हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
शांति पंचकम्
ओं
शं
नो॑
मि॒त्रश्शं-वँरु॑णः
।
शं
नो॑
भवत्वर्य॒मा
।
शं
न॒
इंद्रो॒
बृह॒स्पतिः॑
।
शं
नो॒
विष्णु॑रुरुक्र॒मः
।
नमो॒
ब्रह्म॑णे
।
नम॑स्ते
वायो
।
त्वमे॒व
प्र॒त्यक्षं॒
ब्रह्मा॑सि
।
त्वमे॒व
प्र॒त्यक्षं॒
ब्रह्म॑
वदिष्यामि
।
ऋ॒तं-वँ॑दिष्यामि
।
स॒त्यं-वँ॑दिष्यामि
।
तन्माम॑वतु
।
तद्व॒क्तार॑मवतु
।
अव॑तु॒
माम्
।
अव॑तु
व॒क्तारम्᳚
।
ओं
शांतिः॒
शांतिः॒
शांतिः॑
॥
1
॥
शं
नो॑
मि॒त्रश्शं-वँरु॑णः
।
शं
नो॑
भवत्वर्य॒मा
।
शं
न॒
इंद्रो॒
बृह॒स्पतिः॑
।
शं
नो॒
विष्णु॑रुरुक्र॒मः
।
नमो॒
ब्रह्म॑णे
।
नम॑स्ते
वायो
।
त्वमे॒व
प्र॒त्यक्षं॒
ब्रह्मा॑सि
।
त्वामे॒व
प्र॒त्यक्षं॒
ब्रह्मावा॑दिषम्
।
ऋ॒तम॑वादिषम्
।
स॒त्यम॑वादिषम्
।
तन्मामा॑वीत्
।
तद्व॒क्तार॑मावीत्
।
आवी॒न्माम्
।
आवी᳚द्व॒क्तारम्᳚
।
ओं
शांतिः॒
शांतिः॒
शांतिः॑
॥
2
॥
ओं
स॒ह
ना॑ववतु
।
स॒ह
नौ॑
भुनक्तु
।
स॒ह
वी॒र्यं॑
करवावहै
।
ते॒ज॒स्विना॒वधी॑तमस्तु॒
मा
वि॑द्विषा॒वहै᳚
।
ओं
शांतिः॒
शांतिः॒
शांतिः॑
॥
3
॥
नमो॑
वा॒चे
या
चो॑दि॒ता
या
चानु॑दिता॒
तस्यै॑
वा॒चे
नमो॒
नमो॑
वा॒चे
नमो॑
वा॒चस्पत॑ये॒
नम॒
ऋषि॑भ्यो
मंत्र॒कृद्भ्यो॒
मंत्र॑पतिभ्यो॒
मा
मामृष॑यो
मंत्र॒कृतो॑
मंत्र॒पत॑यः॒
परा॑दु॒र्मा-ऽहमृषी᳚न्
मंत्र॒कृतो॑
मंत्र॒पती॒न्
परा॑दां-वैँश्वदे॒वीं-वाँच॑मुद्यासग्ं
शि॒वा
मद॑स्तां॒जुष्टां᳚
दे॒वेभ्यः॒
शर्म॑
मे॒
द्यौः
शर्म॑
पृथि॒वी
शर्म॒
विश्व॑मि॒दं
जग॑त्
।
शर्म॑
चं॒द्रश्च॒
सूर्य॑श्च॒
शर्म॑
ब्रह्म
प्रजाप॒ती
।
भू॒तं-वँ॑दिष्ये॒
भुव॑नं-वँदिष्ये॒
तेजो॑
वदिष्ये॒
यशो॑
वदिष्ये॒
तपो॑
वदिष्ये॒
ब्रह्म॑
वदिष्ये
स॒त्यं-वँ॑दिष्ये॒
तस्मा॑
अ॒हमि॒द-मु॑प॒स्तर॑ण॒-मुप॑स्तृण
उप॒स्तर॑णं
मे
प्र॒जायै॑
पशू॒नां
भू॑यादुप॒स्तर॑णम॒हं
प्र॒जायै॑
पशू॒नां
भू॑यासं॒
प्राणा॑पानौ
मृ॒त्योर्मा॑पातं॒
प्राणा॑पानौ॒
मा
मा॑
हासिष्टं॒
मधु॑
मनिष्ये॒
मधु॑
जनिष्ये॒
मधु॑
वक्ष्यामि॒
मधु॑
वदिष्यामि॒
मधु॑मतीं
दे॒वेभ्यो॒
वाच॑मुद्यासग्ं
शुश्रू॒षेण्यां᳚
मनु॒ष्ये᳚भ्य॒स्तं
मा॑
दे॒वा
अ॑वंतु
शो॒भायै॑
पि॒तरोऽनु॑मदंतु
॥
ओं
शांतिः॒
शांतिः॒
शांतिः॑
॥
4
॥
शन्नो॒
वातः॑
पवतां
मात॒रिश्वा॒
शन्न॑
स्तपतु॒
सूर्यः॑
।
अहा॑नि॒
शं
भ॑वंतु
न॒
श्शग्ं
रात्रिः॒
प्रति॑धीयताम्
॥
शमु॒षा
नो॒
व्यु॑च्छतु॒
शमा॑दि॒त्य
उदे॑तु
नः
।
शि॒वा
न॒
श्शंत॑माभव
सुमृडी॒का
सर॑स्वति
।
माते॒
व्यो॑म
सं॒दृशि॑
॥
1
इडा॑यै॒
वास्त्व॑सि
वास्तु॒मद्वा᳚स्तु॒मंतो॑
भूयास्म॒
मा
वास्तो᳚श्छिथ्स्
मह्यवा॒स्तु
स्स
भू॑या॒द्
यो᳚ऽस्मान्
द्वेष्टि॒
यं
च॑
व॒यं
द्वि॒ष्मः
॥
प्र॒ति॒ष्ठाऽसि॑
प्रति॒ष्ठावं॑तो
भूयास्म॒
मा
प्र॑ति॒ष्ठाया᳚छिथ्स्
मह्य
प्रति॒ष्ठस्स
भू॑या॒द्
यो᳚ऽस्मान्
द्वेष्टि॒
यं
च॑
व॒यं
द्वि॒ष्मः
॥
2
आवा॑त
वाहि
भेष॒जं-विँवा॑त-वाहि॒
यद्रपः॑
।
त्वग्ंहि
वि॒श्वभे॑षजो
दे॒वानां᳚
दू॒त
ईय॑से
॥
द्वावि॒मौ
वातौ॑
वात॒
आसिंधो॒रा
प॑रा॒वतः॑
।
दक्षं॑
मे
अ॒न्य
आ॒वातु॒
परा॒ऽन्यो
वा॑तु॒
यद्रपः॑
॥
यद॒दो
वा॑त
ते
गृ॒हे॑ऽमृत॑स्य
नि॒धिर्हि॒तः
।
ततो॑
नो
देहि
जी॒वसे॒
ततो॑
नो
धेहि
भेष॒जम्
।
ततो॑
नो॒
मह॒
आव॑ह॒
वात॒
आवा॑तु
भेष॒जम्
॥
शं॒भूर्-म॑यो॒भूर्-नो॑
हृ॒दे
प्रण॒
आयुग्ं॑षि
तारिषत्
।
इंद्र॑स्य
गृ॒हो॑ऽसि॒
तं
त्वा॒
प्र॑पद्ये॒
सगु॒स्साश्वः॑
।
स॒ह
यन्मे॒
अस्ति॒
तेन॑
॥
3
भूः
प्रप॑द्ये॒
भुवः॒
प्रप॑द्ये॒
सुवः॒
प्रप॑द्ये॒
भूर्भुव॒स्सुवः॒
प्रप॑द्ये
वा॒युं
प्रप॒द्येऽना᳚र्तां
दे॒वतां॒
प्रप॒द्ये-ऽश्मा॑नमाख॒णं
प्रप॑द्ये
प्र॒जाप॑तेर्
ब्रह्मको॒शं
ब्रह्म॒
प्रप॑द्य॒
ओं
प्रप॑द्ये
॥
अं॒तरि॑क्षं
म
उ॒र्वं॑तरं॑
बृ॒हद॒ग्नयः॒
पर्व॑ताश्च॒
यया॒
वातः॑
स्व॒स्त्या
स्व॑स्ति॒मांतया᳚
स्व॒स्त्या
स्व॑स्ति॒
मान॑सानि
॥
प्राणा॑पानौ
मृ॒त्योर्
मा॑
पातं॒
प्राणा॑पानौ॒
मा
मा॑
हासिष्टं॒
मयि॑
मे॒धां
मयि॑
प्र॒जां
मय्य॒ग्नि
स्तेजो॑
दधातु॒
मयि॑
मे॒धां
मयि॑
प्र॒जां
मयींद्र॑
इंद्रि॒यं
द॑धातु॒
मयि॑
मे॒धां
मयि॑
प्र॒जां
मयि॒
सूर्यो॒
भ्राजो॑
दधातु
॥
4
द्यु॒भिर॒क्तुभिः॒
परि॑पात-म॒स्मा-नरि॑ष्टेभिरश्विना॒
सौभ॑गेभिः
।
तन्नो॑
मि॒त्रो
वरु॑णो
मामहंता॒-मदि॑तिः॒-सिंधुः॑
पृथि॒वी
उ॒तद्यौः
॥
कया॑नश्चि॒त्र
आभु॑व
दू॒ती
स॒दावृ॑ध॒
स्सखा᳚
।
कया॒शचि॑ष्ठया
वृ॒ता
॥
कस्त्वा॑
स॒त्यो
मदा॑नां॒
मग्ंहि॑ष्ठो
मथ्स॒दंध॑सः
।
दृ॒ढा-चि॑दा॒-रुजे॒-वसु॑
॥
अ॒भीषुण॒
स्सखी॑ना-मवि॒ता-ज॑रित्-ॠ॒णाम्
।
श॒तं
भ॑वास्यू॒तिभिः॑
॥
वय॑स्सुप॒र्णा
उप॑सेदु॒रिंद्रं॑
प्रि॒यमे॑धा॒
ऋष॑यो॒
नाध॑मानाः
।
अप॑द्ध्वां॒तमू᳚र्णु॒हि
पू॒र्धिचक्षु॑र्
मुमु॒ग्ध्य॑स्मा-न्नि॒धये॑व
ब॒द्धान्
॥
शन्नो॑
दे॒वीर॒भिष्ट॑य॒
आपो॑
भवंतु
पी॒तये᳚
।
शंयोँ-र॒भिस्र॑वंतुनः
॥
ईशा॑ना॒
वार्या॑णां॒
क्षयं॑ती
श्चर्षणी॒नाम्
।
अ॒पो
या॑चामि
भेष॒जम्
॥
सु॒मि॒त्रान॒
आप॒
ओष॑धय
स्संतु
दुर्मि॒त्रास्तस्मै॑
भूया-सु॒र्यो᳚ऽस्मान्
द्वेष्टि॒
यं
च॑
व॒यं
द्वि॒ष्मः
॥
5
आपो॒हिष्ठा
म॑यो॒भुव॒-स्तान॑
ऊ॒र्जे
द॑धातन
।
म॒हे
रणा॑य॒
चक्ष॑से
।
यो
वः॑
शि॒वत॑मो॒
रस॒स्तस्य॑
भाजयते॒ह
नः॑
।
उ॒श॒तीरि॑व
मा॒तरः॑
।
तस्मा॒
अरं॑
गमामवो॒
यस्य॒
क्षया॑य॒
जिन्व॑थ
।
आपो॑
ज॒नय॑था
चनः
॥
पृ॒थि॒वी
शां॒ता
साऽग्निना॑
शां॒ता
सा
मे॑
शां॒ता
शुचग्ं॑
शमयतु
।
अं॒तरि॑क्षग्ं
शां॒तं
तद्
वा॒युना॑
शां॒तं
तन्मे॑
शां॒तग्ं
शुचग्ं॑
शमयतु
।
द्यौः
शां॒ता
साऽऽदि॒त्येन॑
शां॒ता
सा
मे॑
शां॒ता
शुचग्ं॑
शमयतु
॥
6
पृ॒थि॒वी
शांति॑रं॒तरि॑क्ष॒ग्ं॒
शांति॒र्
द्यौ
श्शांति॒र्
दिशः॒
शांति॑-रवांतरदि॒शाः-शांति॑-र॒ग्निश्शांति॑र्-वा॒युश्शांति॑-रादि॒त्य
श्शांति॑-
श्चं॒द्रमा॒
श्शांति॒र्-नक्ष॑त्राणि॒
शांति॒-राप॒श्शांति॒-रोष॑धय॒
श्शांति॒र्-
वन॒स्पत॑य॒
श्शांति॒र्-गौ
श्शांति॑-र॒जा
शांति॒-रश्व॒
श्शांतिः॒
पुरु॑ष॒
श्शांति॒र्
ब्रह्म॒
शांति॑र्
ब्राह्म॒ण
श्शांति॒-श्शांति॑-रे॒व
शांति॒
श्शांति॑र्
मे
अस्तु
शांतिः॑
॥
तया॒ऽहग्ं
शां॒त्या
स॑र्व
शां॒त्या
मह्यं॑
द्वि॒पदे॒
चतु॑ष्पदे
च॒
शांतिं॑
करोमि॒
शांति॑र्
मे
अस्तु॒
शांतिः॑
॥
7
एह॒
श्रीश्च॒
ह्रीश्च॒
धृति॑श्च॒
तपो॑
मे॒धा
प्र॑ति॒ष्ठा
श्र॒द्धा
स॒त्यं
धर्म॑श्चै॒तानि॒
मोत्ति॑ष्ठंत॒-मनूत्ति॑ष्ठंतु॒
मामा॒ग्ग्॒
श्रीश्च॒
ह्रीश्च॒
धृति॑श्च॒
तपो॑
मे॒धा
प्र॑ति॒ष्ठा
श्र॒द्धा
स॒त्यं
धर्म॑श्चै॒तानि॑
मा॒
मा
हा॑सिषुः
॥
उदायु॑षा
स्वा॒युषो-दोष॑धीना॒ग्ं॒
रसे॒नोत्
प॒र्जन्य॑स्य॒
शुष्मे॒णोद॑स्था-
म॒मृता॒ग्ं॒
अनु॑
॥
तच्चक्षु॑र्
दे॒वहि॑तं
पु॒रस्ता᳚-च्छु॒क्रमु॒च्चर॑त्
॥
8
पश्ये॑म
श॒रद॑श्श॒तं
जीवे॑म
श॒रद॑श्श॒तं
नंदा॑म
श॒रद॑श्श॒तं
मोदा॑म
श॒रद॑श्श॒तं
भवा॑म
श॒रद॑श्श॒तग्ं
शृ॒णवा॑म
श॒रद॑श्श॒तं
प्रब्र॑वाम
श॒रद॑श्श॒त-मजी॑तास्याम
श॒रद॑श्श॒तं
जोक्च॒
सूर्यं॑
दृ॒शे
॥
य
उद॑गान्
मह॒तोऽर्णवा᳚न्
वि॒ब्राज॑मान-स्सरि॒रस्य॒
मद्ध्या॒थ्स
मा॑
वृष॒भो
लो॑हिता॒क्ष
स्सूर्यो॑
विप॒श्चिन्
मन॑सा
पुनातु
॥
9
ब्रह्म॑ण॒श्चोत॑न्यसि॒
ब्रह्म॑ण
आ॒णीस्थो॒
ब्रह्म॑ण
आ॒वप॑नमसि
धारि॒तेयं
पृ॑थि॒वी
ब्रह्म॑णा
म॒ही
धा॑रि॒त-मे॑नेन
म॒हदं॒तरि॑क्षं॒
दिवं॑
दाधार
पृथि॒वीग्ं
सदे॑वां॒यँद॒हंवेँद॒
तद॒हं
धा॑रयाणि॒
मामद्वेदोऽधि॒
विस्र॑सत्
।
मे॒धा॒म॒नी॒षे
मावि॑शताग्ं
स॒मीची॑
भू॒तस्य॒
भव्य॒स्याव॑रुद्ध्यै॒
सर्व॒मायु॑रयाणि॒
सर्व॒मायु॑रयाणि
॥
10
आ॒भिर्
गी॒र्भिर्
यदतो॑न
ऊ॒नमाप्या॑यय
हरिवो॒
वर्ध॑मानः
।
य॒दा
स्तो॒तृभ्यो॒
महि॑
गो॒त्रा
रु॒जासि॑
भूयिष्ठ॒भाजो॒
अध॑ते
श्याम
।
ब्रह्म॒
प्रावा॑दिष्म॒
तन्नो॒
माहा॑सीत्
॥
ओं
शांतिः॒
शांतिः॒
शांतिः॑
॥
5
॥