हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
मेधा सूक्तम्
ओं-यँश्छंद॑सामृष॒भो
वि॒श्वरू॑पः
।
छंदो॒भ्योऽध्य॒मृता᳚थ्संब॒भूव॑
।
स
मेंद्रो॑
मे॒धया᳚
स्पृणोतु
।
अ॒मृत॑स्य
देव॒धार॑णो
भूयासम्
।
शरी॑रं
मे॒
विच॑र्षणम्
।
जि॒ह्वा
मे॒
मधु॑मत्तमा
।
कर्णा᳚भ्यां॒
भूरि॒विश्रु॑वम्
।
ब्रह्म॑णः
को॒शो॑ऽसि
मे॒धया
पि॑हितः
।
श्रु॒तं
मे॑
गोपाय
॥
ओं
शांतिः॒
शांतिः॒
शांतिः॑
॥
ओं
मे॒धादे॒वी
जु॒षमा॑णा
न॒
आगा᳚-द्वि॒श्वाची॑
भ॒द्रा
सु॑मन॒स्य
मा॑ना
।
त्वया॒
जुष्टा॑
नु॒दमा॑ना
दु॒रुक्ता᳚न्
बृ॒हद्व॑देम
वि॒दथे॑
सु॒वीराः᳚
।
त्वया॒
जुष्ट॑
ऋ॒षिर्भ॑वति
देवि॒
त्वया॒
ब्रह्मा॑ऽऽग॒तश्री॑रु॒त
त्वया᳚
।
त्वया॒
जुष्ट॑श्चि॒त्रं-विँं॑दते
वसु॒
सा
नो॑
जुषस्व॒
द्रवि॑णो
न
मेधे
॥
मे॒धां
म॒
इंद्रो॑
ददातु
मे॒धां
दे॒वी
सर॑स्वती
।
मे॒धां
मे॑
अ॒श्विना॑वु॒भा-वाध॑त्तां॒
पुष्क॑रस्रजा
।
अ॒प्स॒रासु॑
च॒
या
मे॒धा
गं॑ध॒र्वेषु॑
च॒
यन्मनः॑
।
दैवीं᳚
मे॒धा
सर॑स्वती॒
सा
मां᳚
मे॒धा
सु॒रभि॑-र्जुषता॒ग्॒
स्वाहा᳚
॥
आमां᳚
मे॒धा
सु॒रभि॑-र्वि॒श्वरू॑पा॒
हिर॑ण्यवर्णा॒
जग॑ती
जग॒म्या
।
ऊर्ज॑स्वती॒
पय॑सा॒
पिन्व॑माना॒
सा
मां᳚
मे॒धा
सु॒प्रती॑का
जुषंताम्
॥
मयि॑
मे॒धां
मयि॑
प्र॒जां
मय्य॒ग्नि-स्तेजो॑
दधातु॒,
मयि॑
मे॒धां
मयि॑
प्र॒जां
मयींद्र॑
इंद्रि॒यं
द॑धातु॒,
मयि॑
मे॒धां
मयि॑
प्र॒जां
मयि॒
सूर्यो॒
भ्राजो॑
दधातु
॥
[ओं
हं॒स॒
हं॒साय॑
वि॒द्महे॑
परमहं॒साय॑
धीमहि
।
तन्नो॑
हंसः
प्रचो॒दया᳚त्
॥
(हंसगायत्री)]
ओं
शांतिः॒
शांतिः॒
शांतिः॑
॥