्तिवैभवं
निरस्तसज्जनापदम्
।
करस्थमुक्तिसाधनं
शिरःस्थचन्द्रमण्डनं
हृदम्बुजे
जगद्गुरुं
चिदम्बरं
विभावये
॥
2
॥
जटाकिरीटमण्डितं
निटाललोचनान्वितं
पटीकृताष्टदिक्तटं
पटीरपङ्कलेपनम्
।
नटौघपूर्वभाविनं
कुठारपाशधारिणं
हृदम्बुजे
जगद्गुरुं
चिदम्बरं
विभावये
॥
3
॥
कुरङ्गशाबशोभितं
चिरं
गजाननार्चितं
पुराङ्गनाविचारदं
वराङ्गरागरञ्जितम्
।
खराङ्गजातनाशकं
तुरङ्गमीकृतागमं
हृदम्बुजे
जगद्गुरुं
चिदम्बरं
विभावये
॥
4
॥
अमन्दभाग्यभाजनं
सुमन्दहाससन्मुखं
सुमन्दमन्दगामिनीगिरीन्द्रकन्यकाधवम्
।
शमं
दमं
दयालुताममन्दयन्तमात्मनो
हृदम्बुजे
जगद्गुरुं
चिदम्बरं
विभावये
॥
5
॥
करीन्द्रचर्मवाससं
गिरीन्द्रचापधारिणं
सुरेन्द्रमुख्यपूजितं
खगेन्द्रवाहनप्रियम्
।
अहीन्द्रभूषणोज्ज्वलं
नगेन्द्रजाविलासिनं
हृदम्बुजे
जगद्गुरुं
चिदम्बरं
विभावये
॥
6
॥
मलापहारिणीतटे
सदा
विलासकारिणं
बलारिशापभञ्जनं
ललामरूपलोचनम्
।
लसत्फणीन्द्रहारिणं
ज्वलत्त्रिशूलधारिणं
हृदम्बुजे
जगद्गुरुं
चिदम्बरं
विभावये
॥
7
॥
शशाङ्कभानुवीतिहोत्रराजितत्रिलोचनं
विशालवक्षसं
सुदीर्घबाहुदण्डमण्डितम्
।
दिगम्बरोल्लसद्वपुर्धरं
धरारथान्वितं
हृदम्बुजे
जगद्गुरुं
चिदम्बरं
विभावये
॥
8
॥
सदन्तरङ्गसज्जनौघपापसङ्घनाशने
मदान्धयुक्तदुर्जनालिशिक्षणे
विचक्षणः
।
चिदम्बराख्यसद्गुरुस्वरूपमेत्य
भूतले
सदाशिवो
विराजते
सदा
मुदान्वितो
हरः
॥
9
॥
चिदम्बराख्यसद्गुरोरिदं
सदा
विलासिनं
मुदा
लिखन्ति
ये
सकृत्
सदोपमानमष्टकम्
।
सदा
वसेत्तदालये
हरिप्रिया
तदानने
विधिप्रिया
च
निश्चला
जगद्गुरोरनुग्रहात्
॥
10
॥
इति
श्री
चिदम्बर
पञ्चचामर
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits