हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
प्रह्लाद कृतम् नृसिंह कवचम्
नृसिंहकवचं
वक्ष्ये
प्रह्लादेनोदितं
पुरा
।
सर्वरक्षाकरं
पुण्यं
सर्वोपद्रवनाशनम्
॥
1
॥
सर्वसम्पत्करं
चैव
स्वर्गमोक्षप्रदायकम्
।
ध्यात्वा
नृसिंहं
देवेशं
हेमसिंहासनस्थितम्
॥
2
॥
विवृतास्यं
त्रिनयनं
शरदिन्दुसमप्रभम्
।
लक्ष्म्यालिङ्गितवामाङ्गं
विभूतिभिरुपाश्रितम्
॥
3
॥
चतुर्भुजं
कोमलाङ्गं
स्वर्णकुण्डलशोभितम्
।
सरोजशोभितोरस्कं
रत्नकेयूरमुद्रितम्
॥
4
॥
तप्तकाञ्चनसङ्काशं
पीतनिर्मलवाससम्
।
इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः
॥
5
॥
विराजितपदद्वन्द्वं
शङ्खचक्रादिहेतिभिः
।
गरुत्मता
सविनयं
स्तूयमानं
मुदान्वितम्
॥
6
॥
स्वहृत्कमलसंवासं
कृत्वा
तु
कवचं
पठेत्
।
नृसिंहो
मे
शिरः
पातु
लोकरक्षात्मसम्भवः
॥
7
॥
सर्वगोऽपि
स्तम्भवासः
फालं
मे
रक्षतु
ध्वनिम्
।
नृसिंहो
मे
दृशौ
पातु
सोमसूर्याग्निलोचनः
॥
8
॥
स्मृतिं
मे
पातु
नृहरिर्मुनिवर्यस्तुतिप्रियः
।
नासां
मे
सिंहनासस्तु
मुखं
लक्ष्मीमुखप्रियः
॥
9
॥
सर्वविद्याधिपः
पातु
नृसिंहो
रसनां
मम
।
वक्त्रं
पात्विन्दुवदनः
सदा
प्रह्लादवन्दितः
॥
10
॥
नृसिंहः
पातु
मे
कण्ठं
स्कन्धौ
भूभरणान्तकृत्
।
दिव्यास्त्रशोभितभुजो
नृसिंहः
पातु
मे
भुजौ
॥
11
॥
करौ
मे
देववरदो
नृसिंहः
पातु
सर्वतः
।
हृदयं
योगिसाध्यश्च
निवासं
पातु
मे
हरिः
॥
12
॥
मध्यं
पातु
हिरण्याक्षवक्षःकुक्षिविदारणः
।
नाभिं
मे
पातु
नृहरिः
स्वनाभिब्रह्मसंस्तुतः
॥
13
॥
ब्रह्माण्डकोटयः
कट्यां
यस्यासौ
पातु
मे
कटिम्
।
गुह्यं
मे
पातु
गुह्यानां
मन्त्राणां
गुह्यरूपधृक्
॥
14
॥
ऊरू
मनोभवः
पातु
जानुनी
नररूपधृक्
।
जङ्घे
पातु
धराभारहर्ता
योऽसौ
नृकेसरी
॥
15
॥
सुरराज्यप्रदः
पातु
पादौ
मे
नृहरीश्वरः
।
सहस्रशीर्षा
पुरुषः
पातु
मे
सर्वशस्तनुम्
॥
16
॥
महोग्रः
पूर्वतः
पातु
महावीराग्रजोऽग्नितः
।
महाविष्णुर्दक्षिणे
तु
महाज्वालस्तु
नैरृतौ
॥
17
॥
पश्चिमे
पातु
सर्वेशो
दिशि
मे
सर्वतोमुखः
।
नृसिंहः
पातु
वायव्यां
सौम्यां
भूषणविग्रहः
॥
18
॥
ईशान्यां
पातु
भद्रो
मे
सर्वमङ्गलदायकः
।
संसारभयदः
पातु
मृत्योर्मृत्युर्नृकेसरी
॥
19
॥
इदं
नृसिंहकवचं
प्रह्लादमुखमण्डितम्
।
भक्तिमान्यः
पठेन्नित्यं
सर्वपापैः
प्रमुच्यते
॥
20
॥
पुत्रवान्
धनवान्
लोके
दीर्घायुरुपजायते
।
यं
यं
कामयते
कामं
तं
तं
प्राप्नोत्यसंशयम्
॥
21
॥
सर्वत्र
जयमाप्नोति
सर्वत्र
विजयी
भवेत्
।
भूम्यन्तरिक्षदिव्यानां
ग्रहाणां
विनिवारणम्
॥
22
॥
वृश्चिकोरगसम्भूतविषापहरणं
परम्
।
ब्रह्मराक्षसयक्षाणां
दूरोत्सारणकारणम्
॥
23
॥
भूर्जे
वा
तालपत्रे
वा
कवचं
लिखितं
शुभम्
।
करमूले
धृतं
येन
सिध्येयुः
कर्मसिद्धयः
॥
24
॥
देवासुरमनुष्येषु
स्वं
स्वमेव
जयं
लभेत्
।
एकसन्ध्यं
त्रिसन्ध्यं
वा
यः
पठेन्नियतो
नरः
॥
25
॥
सर्वमङ्गलमाङ्गल्यं
भुक्तिं
मुक्तिं
च
विन्दति
।
द्वात्रिंशच्च
सहस्राणि
पठेच्छुद्धात्मनां
नृणाम्
॥
26
॥
कवचस्यास्य
मन्त्रस्य
मन्त्रसिद्धिः
प्रजायते
।
अनेन
मन्त्रराजेन
कृत्वा
भस्माभिमन्त्रणम्
॥
27
॥
तिलकं
विन्यसेद्यस्तु
तस्य
ग्रहभयं
हरेत्
।
त्रिवारं
जपमानस्तु
दत्तं
वार्यभिमन्त्र्य
च
॥
28
॥
प्राशयेद्यो
नरो
मन्त्रं
नृसिंहध्यानमाचरेत्
।
तस्य
रोगाः
प्रणश्यन्ति
ये
च
स्युः
कुक्षिसम्भवाः
॥
29
॥
किमत्र
बहुनोक्तेन
नृसिंहसदृशो
भवेत्
।
मनसा
चिन्तितं
यत्तु
स
तच्चाप्नोत्यसंशयम्
॥
30
॥
गर्जन्तं
गर्जयन्तं
निजभुजपटलं
स्फोटयन्तं
हटन्तं
रूप्यन्तं
तापयन्तं
दिवि
भुवि
दितिजं
क्षेपयन्तं
क्षिपन्तम्
।
क्रन्दन्तं
रोषयन्तं
दिशि
दिशि
सततं
संहरन्तं
भरन्तं
वीक्षन्तं
घूर्णयन्तं
शरनिकरशतैर्दिव्यसिंहं
नमामि
॥
31
॥
इति
श्रीब्रह्माण्डपुराणे
प्रह्लादोक्तं
श्री
नृसिंह
कवचम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits