Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

पूर्वाङ्गम्

श्री गणेशाय नमः ।
श्री गुरुभ्यो नमः ।
हरिः ओम् ।
शुचिः –
(उद्धरिणी से पंचपात्र का जल लें)
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । (अँगूठे से उद्धरिणी का जल सिर पर छिड़कें)
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ (अँगूठे से उद्धरिणी का जल सिर पर छिड़कें)
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्षाय नमः ॥ (अँगूठे से उद्धरिणी का जल सिर पर छिड़कें)
प्रार्थना –
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
अगजानन पद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥
यः शिवो नाम रूपाभ्यां या देवी सर्वमङ्गला ।
तयोः संस्मरणान्नित्यं सर्वदा जय मङ्गलम् ॥
तदेव लग्नं सुदिनं तदेव
ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव
लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
एषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥
सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते ॥
श्रीलक्ष्मीनारायणाभ्यां नमः ।
उमामहेश्वराभ्यां नमः ।
वाणीहिरण्यगर्भाभ्यां नमः ।
शचीपुरन्दराभ्यां नमः ।
अरुन्धतीवसिष्ठाभ्यां नमः ।
श्रीसीतारामाभ्यां नमः ।
मातापितृभ्यो नमः ।
सर्वेभ्यो महाजनेभ्यो नमः ।
ओं केशवाय स्वाहा ।
ओं नारायणाय स्वाहा ।
ओं माधवाय स्वाहा ।
ओं गोविन्दाय नमः ।
ओं विष्णवे नमः ।
ओं मधुसूदनाय नमः ।
ओं त्रिविक्रमाय नमः ।
ओं वामनाय नमः ।
ओं श्रीधराय नमः ।
ओं हृषीकेशाय नमः ।
ओं पद्मनाभाय नमः ।
ओं दामोदराय नमः ।
ओं सङ्कर्षणाय नमः ।
ओं वासुदेवाय नमः ।
ओं प्रद्युम्नाय नमः ।
ओं अनिरुद्धाय नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं अधोक्षजाय नमः ।
ओं नारसिंहाय नमः ।
ओं अच्युताय नमः ।
ओं जनार्दनाय नमः ।
ओं उपेन्द्राय नमः ।
ओं हरये नमः ।
ओं श्रीकृष्णाय नमः ।
दीपाराधनम् –
दीपस्त्वं ब्रह्मरूपोऽसि ज्योतिषां प्रभुरव्ययः ।
सौभाग्यं देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ॥
शुभं करोति कल्याणमारोग्यं धनसंपदा ।
शत्रुबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तुते ॥
(दीपोंको तीन हल्दी-कुमकुम के टीके लगाकर, ऊपर के श्लोक को पढ़ते हुए अगरबत्ती से दीप जलाएं, थोड़े फूल-अक्षत दीप के पास डालकर नमस्कार करें)
भूतोच्चाटनम् –
उत्तिष्ठन्तु भूतपिशाचाः य एते भूमि भारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवाऽज्ञया ॥
(दाहिने हाथ में अक्षत लेकर ऊपर के श्लोक को पढ़ते हुए सूंघकर अपने बाएं से पीछे की ओर फेंक दें)
प्राणायामम् –
ओं भूः ओं भुव॑: ओग्ं सुव॑: ओं मह॑: ओं जन॑: ओं तप॑: ओग्‍ं सत्यम् ।
ओं तत्स॑वितु॒र्वरे᳚ण्यं॒ भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ।
ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥
(तीन बार प्राणायाम करें)
सङ्कल्पम् –
(फूल-अक्षत और एक बूँद पानी दाहिने हाथ में लेकर नीचे का संकल्प पढ़ें)
मम उपात्त समस्त दुरितक्षय द्वारा श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वर प्रीत्यर्थं शुभाभ्यां शुभे शोभने मुहूर्ते श्रीमहाविष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीयपरार्थे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमपादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिण दिग्भागे श्रीशैलस्य ___ प्रदेशे ___, ___ नद्योः मध्यप्रदेशे लक्ष्मीनिवासगृहे समस्त देवता ब्राह्मण आचार्य हरि हर गुरु चरण सन्निधौ अस्मिन् वर्तमने व्यावहरिक चान्द्रमानेन श्री ____ (*1) नाम संवत्सरे ___ अयने (*2) ___ ऋतौ (*3) ___ मासे(*4) ___ पक्षे (*5) ___ तिथौ (*6) ___ वासरे (*7) ___ नक्षत्रे (*8) ___ योगे (*9) ___ करण (*10)
एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीमान् ___ गोत्रोद्भवस्य ___ नामधेयस्य (मम धर्मपत्नी श्रीमतः ___ गोत्रस्य ___ नामधेयः समेतस्य) मम/अस्माकं सहकुटुम्बस्य क्षेम स्थैर्य धैर्य वीर्य विजय अभय आयुः आरोग्य ऐश्वर अभिवृद्ध्यर्थं धर्म अर्थ काम मोक्ष चतुर्विध पुरुषार्थ फल सिद्ध्यर्थं धन कनक वस्तु वाहन समृद्ध्यर्थं सर्वाभीष्ट सिद्ध्यर्थं श्री _____ उद्दिश्य श्री _____ प्रीत्यर्थं सम्भवद्भिः द्रव्यैः सम्भवद्भिः उपचारैश्च सम्भवता नियमेन सम्भविता प्रकारेण यावच्छक्ति ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥
(निर्विघ्न पूजा परिसमाप्त्यर्थं आदौ श्रीमहागणपति पूजां करिष्ये)
(यह पढ़कर फूल-अक्षत थाली में डाल दें और हाथ साफ कर लें)
तदङ्ग कलशाराधनं करिष्ये ॥
(हमने जिस पंचपात्र के जल से आचमन किया है, उस जल का प्रयोग देवता की पूजा में नहीं करना चाहिए। पूजा के लिए अलग से एक पंचपात्र या लोटा लेकर उसमें शुद्ध जल भरें और उस लोटे का कलशाराधन करके केवल उसी जल का प्रयोग देवता की पूजा में करना चाहिए)
(दाहिने हाथ से कलश को ढककर रखें, और नीचे के मंत्र बोलें)
कलशाराधनम् –
कलशे गन्ध पुष्पाक्षतैरभ्यर्च्य । (देवता के पंचपात्र पर चंदन-कुमकुम का टीका लगाएं, कलश में फूल-अक्षत डालें)
कलशे उदकं पूरयित्वा । (देवता के पंचपात्र में जल भरें)
कलशस्योपरि हस्तं निधाय । (दाहिने हाथ से पंचपात्र को ढककर रखें, और नीचे का श्लोक बोलें)
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृता ॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ॥
अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः ।
गङ्गे च यमुने चैव गोदावरी सरस्वती ।
नर्मदे सिन्धु कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥
कावेरी तुङ्गभद्रा च कृष्णवेणी च गौतमी ।
भागीरथीति विख्याताः पञ्चगङ्गाः प्रकीर्तिताः ॥
आयान्तु श्री ____ पूजार्थं मम दुरितक्षयकारकाः ।
ओं ओं ओं कलशोदकेन पूजा द्रव्याणि सम्प्रोक्ष्य । (देवता के पंचपात्र का जल पूजा सामग्री पर छिड़कें)
देवं सम्प्रोक्ष्य, (देवता पर छिड़कें)
आत्मानं च सम्प्रोक्ष्य (अपने ऊपर छिड़कें) ॥
शङ्खपूजा –
(यदि आपके पूजा स्थल में शंख है तो शंख पूजा करें अन्यथा घंटा पूजा करें)
कलशोदकेन शङ्खं पूरयित्वा ॥ (देवता के पंचपात्र का जल शंख में भरें)
शङ्खे गन्धकुङ्कुमपुष्पतुलसीपत्रैरलङ्कृत्य ॥ (शंख पर चंदन-कुमकुम का टीका लगाकर फूल, तुलसी पत्र से सजाएं)
शङ्खं चन्द्रार्क दैवतं मध्ये वरुण देवताम् ।
पृष्ठे प्रजापतिं विन्द्यादग्रे गङ्गा सरस्वतीम् ॥
त्रैलोक्येयानि तीर्थानि वासुदेवस्यदद्रया ।
शङ्खे तिष्ठन्तु विप्रेन्द्रा तस्मात् शङ्खं प्रपूजयेत् ॥
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
पूजितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते ॥
गर्भादेवारिनारीणां विशीर्यन्ते सहस्रधा ।
नवनादेनपाताले पाञ्चजन्य नमोऽस्तु ते ॥
ओं शङ्खाय नमः ।
ओं धवलाय नमः ।
ओं पाञ्चजन्याय नमः ।
ओं शङ्खदेवताभ्यो नमः ।
सकलपूजार्थे अक्षतान् समर्पयामि ॥
(थोड़े फूल-अक्षत शंख के पास डालकर नमस्कार करें)
घण्टपूजा –
ओं जयध्वनि मन्त्रमातः स्वाहा ।
घण्टदेवताभ्यो नमः ।
सकलोपचार पूजार्थे अक्षतान् समर्पयामि ।
(थोड़े फूल-अक्षत घंटे के पास डालकर नमस्कार करें)
घण्टानादम् –
आगमार्थं तु देवानां गमनार्थं तु राक्षसाम् ।
घण्टारवं करोम्यादौ देवताह्वान लाञ्छनम् ॥
इति घण्टानादं कृत्वा ॥
(ऊपर के श्लोक को पढ़कर घंटी बजाएं)

Recite with devotion and pure heart

Regular practice brings spiritual benefits