Haindavam
हैं
హై
Haindavam
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री गायत्र्यष्टोत्तर शत नामावलिः
ओं श्रीगायत्र्यै नमः ।
ओं जगन्मात्रे नमः ।
ओं परब्रह्मस्वरूपिण्यै नमः ।
ओं परमार्थप्रदायै नमः ।
ओं जप्यायै नमः ।
ओं ब्रह्मतेजोविवर्धिन्यै नमः ।
ओं ब्रह्मास्त्ररूपिण्यै नमः ।
ओं भव्यायै नमः ।
ओं त्रिकालध्येयरूपिण्यै नमः ।
ओं त्रिमूर्तिरूपायै नमः । 10
ओं सर्वज्ञायै नमः ।
ओं वेदमात्रे नमः ।
ओं मनोन्मन्यै नमः ।
ओं बालिकायै नमः ।
ओं तरुण्यै नमः ।
ओं वृद्धायै नमः ।
ओं सूर्यमण्डलवासिन्यै नमः ।
ओं मन्देहदानवध्वंसकारिण्यै नमः ।
ओं सर्वकारणायै नमः ।
ओं हंसारूढायै नमः । 20
ओं वृषारूढायै नमः ।
ओं गरुडारोहिण्यै नमः ।
ओं शुभायै नमः ।
ओं षट्कुक्ष्यै नमः ।
ओं त्रिपदायै नमः ।
ओं शुद्धायै नमः ।
ओं पञ्चशीर्षायै नमः ।
ओं त्रिलोचनायै नमः ।
ओं त्रिवेदरूपायै नमः ।
ओं त्रिविधायै नमः । 30
ओं त्रिवर्गफलदायिन्यै नमः ।
ओं दशहस्तायै नमः ।
ओं चन्द्रवर्णायै नमः ।
ओं विश्वामित्रवरप्रदायै नमः ।
ओं दशायुधधरायै नमः ।
ओं नित्यायै नमः ।
ओं सन्तुष्टायै नमः ।
ओं ब्रह्मपूजितायै नमः ।
ओं आदिशक्त्यै नमः ।
ओं महाविद्यायै नमः । 40
ओं सुषुम्नाख्यायै नमः ।
ओं सरस्वत्यै नमः ।
ओं चतुर्विंशत्यक्षराढ्यायै नमः ।
ओं सावित्र्यै नमः ।
ओं सत्यवत्सलायै नमः ।
ओं सन्ध्यायै नमः ।
ओं रात्र्यै नमः ।
ओं प्रभाताख्यायै नमः ।
ओं साङ्ख्यायनकुलोद्भवायै नमः ।
ओं सर्वेश्वर्यै नमः । 50
ओं सर्वविद्यायै नमः ।
ओं सर्वमन्त्रादये नमः ।
ओं अव्ययायै नमः ।
ओं शुद्धवस्त्रायै नमः ।
ओं शुद्धविद्यायै नमः ।
ओं शुक्लमाल्यानुलेपनायै नमः ।
ओं सुरसिन्धुसमायै नमः ।
ओं सौम्यायै नमः ।
ओं ब्रह्मलोकनिवासिन्यै नमः ।
ओं प्रणवप्रतिपाद्यार्थायै नमः । 60
ओं प्रणतोद्धरणक्षमायै नमः ।
ओं जलाञ्जलिसुसन्तुष्टायै नमः ।
ओं जलगर्भायै नमः ।
ओं जलप्रियायै नमः ।
ओं स्वाहायै नमः ।
ओं स्वधायै नमः ।
ओं सुधासंस्थायै नमः ।
ओं श्रौषड्वौषड्वषट्क्रियायै नमः ।
ओं सुरभ्यै नमः ।
ओं षोडशकलायै नमः । 70
ओं मुनिबृन्दनिषेवितायै नमः ।
ओं यज्ञप्रियायै नमः ।
ओं यज्ञमूर्त्यै नमः ।
ओं स्रुक्स्रुवाज्यस्वरूपिण्यै नमः ।
ओं अक्षमालाधरायै नमः ।
ओं अक्षमालासंस्थायै नमः ।
ओं अक्षराकृत्यै नमः ।
ओं मधुच्छन्दऋषिप्रीतायै नमः ।
ओं स्वच्छन्दायै नमः ।
ओं छन्दसां निधये नमः । 80
ओं अङ्गुलीपर्वसंस्थानायै नमः ।
ओं चतुर्विंशतिमुद्रिकायै नमः ।
ओं ब्रह्ममूर्त्यै नमः ।
ओं रुद्रशिखायै नमः ।
ओं सहस्रपरमायै नमः ।
ओं अम्बिकायै नमः ।
ओं विष्णुहृद्गायै नमः ।
ओं अग्निमुख्यै नमः ।
ओं शतमध्यायै नमः ।
ओं दशावरायै नमः । 90
ओं सहस्रदलपद्मस्थायै नमः ।
ओं हंसरूपायै नमः ।
ओं निरञ्जनायै नमः ।
ओं चराचरस्थायै नमः ।
ओं चतुरायै नमः ।
ओं सूर्यकोटिसमप्रभायै नमः ।
ओं पञ्चवर्णमुख्यै नमः ।
ओं धात्र्यै नमः ।
ओं चन्द्रकोटिशुचिस्मितायै नमः ।
ओं महामायायै नमः । 100
ओं विचित्राङ्ग्यै नमः ।
ओं मायाबीजनिवासिन्यै नमः ।
ओं सर्वयन्त्रात्मिकायै नमः ।
ओं सर्वतन्त्ररूपायै नमः ।
ओं जगद्धितायै नमः ।
ओं मर्यादापालिकायै नमः ।
ओं मान्यायै नमः ।
ओं महामन्त्रफलप्रदायै नमः । 108
Recite with devotion and pure heart
Regular practice brings spiritual benefits
More stotras of Gayatri:
श्री गायत्री भुजङ्ग स्तोत्रम्
श्री गायत्री पञ्जर स्तोत्रम्
श्री गायत्री सहस्रनाम स्तोत्रम्
श्री गायत्री हृदयम्
श्री गायत्री स्तवराजः
श्री गायत्री स्तोत्रम् - देवीभागवते
श्री गायत्री कवचम्
श्री गायत्री चालीसा