हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
सानुस्वार प्रश्नः
श्री
गुरुभ्यो
नमः
।
हरिः
ओम्
।
ब्रह्म॑णे
ब्राह्म॒णमाल॑भते
।
क्ष॒त्त्राय॑
राज॒न्यम्᳚
।
म॒रुद्भ्यो॒
वैश्यम्᳚
।
तप॑से
शू॒द्रम्
।
तम॑से॒
तस्क॑रम्
।
नार॑काय
वीर॒हणम्᳚
।
पा॒प्मने᳚
क्ली॒बम्
।
आ॒क्र॒याया॑यो॒गूम्
।
कामा॑य
पुग्ग्श्च॒लूम्
।
अति॑क्रुष्टाय
माग॒धम्
॥
1
॥
गी॒ताय॑
सू॒तम्
।
नृ॒त्ताय॑
शैलू॒षम्
।
धर्मा॑य
सभाच॒रम्
।
न॒र्माय॑
रे॒भम्
।
नरि॑ष्ठायै
भीम॒लम्
।
हसा॑य॒
कारिम्᳚
।
आ॒न॒न्दाय॑
स्त्रीष॒खम्
।
प्र॒मुदे॑
कुमारीपु॒त्रम्
।
मे॒धायै॑
रथका॒रम्
।
धैर्या॑य॒
तक्षा॑णम्
॥
2
॥
श्रमा॑य
कौला॒लम्
।
मा॒यायै॑
कार्मा॒रम्
।
रू॒पाय॑
मणिका॒रम्
।
शुभे॑
व॒पम्
।
श॒र॒व्या॑या
इषुका॒रम्
।
हे॒त्यै
ध॑न्वका॒रम्
।
कर्म॑णे
ज्याका॒रम्
।
दि॒ष्टाय॑
रज्जुस॒र्गम्
।
मृ॒त्यवे॑
मृग॒युम्
।
अन्त॑काय
श्व॒नितम्᳚
॥
3
॥
स॒न्धये॑
जा॒रम्
।
गे॒हायो॑पप॒तिम्
।
निरृ॑त्यै
परिवि॒त्तम्
।
आर्त्यै॑
परिविविदा॒नम्
।
अरा᳚ध्यै
दिधिषू॒पतिम्᳚
।
प॒वित्रा॑य
भि॒षजम्᳚
।
प्र॒ज्ञाना॑य
नक्षत्रद॒र्शम्
।
निष्कृ॑त्यै
पेशस्का॒रीम्
।
बला॑योप॒दाम्
।
वर्णा॑यानू॒रुधम्᳚
॥
4
॥
न॒दीभ्य॑:
पौञ्जि॒ष्टम्
।
ऋ॒क्षीका᳚भ्यो॒
नैषा॑दम्
।
पु॒रु॒ष॒व्या॒घ्राय॑
दु॒र्मदम्᳚
।
प्र॒युद्भ्य॒
उन्म॑त्तम्
।
ग॒न्ध॒र्वा॒प्स॒राभ्यो॒
व्रात्यम्᳚
।
स॒र्प॒दे॒व॒ज॒नेभ्योऽप्र॑तिपदम्
।
अवे᳚भ्यः
कित॒वम्
।
इ॒र्यता॑या॒
अकि॑तवम्
।
पि॒शा॒चेभ्यो॑
बिदलका॒रम्
।
या॒तु॒धाने᳚भ्यः
कण्टकका॒रम्
॥
5
॥
उ॒थ्सा॒देभ्य॑:
कु॒ब्जम्
।
प्र॒मुदे॑
वाम॒नम्
।
द्वा॒र्भ्यः
स्रा॒मम्
।
स्वप्ना॑या॒न्धम्
।
अध॑र्माय
बधि॒रम्
।
स॒ञ्ज्ञाना॑य
स्मरका॒रीम्
।
प्र॒का॒मोद्या॑योप॒सदम्᳚
।
आ॒शि॒क्षायै᳚
प्र॒श्निनम्᳚
।
उ॒प॒शि॒क्षाया॑
अभिप्र॒श्निनम्᳚
।
म॒र्यादा॑यै
प्रश्नविवा॒कम्
॥
6
॥
ऋत्यै᳚
स्ते॒नहृ॑दयम्
।
वैर॑हत्याय॒
पिशु॑नम्
।
विवि॑त्त्यै
क्ष॒त्तारम्᳚
।
औप॑द्रष्टाय
सङ्ग्रही॒तारम्᳚
।
बला॑यानुच॒रम्
।
भू॒म्ने
प॑रिष्क॒न्दम्
।
प्रि॒याय॑
प्रियवा॒दिनम्᳚
।
अरि॑ष्ट्या
अश्वसा॒दम्
।
मेधा॑य
वासः
पल्पू॒लीम्
।
प्र॒का॒माय॑
रजयि॒त्रीम्
॥
7
॥
भायै॑
दार्वाहा॒रम्
।
प्र॒भाया॑
आग्ने॒न्धम्
।
नाक॑स्य
पृ॒ष्ठाया॑भिषे॒क्तारम्᳚
।
ब्र॒ध्नस्य॑
वि॒ष्टपा॑य
पात्रनिर्णे॒गम्
।
दे॒व॒लो॒काय॑
पेशि॒तारम्᳚
।
म॒नु॒ष्य॒लो॒काय॑
प्रकरि॒तारम्᳚
।
सर्वे᳚भ्यो
लो॒केभ्य॑
उपसे॒क्तारम्᳚
।
अव॑र्त्यै
व॒धायो॑पमन्थि॒तारम्᳚
।
सु॒व॒र्गाय॑
लो॒काय॑
भाग॒दुघम्᳚
।
वर्षि॑ष्ठाय॒
नाका॑य
परिवे॒ष्टारम्᳚
॥
8
॥
अर्मे᳚भ्यो
हस्ति॒पम्
।
ज॒वाया᳚श्व॒पम्
।
पुष्ट्यै॑
गोपा॒लम्
।
तेज॑सेऽजपा॒लम्
।
वी॒र्या॑याविपा॒लम्
।
इरा॑यै
की॒नाशम्᳚
।
की॒लाला॑य
सुराका॒रम्
।
भ॒द्राय॑
गृह॒पम्
।
श्रेय॑से
वित्त॒धम्
।
अध्य॑क्षायानुक्ष॒त्तारम्᳚
॥
9
॥
म॒न्यवे॑ऽयस्ता॒पम्
।
क्रोधा॑य
निस॒रम्
।
शोका॑याभिस॒रम्
।
उ॒त्कू॒ल॒वि॒कू॒लाभ्यां᳚
त्रि॒स्थिनम्᳚
।
योगा॑य
यो॒क्तारम्᳚
।
क्षेमा॑य
विमो॒क्तारम्᳚
।
वपु॑षे
मानस्कृ॒तम्
।
शीला॑याञ्जनीका॒रम्
।
निरृ॑त्यै
कोशका॒रीम्
।
य॒माया॒सूम्
॥
10
॥
य॒म्यै॑
यम॒सूम्
।
अथ॑र्व॒भ्योऽव॑तोकाम्
।
सं॒व॒थ्स॒राय॑
पर्या॒रिणी᳚म्
।
प॒रि॒व॒थ्स॒रायावि॑जाताम्
।
इ॒दा॒व॒थ्स॒राया॑प॒स्कद्व॑रीम्
।
इ॒द्व॒त्स॒राया॒तीत्व॑रीम्
।
व॒थ्स॒राय॒
विज॑र्जराम्
।
सं॒व॒थ्स॒राय॒
पलि॑क्नीम्
।
वना॑य
वन॒पम्
।
अ॒न्यतो॑ऽरण्याय
दाव॒पम्
॥
11
॥
सरो᳚भ्यो
धैव॒रम्
।
वेश॑न्ताभ्यो॒
दाशम्᳚
।
उ॒प॒स्थाव॑रीभ्यो॒
बैन्दम्᳚
।
न॒ड्व॒लाभ्य॑:
शौष्क॒लम्
।
पा॒र्या॑य
कैव॒र्तम्
।
अ॒वा॒र्या॑य
मार्गा॒रम्
।
ती॒र्थेभ्य॑
आ॒न्दम्
।
विष॑मेभ्यो
मैना॒लम्
।
स्वने᳚भ्य॒:
पर्ण॑कम्
।
गुहा᳚भ्य॒:
किरा॑तम्
।
सानु॑भ्यो॒
जम्भ॑कम्
।
पर्व॑तेभ्य॒:
किम्पू॑रुषम्
॥
12
॥
प्र॒ति॒श्रुत्का॑या
ऋतु॒लम्
।
घोषा॑य
भ॒षम्
।
अन्ता॑य
बहुवा॒दिनम्᳚
।
अ॒न॒न्ताय॒
मूकम्᳚
।
मह॑से
वीणावा॒दम्
।
क्रोशा॑य
तूणव॒ध्मम्
।
आ॒क्र॒न्दाय॑
दुन्दुभ्याघा॒तम्
।
अ॒व॒र॒स्प॒राय॑
शङ्ख॒ध्मम्
।
ऋ॒भुभ्यो॑ऽजिनसन्धा॒यम्
।
सा॒ध्येभ्य॑श्चर्म॒म्णम्
॥
13
॥
बी॒भ॒थ्सायै॑
पौल्क॒सम्
।
भूत्यै॑
जागर॒णम्
।
अभू᳚त्यै
स्वप॒नम्
।
तु॒लायै॑
वाणि॒जम्
।
वर्णा॑य
हिरण्यका॒रम्
।
विश्वे᳚भ्यो
दे॒वेभ्य॑:
सिध्म॒लम्
।
प॒श्चा॒द्दो॒षाय॑
ग्ला॒वम्
।
ऋत्यै॑
जनवा॒दिनम्᳚
।
व्यृ॑द्ध्या
अपग॒ल्भम्
।
स॒ग्ं॒श॒राय॑
प्र॒च्छिदम्᳚
॥
14
॥
हसा॑य
पुग्ग्श्च॒लूमाल॑भते
।
वी॒णा॒वा॒दं
गण॑कं
गी॒ताय॑
।
याद॑से
शाबु॒ल्याम्
।
न॒र्माय॑
भद्रव॒तीम्
।
तू॒ष्ण॒व॒ध्मं
ग्रा॑म॒ण्यं॑
पाणिसङ्घा॒तं
नृ॒त्ताय॑
।
मोदा॑यानु॒क्रोश॑कम्
।
आ॒न॒न्दाय॑
तल॒वम्
॥
15
॥
अ॒क्ष॒रा॒जाय॑
कित॒वम्
।
कृ॒ताय॑
सभा॒विनम्᳚
।
त्रेता॑या
आदिनवद॒र्शम्
।
द्वा॒प॒राय॑
बहि॒:
सदम्᳚
।
कल॑ये
सभास्था॒णुम्
।
दु॒ष्कृ॒ताय॑
च॒रका॑चार्यम्
।
अध्व॑ने
ब्रह्मचा॒रिणम्᳚
।
पि॒शा॒चेभ्य॑:
सैल॒गम्
।
पि॒पा॒सायै॑
गोव्य॒च्छम्
।
निरृ॑त्यै
गोघा॒तम्
।
क्षु॒धे
गो॑विक॒र्तम्
।
क्षु॒त्तृ॒ष्णाभ्यां॒
तम्
।
यो
गां
वि॒कृन्त॑न्तं
मा॒ग्ं॒सं
भिक्ष॑माण
उप॒तिष्ठ॑ते
॥
16
॥
भूम्यै॑
पीठस॒र्पिण॒माल॑भते
।
अ॒ग्नयेऽग्ं॑स॒लम्
।
वा॒यवे॑
चाण्डा॒लम्
।
अ॒न्तरि॑क्षाय
वग्ंशन॒र्तिनम्᳚
।
दि॒वे
ख॑ल॒तिम्
।
सूर्या॑य
हर्य॒क्षम्
।
च॒न्द्रम॑से
मिर्मि॒रम्
।
नक्ष॑त्रेभ्यः
कि॒लासम्᳚
।
अह्ने॑
शु॒क्लं
पि॑ङ्ग॒लम्
।
रात्रि॑यै
कृ॒ष्णं
पि॑ङ्गा॒क्षम्
॥
17
॥
वा॒चे
पुरु॑ष॒माल॑भते
।
प्रा॒णम॑पा॒नं
व्या॒नमु॑दा॒नग्ं
स॑मा॒नं
तान्वा॒यवे᳚
।
सूर्या॑य॒
चक्षु॒राल॑भते
।
मन॑श्च॒न्द्रम॑से
।
दि॒ग्भ्यः
श्रोत्रम्᳚
।
प्र॒जाप॑तये॒
पुरु॑षम्
॥
18
॥
अथै॒तानरू॑पेभ्य॒
आल॑भते
।
अति॑ह्रस्व॒मति॑दीर्घम्
।
अति॑कृश॒मत्यग्ं॑सलम्
।
अति॑शुक्ल॒मति॑कृष्णम्
।
अति॑श्लक्ष्ण॒मति॑लोमशम्
।
अति॑किरिट॒मति॑दन्तुरम्
।
अति॑मिर्मिर॒मति॑मेमिषम्
।
आ॒शायै॑
जा॒मिम्
।
प्र॒ती॒क्षायै॑
कुमा॒रीम्
॥
19
॥