हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
कमला कवचम्
ईश्वर
उवाच
।
अथ
वक्ष्ये
महेशानि
कवचं
सर्वकामदम्
।
यस्य
विज्ञानमात्रेण
भवेत्साक्षात्सदाशिवः
॥
1
॥
नार्चनं
तस्य
देवेशि
मन्त्रमात्रं
जपेन्नरः
।
स
भवेत्पार्वतीपुत्रः
सर्वशास्त्रेषु
पारगः
।
विद्यार्थिना
सदा
सेव्या
विशेषे
विष्णुवल्लभा
॥
2
॥
अस्याश्चतुरक्षरिविष्णुवनितारूपायाः
कवचस्य
श्रीभगवान्
शिव
ऋषिरनुष्टुप्छन्दो,
वाग्भवी
देवता,
वाग्भवं
बीजं,
लज्जा
शक्तिः,
रमा
कीलकं,
कामबीजात्मकं
कवचं,
मम
सुपाण्डित्य
कवित्व
सर्वसिद्धिसमृद्धये
जपे
विनियोगः
॥
अथ
कवचम्
।
ऐङ्कारी
मस्तके
पातु
वाग्भवी
सर्वसिद्धिदा
।
ह्रीं
पातु
चक्षुषोर्मध्ये
चक्षुर्युग्मे
च
शाङ्करी
॥
1
॥
जिह्वायां
मुखवृत्ते
च
कर्णयोर्गण्डयोर्नसि
।
ओष्ठाधरे
दन्तपङ्क्तौ
तालुमूले
हनौ
पुनः
॥
2
॥
पातु
मां
विष्णुवनिता
लक्ष्मीः
श्रीवर्णरूपिणी
।
कर्णयुग्मे
भुजद्वन्द्वे
स्तनद्वन्द्वे
च
पार्वती
॥
3
॥
हृदये
मणिबन्धे
च
ग्रीवायां
पार्श्वयोः
पुनः
।
सर्वाङ्गे
पातु
कामेशी
महादेवी
समुन्नतिः
॥
4
॥
व्युष्टिः
पातु
महामाया
उत्कृष्टिः
सर्वदाऽवतु
।
सन्धिं
पातु
सदा
देवी
सर्वत्र
शम्भुवल्लभा
॥
5
॥
वाग्भवी
सर्वदा
पातु
पातु
मां
हरिगेहिनी
।
रमा
पातु
सदा
देवी
पातु
माया
स्वराट्
स्वयम्
॥
6
॥
सर्वाङ्गे
पातु
मां
लक्ष्मीर्विष्णुमाया
सुरेश्वरी
।
विजया
पातु
भवने
जया
पातु
सदा
मम
॥
7
॥
शिवदूती
सदा
पातु
सुन्दरी
पातु
सर्वदा
।
भैरवी
पातु
सर्वत्र
भैरुण्डा
सर्वदाऽवतु
॥
8
॥
त्वरिता
पातु
मां
नित्यमुग्रतारा
सदाऽवतु
।
पातु
मां
कालिका
नित्यं
कालरात्रिः
सदाऽवतु
॥
9
॥
नवदुर्गा
सदा
पातु
कामाख्या
सर्वदाऽवतु
।
योगिन्यः
सर्वदा
पान्तु
मुद्राः
पान्तु
सदा
मम
॥
10
॥
मातरः
पान्तु
देव्यश्च
चक्रस्था
योगिनीगणाः
।
सर्वत्र
सर्वकार्येषु
सर्वकर्मसु
सर्वदा
॥
11
॥
पातु
मां
देवदेवी
च
लक्ष्मीः
सर्वसमृद्धिदा
।
इति
ते
कथितं
दिव्यं
कवचं
सर्वसिद्धये
॥
12
॥
यत्र
तत्र
न
वक्तव्यं
यदीच्छेदात्मनो
हितम्
।
शठाय
भक्तिहीनाय
निन्दकाय
महेश्वरि
॥
13
॥
न्यूनाङ्गे
अतिरिक्ताङ्गे
दर्शयेन्न
कदाचन
।
न
स्तवं
दर्शयेद्दिव्यं
सन्दर्श्य
शिवहा
भवेत्
॥
14
॥
कुलीनाय
महोच्छ्राय
दुर्गाभक्तिपराय
च
।
वैष्णवाय
विशुद्धाय
दद्यात्कवचमुत्तमम्
॥
15
॥
निजशिष्याय
शान्ताय
धनिने
ज्ञानिने
तथा
।
दद्यात्कवचमित्युक्तं
सर्वतन्त्रसमन्वितम्
॥
16
॥
विलिख्य
कवचं
दिव्यं
स्वयम्भुकुसुमैः
शुभैः
।
स्वशुक्रैः
परशुक्रैश्च
नानागन्धसमन्वितैः
॥
17
॥
गोरोचनाकुङ्कुमेन
रक्तचन्दनकेन
वा
।
सुतिथौ
शुभयोगे
वा
श्रवणायां
रवेर्दिने
॥
18
॥
अश्विन्यां
कृत्तिकायां
वा
फल्गुन्यां
वा
मघासु
च
।
पूर्वभाद्रपदायोगे
स्वात्यां
मङ्गलवासरे
॥
19
॥
विलिखेत्
प्रपठेत्
स्तोत्रं
शुभयोगे
सुरालये
।
आयुष्मत्प्रीतियोगे
च
ब्रह्मयोगे
विशेषतः
॥
20
॥
इन्द्रयोगे
शुभयोगे
शुक्रयोगे
तथैव
च
।
कौलवे
बालवे
चैव
वणिजे
चैव
सत्तमः
॥
21
॥
शून्यागारे
श्मशाने
वा
विजने
च
विशेषतः
।
कुमारीं
पूजयित्वादौ
यजेद्देवीं
सनातनीम्
॥
22
॥
मत्स्यमांसैः
शाकसूपैः
पूजयेत्परदेवताम्
।
घृताद्यैः
सोपकरणैः
पूपसूपैर्विशेषतः
॥
23
॥
ब्राह्मणान्भोजायित्वादौ
प्रीणयेत्परमेश्वरीम्
।
बहुना
किमिहोक्तेन
कृते
त्वेवं
दिनत्रयम्
॥
24
॥
तदाधरेन्महारक्षां
शङ्करेणाभिभाषितम्
।
मारणद्वेषणादीनि
लभते
नात्र
संशयः
॥
25
॥
स
भवेत्पार्वतीपुत्रः
सर्वशास्त्रविशारदः
।
गुरुर्देवो
हरः
साक्षात्पत्नी
तस्य
हरप्रिया
॥
26
॥
अभेदेन
भजेद्यस्तु
तस्य
सिद्धिरदूरतः
।
सर्वदेवमयीं
देवीं
सर्वमन्त्रमयीं
तथा
॥
27
॥
सुभक्त्या
पूजयेद्यस्तु
स
भवेत्कमलाप्रियः
।
रक्तपुष्पैस्तथा
गन्धैर्वस्त्रालङ्करणैस्तथा
॥
28
॥
भक्त्या
यः
पूजयेद्देवीं
लभते
परमां
गतिम्
।
नारी
वा
पुरुषो
वापि
यः
पठेत्कवचं
शुभम्
।
मन्त्रसिद्धिः
कार्यसिद्धिर्लभते
नात्र
संशयः
॥
29
॥
पठति
य
इह
मर्त्यो
नित्यमार्द्रान्तरात्मा
जपफलमनुमेयं
लप्स्यते
यद्विधेयम्
।
स
भवति
पदमुच्चैः
सम्पदां
पादनम्रः
क्षितिपमुकुटलक्ष्मीर्लक्षणानां
चिराय
॥
30
॥
इति
श्री
विश्वसारतन्त्रोक्तं
चतुरक्षरी
विष्णुवनिता
कवचं
नाम
श्री
कमला
कवचम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits