हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
कामासिकाष्टकम्
श्रुतीनामुत्तरं
भागं
वेगवत्याश्च
दक्षिणम्
।
कामादधिवसन्
जीयात्
कश्चिदद्भुत
केसरी
॥
1
॥
तपनेन्द्वग्निनयनः
तापानपचिनोतु
नः
।
तापनीयरहस्यानां
सारः
कामासिका
हरिः
॥
2
॥
आकण्ठमादिपुरुषं
कण्ठीरवमुपरि
कुण्ठितारातिम्
।
वेगोपकण्ठसङ्गात्
विमुक्तवैकुण्ठबहुमतिमुपासे
॥
3
॥
बन्धुमखिलस्य
जन्तोः
बन्धुरपर्यङ्कबन्धरमणीयम्
।
विषमविलोचनमीडे
वेगवतीपुलिनकेलिनरसिंहम्
॥
4
॥
स्वस्थानेषु
मरुद्गणान्
नियमयन्
स्वाधीनसर्वेन्द्रियः
पर्यङ्कस्थिरधारणा
प्रकटितप्रत्यङ्मुखावस्थितिः
।
प्रायेण
प्रणिपेदुषः
प्रभुरसौ
योगं
निजं
शिक्षयन्
कामानातनुतादशेषजगतां
कामासिका
केसरी
॥
5
॥
विकस्वरनखस्वरुक्षतहिरण्यवक्षःस्थली-
-निरर्गलविनिर्गलद्रुधिरसिन्धुसन्ध्यायिताः
।
अवन्तु
मदनासिकामनुजपञ्चवक्त्रस्य
मां
अहम्प्रथमिकामिथः
प्रकटिताहवा
बाहवः
॥
6
॥
सटापटलभीषणे
सरभसाट्टहासोद्भटे
स्फुरत्
क्रुधिपरिस्फुट
भ्रुकुटिकेऽपि
वक्त्रे
कृते
।
कृपाकपटकेसरिन्
दनुजडिम्भदत्तस्तना
सरोजसदृशा
दृशा
व्यतिविषज्य
ते
व्यज्यते
॥
7
॥
त्वयि
रक्षति
रक्षकैः
किमन्यै-
-स्त्वयि
चारक्षति
रक्षकैः
किमन्यैः
।
इति
निश्चितधीः
श्रयामि
नित्यं
नृहरे
वेगवतीतटाश्रयं
त्वाम्
॥
8
॥
इत्थं
स्तुतः
सकृदिहाष्टभिरेष
पद्यैः
श्रीवेङ्कटेशरचितैस्त्रिदशेन्द्रवन्द्यः
।
दुर्दान्तघोरदुरितद्विरदेन्द्रभेदी
कामासिकानरहरिर्वितनोतु
कामान्
॥
9
॥
इति
श्रीवेदान्तदेशिककृतं
कामासिकाष्टकम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits