हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
शिव पञ्चामृत स्नानाभिषेकम्
(वा॒म॒देवा॒य
न॑मः
–
स्नानं)
इत्यादि
निर्माल्यं-विँसृज्येत्यन्त-म्प्रतिवार-ङ्कुर्यात्
॥ ॥
पञ्चामृतस्नानम्
॥
अथ
(पञ्चामृत
स्नानं)
पञ्चामृतदेवताभ्यो
नमः
।
ध्यानावाहनादि
षोडशोपचारपूजास्समर्पयामि
।
भवानीशङ्करमुद्दिश्य
भवानीशङ्कर
प्रीत्यर्थ-म्पञ्चामृतस्नान-ङ्करिष्यामः
।
क्षीरं
आप्या॑यस्व॒
समे॑तु
ते
वि॒श्वत॑स्सोम॒
वृष्णि॑यम्
।
भवा॒
वाज॑स्य
सङ्ग॒थे
॥
श्री
भवानीशङ्करास्वामिने
नमः,
क्षीरेण
स्नपयामि
।
आपो॒
हिष्ठा
म॑यो॒भुव॒स्ता
न॑
ऊ॒र्जे
द॑धातन
।
म॒हेरणा॑य॒
चक्ष॑से
।
यो
वः॑
शि॒वत॑मो
रस॒स्तस्य॑
भाजयते॒
ह
नः॑
।
उ॒श॒तीरि॑व
मा॒त॑रः
।
तस्मा॒
अर॑ङ्गमामवो॒
यस्य॒
क्षया॑य॒
जिन्व॑थ
।
आपो॑
ज॒नय॑था
च
नः
।
श्री
भवानीशङ्करास्वामिने
नमः
।
क्षीरस्नानानन्तरं
शुद्धोदक
स्नानं
समर्पयामि
।
दधि
द॒धि॒क्राव्ण्णो॑
अकारिष-ञ्जि॒ष्णोरश्व॑स्य
वा॒जिनः॑
।
सु॒रभि
नो॒
मुखा॑
कर॒त्प्रण॒
आयूग्ं॑षि
तारिषत्
॥
श्री
भवानीशङ्करास्वामिने
नमः
।
दध्ना
स्नपयामि
।
आपो॒
हिष्ठा
म॑यो॒भुव॒स्ता
न॑
ऊ॒र्जे
द॑धातन
।
म॒हेरणा॑य॒
चक्ष॑से
।
यो
वः॑
शि॒वत॑मो
रस॒स्तस्य॑
भाजयते॒
ह
नः॑
।
उ॒श॒तीरि॑व
मा॒त॑रः
।
तस्मा॒
अर॑ङ्गमामवो॒
यस्य॒
क्षया॑य॒
जिन्व॑थ
।
आपो॑
ज॒नय॑था
च
नः
।
श्री
भवानीशङ्करास्वामिने
नमः
।
दधिस्नानानन्तरं
शुद्धोदक
स्नानं
समर्पयामि
।
आज्यं
शु॒क्रम॑सि॒
ज्योति॑रसि॒
तेजो॑सि
दे॒वोव॑स्सवि॒तोत्पु॑ना॒-
त्वच्छि॑द्रेण
प॒वित्रे॑ण॒
वसो॒स्सूर्य॑स्य
र॒श्मिभिः॑
।
श्री
भवानीशङ्करास्वामिने
नमः
।
आज्येन
स्नपयामि
।
आपो॒
हिष्ठा
म॑यो॒भुव॒स्ता
न॑
ऊ॒र्जे
द॑धातन
।
म॒हेरणा॑य॒
चक्ष॑से
।
यो
वः॑
शि॒वत॑मो
रस॒स्तस्य॑
भाजयते॒
ह
नः॑
।
उ॒श॒तीरि॑व
मा॒त॑रः
।
तस्मा॒
अर॑ङ्गमामवो॒
यस्य॒
क्षया॑य॒
जिन्व॑थ
।
आपो॑
ज॒नय॑था
च
नः
।
श्री
भवानीशङ्करास्वामिने
नमः
।
आज्य
स्नानानन्तरं
शुद्धोदक
स्नानं
समर्पयामि
।
मधु
मधु॒वाता॑
ऋताय॒ते
मधु॑क्षरन्ति॒
सिन्ध॑वः
।
माध्वी᳚र्न-स्स॒न्त्वोष॑धीः
।
मधु॒
नक्त॑मु॒तोष॑सि॒
मधु॑म॒त्पार्थि॑व॒ग्ं॒
रजः॑
।
मधु॒द्यौर॑स्तु
नः
पि॒ता
।
मधु॑मान्नो॒
वन॒स्पति॒र्मधु॑माग्ं
अस्तु॒
सूर्यः॑
।
माध्वी॒र्गावो॑
भवन्तु
नः
।
श्री
भवानीशङ्करास्वामिने
नमः
।
मधुना
स्नपयामि
।
आपो॒
हिष्ठा
म॑यो॒भुव॒स्ता
न॑
ऊ॒र्जे
द॑धातन
।
म॒हेरणा॑य॒
चक्ष॑से
।
यो
वः॑
शि॒वत॑मो
रस॒स्तस्य॑
भाजयते॒
ह
नः॑
।
उ॒श॒तीरि॑व
मा॒त॑रः
।
तस्मा॒
अर॑ङ्गमामवो॒
यस्य॒
क्षया॑य॒
जिन्व॑थ
।
आपो॑
ज॒नय॑था
च
नः
।
श्री
भवानीशङ्करास्वामिने
नमः
।
मधुस्नानानन्तरं
शुद्धोदक
स्नानं
समर्पयामि
।
शर्कर
स्वा॒दुः
प॑वस्व
दि॒व्याय॒
जन्म॑ने
।
स्वा॒दुरिन्द्रा॑य
सु॒हवी॑तु॒
नाम्ने᳚
।
स्वा॒दुर्मि॒त्राय॒
वरु॑णाय
वा॒यवे॒
।
बृह॒स्पत॑ये॒
मधु॑मा॒ग्ं
अदा᳚भ्यः
।
श्री
भवानीशङ्करास्वामिने
नमः
।
शर्करया
स्नपयामि
।
आपो॒
हिष्ठा
म॑यो॒भुव॒स्ता
न॑
ऊ॒र्जे
द॑धातन
।
म॒हेरणा॑य॒
चक्ष॑से
।
यो
वः॑
शि॒वत॑मो
रस॒स्तस्य॑
भाजयते॒
ह
नः॑
।
उ॒श॒तीरि॑व
मा॒त॑रः
।
तस्मा॒
अर॑ङ्गमामवो॒
यस्य॒
क्षया॑य॒
जिन्व॑थ
।
आपो॑
ज॒नय॑था
च
नः
।
श्री
भवानीशङ्करास्वामिने
नमः
।
शर्कर
स्नानानन्तरं
शुद्धोदक
स्नानं
समर्पयामि
।
श्री
भवानीशङ्करास्वामिने
नमः
।
पञ्चामृत
स्नानं
समर्पयामि
।
शङ्खोदकं
आपो॒
हिष्ठा
म॑यो॒भुव॒स्ता
न॑
ऊ॒र्जे
द॑धातन
।
म॒हेरणा॑य॒
चक्ष॑से
।
यो
वः॑
शि॒वत॑मो
रस॒स्तस्य॑
भाजयते॒
ह
नः॑
।
उ॒श॒तीरि॑व
मा॒त॑रः
।
तस्मा॒
अर॑ङ्गमामवो॒
यस्य॒
क्षया॑य॒
जिन्व॑थ
।
आपो॑
ज॒नय॑था
च
नः
।
श्री
भवानीशङ्करास्वामिने
नमः
।
शङ्खोदकेन
स्नपयामि
॥
फलोदकं
याः
फ॒लिनी॒र्या
अ॑फ॒ला
अ॑पु॒ष्पायाश्च॑
पु॒ष्पिणीः᳚
।
बृह॒स्पति॑
प्रसूता॒स्तानो॑
मुञ्च॒न्त्वग्ं
ह॑सः
॥
श्री
भवानीशङ्करास्वामिने
नमः
।
फलोदकेन
स्नपयामि
।
गन्धोदकं
ग॒न्ध॒द्वा॒रा-न्दु॑राध॒र्षा॒-न्नि॒त्यपु॑ष्टा-ङ्करी॒षिणी᳚म्
।
ई॒श्वरी॑ग्ं
सर्व॑भूता॒ना॒-न्तामि॒होप॑ह्वये॒
श्रियम्
॥
श्री
भवानीशङ्करास्वामिने
नमः
।
गन्धोदकेन
स्नपयामि
।
पुष्पोदकं
यो॑-ऽपा-म्पुष्पं॒-वेँद॑
।
पुष्प॑वा-न्प्र॒जावा॑-न्पशु॒मा-न्भ॑वति
।
च॒न्द्रमा॒
वा
अ॒पा-म्पुष्प॑म्
।
पुष्प॑वा-न्प्र॒जावा॑-न्पशु॒मा-न्भ॑वति
।
श्री
भवानीशङ्करास्वामिने
नमः
।
पुष्पोदकेन
स्नपयामि
।
अक्षतोदकं
आय॑ने
ते
प॒राय॑णे॒
दूर्वा॑
रोहन्तु
पु॒ष्पिणीः॑
।
ह्र॒दाश्च॑
पु॒ण्डरी॑काणि
समु॒द्रस्य॑
गृ॒हा
इ॒मे
।
श्री
भवानीशङ्करास्वामिने
नमः
।
अक्षतोदकेन
स्नपयामि
।
सुवर्णोदकं
तथ्सु॒वर्ण॒ग्ं॒
हिर॑ण्यमभवत्
।
तथ्सु॒वर्ण॑स्य॒
हिर॑ण्यस्य॒जन्म॑
।
य
ए॒वग्ं
सु॒वर्ण॑स्य॒
हिर॑ण्यस्य॒
जन्म॒वे॑द
।
सु॒वर्ण॑
आ॒त्मना॑
भवति
।
श्री
भवानीशङ्करास्वामिने
नमः
।
सुवर्णोदकेन
स्नपयामि
।
रुद्राक्षोदकं
त्र्य॑म्बकं-यँजामहे
सुग॒न्धि-म्पु॑ष्टि॒
वर्ध॑नम्
।
उ॒र्वा॒रु॒कमि॑व॒
बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒
मा-ऽमृता᳚त्
॥
श्री
भवानीशङ्करास्वामिने
नमः
।
रुद्राक्षोदकेन
स्नपयामि
।
भस्मोदकं
मा
नो॑
म॒हान्त॑मु॒त
मा
नो॑
अर्भ॒कं
मा
न॒
उक्ष॑न्तमु॒त
मा
न॑
उक्षि॒तम्
।
मा
नो॑-ऽवधीः
पि॒तर॒-म्मोत
मा॒तरं॑
प्रि॒या
मा
न॑स्त॒नुवो॑
रुद्र
रीरिषः
।
श्री
भवानीशङ्करास्वामिने
नमः
।
भस्मोदकेन
स्नपयामि
।
बिल्वोदकं
मा
न॑स्तो॒के
तन॑ये॒
मा
न॒
आयु॑षि॒
मा
नो॒
गोषु॒
मा
नो॒
अश्वे॑षु
रीरिषः
।
वी॒रान्मा
नो॑
रुद्र
भामि॒तो-ऽव॑धीर्ह॒विष्म॑न्तो॒
नम॑सा
विधेम
ते
।
श्री
भवानीशङ्करास्वामिने
नमः
।
बिल्वोदकेन
स्नपयामि
।
दूर्वोदकं
काण्डा॑त्काण्डात्प्र॒रोह॑न्ति
परु॑षः
परुषः॒
परि॑
।
ए॒वानो॑
दूर्वे॒
प्रत॑नु
स॒हस्रे॑ण
श॒तेन॑
च
॥
श्री
भवानीशङ्करास्वामिने
नमः
।
दूर्वोदकेन
स्नपयामि
।
अथ
मलापकर्षण
स्नानम्
।
हिर॑ण्यवर्णा॒श्शुच॑यः
पाव॒का
यासु॑
जा॒तः
क॒श्यपो॒
यास्विन्द्रः॑
।
अ॒ग्निं-याँ
गर्भ॑-न्दधि॒रे
विरू॑पा॒स्ता
न॒
आप॒श्शग्ग्
स्यो॒ना
भ॑वन्तु
॥
यासा॒ग्ं॒
राजा॒
वरु॑णो॒
याति॒
मध्ये॑
सत्यानृ॒ते
अ॑व॒पश्य॒ञ्जना॑नाम्
।
म॒धु॒श्चुत॒श्शुच॑यो॒
याः
पा॑व॒कास्ता
न॒
आप॒श्शग्ग्
स्यो॒ना
भ॑वन्तु
॥
यासा॑-न्दे॒वा
दि॒वि
कृ॒ण्वन्ति॑
भ॒क्षं
या
अ॒न्तरि॑क्षे
बहु॒धा
भव॑न्ति
।
याः
पृ॑थि॒वी-म्पय॑सो॒न्दन्ति॑
शु॒क्रास्ता
न॒
आप॒श्शग्ग्
स्यो॒ना
भ॑वन्तु
॥
शि॒वेन॑
मा॒
चक्षु॑षा
पश्यतापश्शि॒वया॑
त॒नुवोप॑
स्पृशत॒
त्वच॑-म्मे
।
सर्वाग्ं॑
अ॒ग्नीग्ं
र॑फ्सु॒षदो॑
हुवे
वो॒
मयि॒
वर्चो॒
बल॒मोजो॒
निध॑त्त
॥
(अ.वे.,
काण्ड-3,
सूक्तं-13)
यद॒द-स्स॑म्प्रय॒तीरहा॒वन॑दता
ह॒ते
।
तस्मा॒दा
न॒द्यो॑
नाम॑
स्थ॒
ता
वो॒
नामा॑नि
सिन्धवः
॥
1
यत्प्रेषि॑ता॒
वरु॑णे॒नताश्शीभ॑ग्ं
स॒मव॑ल्गत
।
तदा॑प्नो॒दिन्द्रो॑
वो
य॒तीस्तस्मा॒दापो॒
अनु॑स्थन
॥
2
आ॒प॒का॒मग्ग्ं
स्यन्द॑माना॒
अवी॑वरत
वो॒
हि
क॑म्
।
इन्द्रो॑
व॒श्शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्णाम॑
वो
हि॒तम्
॥
3
एको॑
वो
दे॒वो
अप्य॑तिष्ठ॒थ्स्यन्द॑माना
यथाव॒शम्
।
उदा॑निषुर्म॒हीरिति॒
तस्मा॑दुद॒कमु॑च्यते
॥
4
आपो॑
भ॒द्रा
घृ॒तमिदाप॑
आनुर॒ग्नीषोमौ॑
बिभ्र॒त्याप॒
इत्ताः
।
ती॒व्रो
रसो॑
मधु॒पृचां॑
अ॒र॒ङ्ग॒म
आ
मा॑
प्रा॒णेन॑
स॒ह
वर्च॑सागन्न्
॥
5
आदित्प॑श्याम्यु॒त
वा॑
शृणो॒म्या
मा॒
घोषो॑
गच्छति॒
वाङ्म॑
आसाम्
।
मन्ये॑
भेजा॒नो
अ॒मृत॑स्य॒
तर्हि॒
हिर॑ण्यवर्णा॒
अतृ॑पं-यँ॒दा
वः॑
॥
6
आपो॒
हिष्ठा
म॑यो॒भुव॒स्ता
न॑
ऊ॒र्जे
द॑धातन
।
म॒हेरणा॑य॒
चक्ष॑से
।
यो
वः॑
शि॒वत॑मो
रस॒स्तस्य॑
भाजयते॒
ह
नः॑
।
उ॒श॒तीरि॑व
मा॒त॑रः
।
तस्मा॒
अर॑ङ्गमामवो॒
यस्य॒
क्षया॑य॒
जिन्व॑थ
।
आपो॑
ज॒नय॑था
च
नः
।
श्री
भवानीशङ्करास्वामिने
नमः
।
शुद्धोदकेन
स्नपयामि
।
[
दि॒विश्र॑यस्वा॒न्तरि॑क्षेयतस्व
पृथि॒व्यासम्भ॑व
ब्रह्मवर्च॒सम॑सि
ब्रह्मवर्च॒साय॑त्वा
।
अ॒पा-ङ्ग्रहा॑न्गृह्णात्ये॒तद्वाप
रा॑ज॒सूयं॒-यँदे॒तेग्रहा॑स्स॒वो॑-ऽग्निर्व॑रुणस॒वो
रा॑ज॒सूय॑मग्निस॒वश्चित्य॒स्ताभ्या॑मे॒व
सू॑य॒ते-ऽथो॑
उ॒भावे॒वलो॒काव॒भिज॑यति॒
यश्च॑
राज॒सूये॑नेजा॒नस्य॒
यश्चा॑ग्नि॒चित॒
आपो॑
भव॒न्त्यापो॒
वा
अ॒ग्नेर्भ्रातृ॑व्या॒
यद॒पो॑-ऽग्नेर॒धस्ता॑दुप॒दधा॑ति॒
भ्रातृ॑व्याभिभूत्यै॒
भव॑त्या॒त्मना॒परा॑-ऽस्य॒भ्रातृ॑व्यो
भवत्य॒मृतं॒-वाँ
आप॒स्तस्मा॑द॒द्भिरव॑तान्तम॒भिषि॑ञ्चन्ति॒
नार्ति॒मार्छ॑ति॒सर्व॒मायु॑रेति
॥
]
पव॑मान॒स्सुव॒र्जनः॑
।
प॒वित्रे॑ण॒
विच॑र्षणिः
।
यः
पोता॒
स
पु॑नातु
मा
।
पु॒नन्तु॑
मा
देवज॒नाः
।
पु॒नन्तु॒
मन॑वो
धि॒या
।
पु॒नन्तु॒
विश्व॑
आ॒यवः॑
।
जात॑वेदः
प॒वित्र॑वत्
।
प॒वित्रे॑ण
पुनाहि
मा
।
शु॒क्रेण॑
देव॒दीद्य॑त्
।
अग्ने॒
क्रत्वा॒
क्रतू॒ग्ं॒
रनु॑
।
यत्ते॑
प॒वित्र॑म॒र्चिषि॑
।
अग्ने॒
वित॑तमन्त॒रा
।
ब्रह्म॒
तेन॑
पुनीमहे
।
उ॒भाभ्या᳚-न्देवसवितः
।
प॒वित्रे॑ण
स॒वेन॑
च
।
इ॒द-म्ब्रह्म॑
पुनीमहे
।
वै॒श्व॒दे॒वी
पु॑न॒ती
दे॒व्यागा᳚त्
।
यस्यै॑
ब॒ह्वीस्त॒नुवो॑
वी॒तपृ॑ष्ठाः
।
तया॒
मद॑न्त-स्सध॒माद्ये॑षु
।
व॒यग्ग्
स्या॑म॒
पत॑यो
रयी॒णाम्
।
वै॒श्वा॒न॒रो
र॒श्मिभि॑र्मा
पुनातु
।
वातः॑
प्रा॒णेने॑षि॒रो
म॑यो॒
भूः
।
द्यावा॑पृथि॒वी
पय॑सा॒
पयो॑भिः
।
ऋ॒ताव॑री
य॒ज्ञिये॑
मा
पुनीताम्
॥
बृ॒हद्भि॑स्सवित॒स्तृभिः॑
।
वर्षि॑ष्ठैर्देव॒मन्म॑भिः
।
अग्ने॒
दक्षैः᳚
पुनाहि
मा
।
येन॑
दे॒वा
अपु॑नत
।
येनापो॑
दि॒व्यङ्कशः॑
।
तेन॑
दि॒व्येन॒
ब्रह्म॑णा
।
इ॒द-म्ब्रह्म॑
पुनीमहे
।
यः
पा॑वमा॒नीर॒द्ध्येति॑
।
ऋषि॑भि॒स्सम्भृ॑त॒ग्ं॒
रसम्॑
।
सर्व॒ग्ं॒
स
पू॒तम॑श्नाति
।
स्व॒दि॒त-म्मा॑त॒रिश्व॑ना
।
पा॒व॒मा॒नीर्यो
अ॒ध्येति॑
।
ऋषि॑भि॒स्सम्भृ॑त॒ग्ं॒
रसम्᳚
।
तस्मै॒
सर॑स्वती
दुहे
।
क्षी॒रग्ं
स॒र्पिर्मधू॑द॒कम्
॥
पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः
।
सु॒दुघा॒हि
पय॑स्वतीः
।
ऋषि॑भि॒स्सम्भृ॑तो॒
रसः॑
।
ब्रा॒ह्म॒णेष्व॒मृतग्ं॑
हि॒तम्
।
पा॒व॒मा॒नीर्दि॑शन्तु
नः
।
इ॒मं-लोँ॒कमथो॑
अ॒मुम्
।
कामा॒न्थ्सम॑र्धयन्तु
नः
।
दे॒वीर्दे॒वैस्स॒माभृ॑ताः
।
पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः
।
सु॒दुघा॒हि
घृ॑त॒श्चुतः॑
।
ऋषि॑भि॒स्सम्भृ॑तो॒
रसः॑
।
ब्रा॒ह्म॒णेष्व॒मृतग्ं॑
हि॒तम्
।
येन॑
दे॒वाः
प॒वित्रे॑ण
।
आ॒त्मान॑-म्पु॒नते॒
सदा᳚
।
तेन॑
स॒हस्र॑धारेण
।
पा॒व॒मा॒न्यः
पु॑नन्तु
मा
।
प्रा॒जा॒प॒त्य-म्प॒वित्रम्᳚
।
श॒तोद्या॑मग्ं
हिर॒ण्मयम्᳚
।
तेन॑
ब्रह्म॒
विदो॑
व॒यम्
।
पू॒त-म्ब्रह्म॑
पुनीमहे
।
इन्द्र॑स्सुनी॒ती
स॒हमा॑
पुनातु
।
सोम॑स्स्व॒स्त्या
वरु॑णस्स॒मीच्या᳚
।
य॒मो
राजा᳚
प्रमृ॒णाभिः॑
पुनातु
मा
।
जा॒तवे॑दा
मो॒र्जय॑न्त्या
पुनातु
।
आपो॒
वा
इ॒दग्ं
सर्वं॒-विँश्वा॑
भू॒तान्यापः॑
प्रा॒णा
वा
आपः॑
प॒शव॒
आपो-ऽन्न॒मापो-ऽमृ॑त॒मापः॑
स॒म्राडापो॑
वि॒राडापः॑
स्व॒राडाप॒श्छन्दा॒ग्ं॒स्यापो॒
ज्योती॒ग्ं॒ष्यापो॒
यजू॒ग्ं॒ष्याप॑स्स॒त्यमाप॒स्सर्वा॑
दे॒वता॒
आपो॒
भूर्भुव॒स्सुव॒राप॒
ओम्
॥
अ॒पः
प्रण॑यति
।
श्र॒द्धावा
आपः॑
।
श्र॒द्धामे॒वारभ्य॑
प्र॒णीय॒
प्रच॑रति
।
अ॒पः
प्रण॑यति
।
य॒ज्ञो
वाअ
आपः॑
।
य॒ज्ञमे॒वारभ्य॑
प्र॒णीय॒
प्रच॑रति
अ॒पः
प्रण॑यति
।
व॒ज्रो
वा
आपः॑
।
वज्र॑मे॒व
भ्रातृ॑व्येभ्यः
प्रहृत्य॑
प्र॒णीय॒
प्रच॑रति
।
अ॒पः
प्रण॑यति
।
आपो॒
वै
र॑क्षो॒घ्नीः
।
रक्ष॑सा॒मप॑हत्यै
।
अ॒पः
प्रण॑यति
।
आपो॒
वै
दे॒वाना॑-म्प्रि॒यन्धाम॑
।
दे॒वाना॑मे॒व
प्रि॒यन्धाम॑
प्र॒णीय॒
प्रच॑रति
।
अ॒पः
प्रण॑यति
।
आपो॒
वै
सर्वा॑
दे॒वताः॑
।
दे॒वता॑
ए॒वारभ्य॑
प्र॒णीय॒
प्रच॑रति
।
(आपो॒वैशा॒न्ताः
।
शा॒न्ताभि॑रे॒वास्य॑
शुचग्ं॑शमयति
॥
)
श्री
भवानीशङ्करास्वामिने
नमः
।
मलापकर्षणस्नानं
समर्पयामि
।