Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

केन उपनिषद् - चतुर्थः खंडः

सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदांचकार ब्रह्मेति 1 तस्माद्वा एते देवा अतितरामिवान्यांदेवान्यदग्निर्वायुरिंद्रस्ते ह्येनन्नेदिष्ठं पस्पर्​शुस्ते ह्येनत्प्रथमो विदांचकार ब्रह्मेति 2 तस्माद्वा इंद्रोऽतितरामिवान्यांदेवान्स ह्येनन्नेदिष्ठं पस्पर्​श ह्येनत्प्रथमो विदांचकार ब्रह्मेति 3 तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा(3) इतीन् न्यमीमिषदा(3) इत्यधिदैवतम् 4 अथाध्यात्मं-यँद्देतद्गच्छतीव मनोऽनेन चैतदुपस्मरत्यभीक्ष्णं संकल्पः 5 तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं एतदेवं-वेँदाभि हैनग्ं सर्वाणि भूतानि सं​वांँछंति 6 उपनिषदं भो ब्रूहीत्युक्ता उपनिषद्ब्राह्मीं-वाँव उपनिषदमब्रूमेति 7 तसै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वांगानि सत्यमायतनम् 8 यो वा एतामेवं-वेँदापहत्य पाप्मानमनंते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति 9 इति केनोपनिषदि चतुर्थः खंडः ओं आप्यायंतु ममांगानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिंद्रियाणि सर्वाणि सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते उपनिषत्सु धर्मास्ते मयि संतु ते मयि संतु ओं शांतिः॒ शांतिः॒ शांतिः॑ इति केनोपनिषत्