Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

सर्प सूक्तम्

नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वी मनु॑ ये अं॒तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ या इष॑वो यातु॒धाना॑नां॒-येँ वा॒ वन॒स्पती॒ग्ं॒‍ रनु॑ ये वा॑ऽव॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ इ॒दग्ं स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्टम्᳚ आ॒श्रे॒षा येषा॑मनु॒यंति॒ चेतः॑ ये अं॒तरि॑क्षं पृथि॒वीं क्षि॒यंति॑ ते न॑स्स॒र्पासो॒ हव॒माग॑मिष्ठाः ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः ये दिवं॑ दे॒वीमनु॑स॒न्चरं॑ति येषा॑माश्रे॒षा अ॑नु॒यंति॒ कामम्᳚ तेभ्य॑स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि 2 नि॒घृष्वै॑रस॒मायु॑तैः कालैर्​हरित्व॑माप॒न्नैः इंद्राया॑हि स॒हस्र॑युक् अ॒ग्निर्वि॒भ्राष्टि॑वसनः वा॒युश्वेत॑सिकद्रु॒कः सं॒​वँ॒थ्स॒रो वि॑षू॒वर्णैः᳚ नित्या॒स्तेऽनुच॑रास्त॒व सुब्रह्मण्योग्ं सुब्रह्मण्योग्ं सु॑ब्रह्मण्योग्म् 3 ओं शांतिः शांतिः शांतिः