Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

केन उपनिषद् - द्वितीयः खंडः

यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं-वेँत्थ ब्रह्मणो रूपम् यदस्य त्वं-यँदस्य देवेष्वथ नु मीमाम्स्यमेव ते मन्ये विदितम् 1 नाहं मन्ये सुवेदेति नो वेदेति वेद यो नस्तद्वेद तद्वेद नो वेदेति वेद 2 यस्यामतं तस्य मतं मतं-यँस्य वेद सः अविज्ञातं-विँजानतां-विँज्ञातमविजानताम् 3 प्रतिबोधविदितं मतममृतत्वं हि विंदते आत्मना विंदते वीर्यं-विँद्यया विंदतेऽमृतम् 4 इह चेदवेदीदथ सत्यमस्ति चेदिहावेदीन्महती विनष्टिः भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवंति 5 इति केनोपनिषदि द्वितीयः खंडः