हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री गायत्री स्तवराजः
अस्य
श्रीगायत्रीस्तवराजस्तोत्रमन्त्रस्य
विश्वामित्र
ऋषिः,
सकलजननी
चतुष्पदा
श्रीगायत्री
परमात्मा
देवता,
सर्वोत्कृष्टं
परं
धाम
प्रथमपादो
बीजं,
द्वितीयः
शक्तिः,
तृतीयः
कीलकं,
दशप्रणवसम्युक्ता
सव्याहृतिका
तुरीयपादो
व्यापकं,
मम
धर्मार्थकाममोक्षार्थे
जपे
विनियोगः
।
न्यासं
कृत्वा
ध्यायेत्
।
अथ
ध्यानम्
।
गायत्रीं
वेदधात्रीं
शतमखफलदां
वेदशास्त्रैकवेद्यां
चिच्छक्तिं
ब्रह्मविद्यां
परमशिवपदां
श्रीपदं
वै
करोति
।
सर्वोत्कृष्टं
पदं
तत्सवितुरनुपदान्ते
वरेण्यं
शरण्यं
भर्गो
देवस्य
धीमह्यभिदधति
धियो
यो
नः
प्रचोदयात्
॥
1
॥
इत्यौर्वतेजः
।
साम्राज्यबीजं
प्रणवं
त्रिपादं
सव्यापसव्यं
प्रजपेत्सहस्रकम्
।
सम्पूर्णकामं
प्रणवं
विभूतिं
तथा
भवेद्वाक्यविचित्रवाणी
॥
2
॥
शुभं
शिवं
शोभनमस्तु
मह्यं
सौभाग्यभोगोत्सवमस्तु
नित्यम्
।
प्रकाशविद्यात्रयशास्त्रसर्वं
भजेन्महामन्त्रफलं
प्रिये
वै
॥
3
॥
ब्रह्मास्त्रं
ब्रह्मदण्डं
शिरसि
शिखिमहद्ब्रह्मशीर्षं
नमोऽन्तं
सूक्तं
पारायणोक्तं
प्रणवमथ
महावाक्यसिद्धान्तमूलम्
।
तुर्यं
त्रीणि
द्वितीयं
प्रथममनुमहावेदवेदान्तसूक्तं
नित्यं
स्मृत्यानुसारं
नियमितचरितं
मूलमन्त्रं
नमोऽन्तम्
॥
4
॥
अस्त्रं
शस्त्रहतं
त्वघोरसहितं
दण्डेन
वाजीहतं
चादित्यादिहतं
शिरोऽन्तसहितं
पापक्षयार्थं
परम्
।
तुर्यान्त्यादिविलोममन्त्रपठनं
बीजं
शिखान्तोर्ध्वकं
नित्यं
कालनियम्यविप्रविदुषां
किं
दुष्कृतं
भूसुरान्
॥
5
॥
नित्यं
मुक्तिप्रदं
नियम्य
पवनं
निर्घोषशक्तित्रयं
सम्यग्ज्ञानगुरूपदेशविधिवद्देवीं
शिखां
तामपि
।
षष्ट्यैकोत्तरसङ्ख्ययानुगतसौषुम्नादिमार्गत्रयीं
ध्यायेन्नित्यसमस्तवेदजननीं
देवीं
त्रिसन्ध्यामयीम्
॥
6
॥
गायत्रीं
सकलागमार्थविदुषां
सौरस्य
बीजेश्वरीं
सर्वाम्नायसमस्तमन्त्रजननीं
सर्वज्ञधामेश्वरीम्
।
ब्रह्मादित्रयसम्पुटार्थकरणीं
संसारपारायणीं
सन्ध्यां
सर्वसमानतन्त्र
परया
ब्रह्मानुसन्धायिनीम्
॥
7
॥
एकद्वित्रिचतुःसमानगणनावर्णाष्टकं
पादयोः
पादादौ
प्रणवादिमन्त्रपठने
मन्त्रत्रयी
सम्पुटाम्
।
सन्ध्यायां
द्विपदं
पठेत्परतरं
सायं
तुरीयं
युतं
नित्यानित्यमनन्तकोटिफलदं
प्राप्तं
नमस्कुर्महे
॥
8
॥
ओजोऽसीति
सहोऽस्यहो
बलमसि
भ्राजोऽसि
तेजस्विनी
वर्चस्वी
सविताग्निसोमममृतं
रूपं
परं
धीमहि
।
देवानां
द्विजवर्यतां
मुनिगणे
मुक्त्यर्थिनां
शान्तिना-
-मोमित्येकमृचं
पठन्ति
यमिनो
यं
यं
स्मरेत्प्राप्नुयात्
॥
9
॥
ओमित्येकमजस्वरूपममलं
तत्सप्तधा
भाजितं
तारं
तन्त्रसमन्वितं
परतरे
पादत्रयं
गर्भितम्
।
आपो
ज्योति
रसोऽमृतं
जनमहः
सत्यं
तपः
स्वर्भुव-
-र्भूयो
भूय
नमामि
भूर्भुवःस्वरोमेतैर्महामन्त्रकम्
॥
10
॥
आदौ
बिन्दुमनुस्मरन्
परतरे
बाला
त्रिवर्णोच्चरन्
व्याहृत्यादिसबिन्दुयुक्तत्रिपदातारत्रयं
तुर्यकम्
।
आरोहादवरोहतः
क्रमगता
श्रीकुण्डलीत्थं
स्थिता
देवी
मानसपङ्कजे
त्रिनयना
पञ्चानना
पातु
माम्
॥
11
॥
सर्वे
सर्ववशे
समस्तसमये
सत्यात्मिके
सात्त्विके
सावित्रीसवितात्मिके
शशियुते
साङ्ख्यायनी
गोत्रजे
।
सन्ध्यात्रीण्युपकल्प्य
सङ्ग्रहविधिः
सन्ध्याभिधानामके
गायत्रीप्रणवादिमन्त्रगुरुणा
सम्प्राप्य
तस्मै
नमः
॥
12
॥
क्षेमं
दिव्यमनोरथाः
परतरे
चेतः
समाधीयितां
ज्ञानं
नित्यवरेण्यमेतदमलं
देवस्य
भर्गो
धियन्
।
मोक्षश्रीर्विजयार्थिनोऽथ
सवितुः
श्रेष्ठं
विधिस्तत्पदं
प्रज्ञा
मेध
प्रचोदयात्प्रतिदिनं
यो
नः
पदं
पातु
माम्
॥
13
॥
सत्यं
तत्सवितुर्वरेण्यविरलं
विश्वादिमायात्मकं
सर्वाद्यं
प्रतिपादपादरमया
तारं
तथा
मन्मथम्
।
तुर्यान्यत्रितयं
द्वितीयमपरं
सम्योगसव्याहृतिं
सर्वाम्नायमनोन्मनीं
मनसिजां
ध्यायामि
देवीं
पराम्
॥
14
॥
आदौ
गायत्रिमन्त्रं
गुरुकृतनियमं
धर्मकर्मानुकूलं
सर्वाद्यं
सारभूतं
सकलमनुमयं
देवतानामगम्यम्
।
देवानां
पूर्वदेवं
द्विजकुलमुनिभिः
सिद्धविद्याधराद्यैः
को
वा
वक्तुं
समर्थस्तव
मनुमहिमाबीजराजादिमूलम्
॥
15
॥
गायत्रीं
त्रिपदां
त्रिबीजसहितां
त्रिव्याहृतिं
त्रिपदां
त्रिब्रह्मा
त्रिगुणां
त्रिकालनियमां
वेदत्रयीं
तां
पराम्
।
साङ्ख्यादित्रयरूपिणीं
त्रिनयनां
मातृत्रयीं
तत्परां
त्रैलोक्य
त्रिदशत्रिकोटिसहितां
सन्ध्यां
त्रयीं
तां
नुमः
॥
16
॥
ओमित्येतत्त्रिमात्रा
त्रिभुवनकरणं
त्रिस्वरं
वह्निरूपं
त्रीणि
त्रीणि
त्रिपादं
त्रिगुणगुणमयं
त्रैपुरान्तं
त्रिसूक्तम्
।
तत्त्वानां
पूर्वशक्तिं
द्वितयगुरुपदं
पीठयन्त्रात्मकं
तं
तस्मादेतत्त्रिपादं
त्रिपदमनुसरं
त्राहि
मां
भो
नमस्ते
॥
17
॥
स्वस्ति
श्रद्धाऽतिमेधा
मधुमतिमधुरः
संशयः
प्रज्ञकान्ति-
-र्विद्याबुद्धिर्बलं
श्रीरतुलधनपतिः
सौम्यवाक्यानुवृत्तिः
।
मेधा
प्रज्ञा
प्रतिष्ठा
मृदुपतिमधुरापूर्णविद्या
प्रपूर्णं
प्राप्तं
प्रत्यूषचिन्त्यं
प्रणवपरवशात्प्राणिनां
नित्यकर्म
॥
18
॥
पञ्चाशद्वर्णमध्ये
प्रणवपरयुते
मन्त्रमाद्यं
नमोन्तं
सर्वं
सव्यापसव्यं
शतगुणमभितो
वर्णमष्टोत्तरं
ते
।
एवं
नित्यं
प्रजप्तं
त्रिभुवनसहितं
तुर्यमन्त्रं
त्रिपादं
ज्ञानं
विज्ञानगम्यं
गगनसुसदृशं
ध्यायते
यः
स
मुक्तः
॥
19
॥
आदिक्षान्तसबिन्दुयुक्तसहितं
मेरुं
क्षकारात्मकं
व्यस्ताव्यस्तसमस्तवर्गसहितं
पूर्णं
शताष्टोत्तरम्
।
गायत्रीं
जपतां
त्रिकालसहितां
नित्यं
सनैमित्तिकं
एवं
जाप्यफलं
शिवेन
कथितं
सद्भोगमोक्षप्रदम्
॥
20
॥
सप्तव्याहृतिसप्ततारविकृतिः
सत्यं
वरेण्यं
धृतिः
सर्वं
तत्सवितुश्च
धीमहि
महाभर्गस्य
देवं
भजे
।
धाम्नो
धाम
समाधिधारणमहान्
धीमत्पदं
ध्यायते
ओं
तत्सर्वमनुप्रपूर्णदशकं
पादत्रयं
केवलम्
॥
21
॥
विज्ञानं
विलसद्विवेकवचसः
प्रज्ञानुसन्धारिणीं
श्रद्धामेध्ययशः
शिरः
सुमनसः
स्वस्ति
श्रियं
त्वां
सदा
।
आयुष्यं
धनधान्यलक्ष्मिमतुलं
देवीं
कटाक्षं
परं
तत्काले
सकलार्थसाधनमहान्मुक्तिर्महत्वं
पदम्
॥
22
॥
पृथ्वी
गन्धोऽर्चनायां
नभसि
कुसुमता
वायुधूपप्रकर्षो
वह्निर्दीपप्रकाशो
जलममृतमयं
नित्यसङ्कल्पपूजा
।
एतत्सर्वं
निवेद्यं
सुखवसति
हृदि
सर्वदा
दम्पतीनां
त्वं
सर्वज्ञ
शिवं
कुरुष्व
ममता
नाहं
त्वया
ज्ञेयसि
॥
23
॥
सौम्यं
सौभाग्यहेतुं
सकलसुखकरं
सर्वसौख्यं
समस्तं
सत्यं
सद्भोगनित्यं
सुखजनसुहृदं
सुन्दरं
श्रीसमस्तम्
।
सौमङ्गल्यं
समग्रं
सकलशुभकरं
स्वस्तिवाचं
समस्तं
सर्वाद्यं
सद्विवेकं
त्रिपदपदयुगं
प्राप्तुमध्यासमस्तम्
॥
24
॥
गायत्रीपदपञ्चपञ्चप्रणवद्वन्द्वं
त्रिधा
सम्पुटं
सृष्ट्यादिक्रममन्त्रजाप्यदशकं
देवीपदं
क्षुत्त्रयम्
।
मन्त्रादिस्थितिकेषु
सम्पुटमिदं
श्रीमातृकावेष्टितं
वर्णान्त्यादिविलोममन्त्रजपनं
संहारसम्मोहनम्
॥
25
॥
भूराद्यं
भूर्भुवस्वस्त्रिपदपदयुतं
त्र्यक्षमाद्यन्तयोज्यं
सृष्टिस्थित्यन्तकार्यं
क्रमशिखिसकलं
सर्वमन्त्रं
प्रशस्तम्
।
सर्वाङ्गं
मातृकाणां
मनुमयवपुषं
मन्त्रयोगं
प्रयुक्तं
संहारं
क्षादिवर्णं
वसुशतगणनं
मन्त्रराजं
नमामि
॥
26
॥
विश्वामित्रमुदाहृतं
हितकरं
सर्वार्थसिद्धिप्रदं
स्तोत्राणां
परमं
प्रभातसमये
पारायणं
नित्यशः
।
वेदानां
विधिवादमन्त्रसकलं
सिद्धिप्रदं
सम्पदां
सम्प्राप्नोति
परत्र
सर्वसुखदं
चायुष्यमारोग्यताम्
॥
27
॥
इति
श्रीविश्वामित्र
कृत
श्री
गायत्री
स्तवराजः
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits