हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
भुवनेश्वरी कवचम्
देव्युवाच
।
देवेश
भुवनेश्वर्या
या
या
विद्याः
प्रकाशिताः
।
श्रुताश्चाधिगताः
सर्वाः
श्रोतुमिच्छामि
साम्प्रतम्
॥
1
॥
त्रैलोक्यमङ्गलं
नाम
कवचं
यत्पुरोदितम्
।
कथयस्व
महादेव
मम
प्रीतिकरं
परम्
॥
2
॥
ईश्वर
उवाच
।
शृणु
पार्वति
वक्ष्यामि
सावधानावधारय
।
त्रैलोक्यमङ्गलं
नाम
कवचं
मन्त्रविग्रहम्
॥
3
॥
सिद्धविद्यामयं
देवि
सर्वैश्वर्यप्रदायकम्
।
पठनाद्धारणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत्
॥
4
॥
[
त्रैलोक्यमङ्गलस्यास्य
कवचस्य
ऋषिश्शिवः
।
छन्दो
विराट्
जगद्धात्री
देवता
भुवनेश्वरी
।
धर्मार्थकाममोक्षेषु
विनियोगः
प्रकीर्तितः
॥
]
ह्रीं
बीजं
मे
शिरः
पातु
भुवनेशी
ललाटकम्
।
ऐं
पातु
दक्षनेत्रं
मे
ह्रीं
पातु
वामलोचनम्
॥
1
॥
श्रीं
पातु
दक्षकर्णं
मे
त्रिवर्णाख्या
महेश्वरी
।
[त्रिवर्णात्मा]
वामकर्णं
सदा
पातु
ऐं
घ्राणं
पातु
मे
सदा
॥
2
॥
ह्रीं
पातु
वदनं
देवि
ऐं
पातु
रसनां
मम
।
वाक्पुटं
च
त्रिवर्णात्मा
कण्ठं
पातु
पराम्बिका
॥
3
॥
श्रीं
स्कन्धौ
पातु
नियतं
ह्रीं
भुजौ
पातु
सर्वदा
।
क्लीं
करौ
त्रिपुटा
पातु
त्रिपुरैश्वर्यदायिनी
॥
4
॥
[त्रिपुटेशानि]
ओं
पातु
हृदयं
ह्रीं
मे
मध्यदेशं
सदाऽवतु
।
क्रौं
पातु
नाभिदेशं
मे
त्र्यक्षरी
भुवनेश्वरी
॥
5
॥
सर्वबीजप्रदा
पृष्ठं
पातु
सर्ववशङ्करी
।
ह्रीं
पातु
गुह्यदेशं
मे
नमो
भगवती
कटिम्
॥
6
॥
माहेश्वरी
सदा
पातु
सक्थिनी
जानुयुग्मकम्
।
अन्नपूर्णा
सदा
पातु
स्वाहा
पातु
पदद्वयम्
॥
7
॥
सप्तदशाक्षरी
पायादन्नपूर्णात्मिका
परा
।
तारं
माया
रमाकामः
षोडशार्णा
ततः
परम्
॥
8
॥
शिरःस्था
सर्वदा
पातु
विंशत्यर्णात्मिका
परा
।
तारं
दुर्गेयुगं
रक्षेत्
स्वाहेति
च
दशाक्षरी
॥
9
॥
जयदुर्गा
घनश्यामा
पातु
मां
सर्वतो
मुदा
।
मायाबीजादिका
चैषा
दशार्णा
च
परा
तथा
॥
10
॥
उत्तप्तकाञ्चनाभासा
जयदुर्गाऽऽननेऽवतु
।
तारं
ह्रीं
दुं
च
दुर्गायै
नमोऽष्टार्णात्मिका
परा
॥
11
॥
शङ्खचक्रधनुर्बाणधरा
मां
दक्षिणेऽवतु
।
महिषामर्दिनी
स्वाहा
वसुवर्णात्मिका
परा
॥
12
॥
नैरृत्यां
सर्वदा
पातु
महिषासुरनाशिनी
।
माया
पद्मावती
स्वाहा
सप्तार्णा
परिकीर्तिता
॥
13
॥
पद्मावती
पद्मसंस्था
पश्चिमे
मां
सदाऽवतु
।
पाशाङ्कुशपुटे
माये
ह्रीं
परमेश्वरि
स्वाहा
॥
14
॥
त्रयोदशार्णा
ताराद्या
अश्वारुढाऽनलेऽवतु
।
सरस्वती
पञ्चशरे
नित्यक्लिन्ने
मदद्रवे
॥
15
॥
स्वाहारव्यक्षरी
विद्या
मामुत्तरे
सदाऽवतु
।
तारं
माया
तु
कवचं
खे
रक्षेत्सततं
वधूः
॥
16
॥
ह्रूं
क्षं
ह्रीं
फट्
महाविद्या
द्वादशार्णाखिलप्रदा
।
त्वरिताष्टाहिभिः
पायाच्छिवकोणे
सदा
च
माम्
॥
17
॥
ऐं
क्लीं
सौः
सततं
बाला
मूर्धदेशे
ततोऽवतु
।
बिन्द्वन्ता
भैरवी
बाला
भूमौ
च
मां
सदाऽवतु
॥
18
॥
इति
ते
कथितं
पुण्यं
त्रैलोक्यमङ्गलं
परम्
।
सारं
सारतरं
पुण्यं
महाविद्यौघविग्रहम्
॥
19
॥
अस्यापि
पठनात्सद्यः
कुबेरोऽपि
धनेश्वरः
।
इन्द्राद्याः
सकला
देवाः
पठनाद्धारणाद्यतः
॥
20
॥
सर्वसिद्धीश्वराः
सन्तः
सर्वैश्वर्यमवाप्नुयुः
।
पुष्पाञ्जल्यष्टकं
दत्वा
मूलेनैव
पठेत्सकृत्
॥
21
॥
संवत्सरकृतायास्तु
पूजायाः
फलमाप्नुयात्
।
प्रीतिमन्योऽन्यतः
कृत्वा
कमला
निश्चला
गृहे
॥
22
॥
वाणी
च
निवसेद्वक्त्रे
सत्यं
सत्यं
न
संशयः
।
यो
धारयति
पुण्यात्मा
त्रैलोक्यमङ्गलाभिधम्
॥
23
॥
कवचं
परमं
पुण्यं
सोऽपि
पुण्यवतां
वरः
।
सर्वैश्वर्ययुतो
भूत्वा
त्रैलोक्यविजयी
भवेत्
॥
24
॥
पुरुषो
दक्षिणे
बाहौ
नारी
वामभुजे
तथा
।
बहुपुत्रवती
भूत्वा
वन्ध्यापि
लभते
सुतम्
॥
25
॥
ब्रह्मास्त्रादीनि
शस्त्राणि
नैव
कृन्तन्ति
तं
जनम्
।
एतत्कवचमज्ञात्वा
यो
जपेद्भुवनेश्वरीम्
।
दारिद्र्यं
परमं
प्राप्य
सोऽचिरान्मृत्युमाप्नुयात्
॥
26
॥
इति
श्री
रुद्रयामले
तन्त्रे
देवीश्वर
संवादे
त्रैलोक्यमङ्गलं
नाम
भुवनेश्वरीकवचं
समाप्तम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits