हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
नासदीय सूक्तम्
नास॑दासी॒न्नो
सदा॑सीत्त॒दानीं॒
नासी॒द्रजो॒
नो
व्यो॑मा
प॒रो
यत्
।
किमाव॑रीवः॒
कुह॒
कस्य॒
शर्म॒न्नंभः॒
किमा॑सी॒द्गह॑नं
गभी॒रम्
॥
1
॥
न
मृ॒त्युरा॑सीद॒मृतं॒
न
तर्हि॒
न
रात्र्या॒
अह्न॑
आसीत्प्रके॒तः
।
आनी॑दवा॒तं
स्व॒धया॒
तदेकं॒
तस्मा॑द्धा॒न्यन्न
प॒रः
किं
च॒नास॑
॥
2
॥
तम॑
आसी॒त्तम॑सा
गू॒ल्हमग्रे॑ऽप्रके॒तं
स॑लि॒लं
सर्व॑मा
इ॒दम्
।
तु॒च्छ्येना॒भ्वपि॑हितं॒-यँदासी॒त्तप॑स॒स्तन्म॑हि॒नाजा॑य॒तैक॑म्
॥
3
॥
काम॒स्तदग्रे॒
सम॑वर्त॒ताधि॒
मन॑सो॒
रेतः॑
प्रथ॒मं-यँदासी॑त्
।
स॒तो
बंधु॒मस॑ति॒
निर॑विंदन्
हृ॒दि
प्र॒तीष्या॑
क॒वयो॑
मनी॒षा
॥
4
॥
ति॒र॒श्चीनो॒
वित॑तो
र॒श्मिरे॑षाम॒धः
स्वि॑दा॒सी
3
दु॒परि॑
स्विदासी
3
त्
।
रे॒तो॒धा
आ॑सन्महि॒मान॑
आसंत्स्व॒धा
अ॒वस्ता॒त्प्रय॑तिः
प॒रस्ता॑त्
॥
5
॥
को
अ॒द्धा
वे॑द॒
क
इ॒ह
प्र
वो॑च॒त्कुत॒
आजा॑ता॒
कुत॑
इ॒यं-विँसृ॑ष्टिः
।
अ॒र्वाग्दे॒वा
अ॒स्य
वि॒सर्ज॑ने॒नाथा॒
को
वे॑द॒
यत॑
आब॒भूव॑
॥
6
॥
इ॒यं-विँसृ॑ष्टि॒र्यत॑
आब॒भूव॒
यदि॑
वा
द॒धे
यदि॑
वा॒
न
।
यो
अ॒स्याध्य॑क्षः
पर॒मे
व्यो॑मं॒त्सो
अ॒ङ्ग
वे॑द॒
यदि॑
वा॒
न
वेद॑
॥
7
॥