हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री गायत्री स्तोत्रम्
नमस्ते
देवि
गायत्री
सावित्री
त्रिपदेऽक्षरी
।
अजरे
अमरे
माता
त्राहि
मां
भवसागरात्
॥
1
॥
नमस्ते
सूर्यसङ्काशे
सूर्यसावित्रिकेऽमले
।
ब्रह्मविद्ये
महाविद्ये
वेदमातर्नमोऽस्तु
ते
॥
2
॥
अनन्तकोटिब्रह्माण्डव्यापिनी
ब्रह्मचारिणी
।
नित्यानन्दे
महामाये
परेशानी
नमोऽस्तु
ते
॥
3
॥
त्वं
ब्रह्मा
त्वं
हरिः
साक्षाद्रुद्रस्त्वमिन्द्रदेवता
।
मित्रस्त्वं
वरुणस्त्वं
च
त्वमग्निरश्विनौ
भगः
॥
4
॥
पूषाऽर्यमा
मरुत्वांश्च
ऋषयोऽपि
मुनीश्वराः
।
पितरो
नागयक्षांश्च
गन्धर्वाऽप्सरसां
गणाः
॥
5
॥
रक्षोभूतपिशाचाश्च
त्वमेव
परमेश्वरी
।
ऋग्यजुस्सामविद्याश्च
अथर्वाङ्गिरसानि
च
॥
6
॥
त्वमेव
सर्वशास्त्राणि
त्वमेव
सर्वसंहिताः
।
पुराणानि
च
तन्त्राणि
महागममतानि
च
॥
7
॥
त्वमेव
पञ्चभूतानि
तत्त्वानि
जगदीश्वरी
।
ब्राह्मी
सरस्वती
सन्ध्या
तुरीया
त्वं
महेश्वरी
॥
8
॥
तत्सद्ब्रह्मस्वरूपा
त्वं
किञ्चित्
सदसदात्मिका
।
परात्परेशी
गायत्री
नमस्ते
मातरम्बिके
॥
9
॥
चन्द्रकलात्मिके
नित्ये
कालरात्रि
स्वधे
स्वरे
।
स्वाहाकारेऽग्निवक्त्रे
त्वां
नमामि
जगदीश्वरी
॥
10
॥
नमो
नमस्ते
गायत्री
सावित्री
त्वं
नमाम्यहम्
।
सरस्वती
नमस्तुभ्यं
तुरीये
ब्रह्मरूपिणी
॥
11
॥
अपराध
सहस्राणि
त्वसत्कर्मशतानि
च
।
मत्तो
जातानि
देवेशी
त्वं
क्षमस्व
दिने
दिने
॥
12
॥
इति
श्रीमद्वसिष्ठसंहितायां
श्री
गायत्री
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits