हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री गायत्र्यष्टोत्तरशतनाम स्तोत्रम्
श्रीगायत्री
जगन्माता
परब्रह्मस्वरूपिणी
।
परमार्थप्रदा
जप्या
ब्रह्मतेजोविवर्धिनी
॥
1
॥
ब्रह्मास्त्ररूपिणी
भव्या
त्रिकालध्येयरूपिणी
।
त्रिमूर्तिरूपा
सर्वज्ञा
वेदमाता
मनोन्मनी
॥
2
॥
बालिका
तरुणी
वृद्धा
सूर्यमण्डलवासिनी
।
मन्देहदानवध्वंसकारिणी
सर्वकारणा
॥
3
॥
हंसारूढा
वृषारूढा
गरुडारोहिणी
शुभा
।
षट्कुक्षिस्त्रिपदा
शुद्धा
पञ्चशीर्षा
त्रिलोचना
॥
4
॥
त्रिवेदरूपा
त्रिविधा
त्रिवर्गफलदायिनी
।
दशहस्ता
चन्द्रवर्णा
विश्वामित्रवरप्रदा
॥
5
॥
दशायुधधरा
नित्या
सन्तुष्टा
ब्रह्मपूजिता
।
आदिशक्तिर्महाविद्या
सुषुम्नाख्या
सरस्वती
॥
6
॥
चतुर्विंशत्यक्षराढ्या
सावित्री
सत्यवत्सला
।
सन्ध्या
रात्रिः
प्रभाताख्या
साङ्ख्यायनकुलोद्भवा
॥
7
॥
सर्वेश्वरी
सर्वविद्या
सर्वमन्त्रादिरव्यया
।
शुद्धवस्त्रा
शुद्धविद्या
शुक्लमाल्यानुलेपना
॥
8
॥
सुरसिन्धुसमा
सौम्या
ब्रह्मलोकनिवासिनी
।
प्रणवप्रतिपाद्यार्था
प्रणतोद्धरणक्षमा
॥
9
॥
जलाञ्जलिसुसन्तुष्टा
जलगर्भा
जलप्रिया
।
स्वाहा
स्वधा
सुधासंस्था
श्रौषड्वौषड्वषट्क्रिया
॥
10
॥
सुरभिः
षोडशकला
मुनिबृन्दनिषेविता
।
यज्ञप्रिया
यज्ञमूर्तिः
स्रुक्स्रुवाज्यस्वरूपिणी
॥
11
॥
अक्षमालाधरा
चाऽक्षमालासंस्थाऽक्षराकृतिः
।
मधुच्छन्दऋषिप्रीता
स्वच्छन्दा
छन्दसां
निधिः
॥
12
॥
अङ्गुलीपर्वसंस्थाना
चतुर्विंशतिमुद्रिका
।
ब्रह्ममूर्ती
रुद्रशिखा
सहस्रपरमाऽम्बिका
॥
13
॥
विष्णुहृद्गा
चाग्निमुखी
शतमध्या
दशावरा
।
सहस्रदलपद्मस्था
हंसरूपा
निरञ्जना
॥
14
॥
चराचरस्था
चतुरा
सूर्यकोटिसमप्रभा
।
पञ्चवर्णमुखी
धात्री
चन्द्रकोटिशुचिस्मिता
॥
15
॥
महामाया
विचित्राङ्गी
मायाबीजनिवासिनी
।
सर्वयन्त्रात्मिका
सर्वतन्त्ररूपा
जगद्धिता
॥
16
॥
मर्यादापालिका
मान्या
महामन्त्रफलप्रदा
।
इत्यष्टोत्तरनामानि
गायत्र्याः
प्रोक्तवान्मुनिः
॥
17
॥
एतदष्टोत्तरशतं
नित्यं
भक्तियुतः
शुचिः
।
त्रिसन्ध्यं
यः
पठेत्सर्वमन्त्रसिद्धिमवाप्नुयात्
॥
18
॥
इति
श्रीवसिष्ठ
प्रोक्त
श्री
गायत्र्यष्टोत्तरशतनाम
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits