Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

भावनोपनिषद्

श्रीगुरुः सर्वकारणभूता शक्तिः 1 केन नवरंध्ररूपो देहः नवशक्तिरूपं श्रीचक्रम वाराही पितृरूपा कुरुकुल्ला बलिदेवता माता पुरुषार्थाः सागराः देहो नवरत्नद्वीपः आधारनवकमुद्रा: शक्तयः त्वगादिसप्तधातुभिर-नेकैः सं​युँक्ताः संकल्पाः कल्पतरवः तेज: कल्पकोद्यानम्रसनया भाव्यमाना मधुराम्लतिक्त-कटुकषायलवणभेदाः षड्रसाः षडृतवः क्रियाशक्तिः पीठम् कुंडलिनी ज्ञानशक्तिर्गृहम् इच्छाशक्तिर्महात्रिपुरसुंदरी ज्ञाता होता ज्ञानमग्निः ज्ञेयं हविः ज्ञातृज्ञानज्ञेयानामभेदभावनं श्रीचक्रपूजनम् नियतिसहिताः श्र्​ऋंगारादयो नव रसा अणिमादयः कामक्रोधलोभमोहमद-मात्सर्यपुण्यपापमया ब्राह्मयाद्यष्टशक्तयः पृथिव्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवा-क्पाणिपादपायूपस्थमनोविकाराः षोडश शक्तयः वचनादानगमनविसर्गानंदहानोपेक्षाबुद्धयो-ऽनंगकुसुमादिशक्तयोऽष्टौ अलंबुसा कुहूर्विश्वोदरी वरुणा हस्तिजिह्वा यशस्वत्यश्विनी गांधारी पूषा शंखिनी सरस्वतीडा पिंगला सुषुम्ना चेति चतुर्दश नाड्यः सर्वसंक्षोभिण्यादिचतुर्दशारगा देवताः प्राणापानव्यानोदानसमाननागकूर्मकृकरदेवदत्तधनंजया इति दश वायवः सर्वसिद्धि-प्रदा देव्यो बहिर्दशारगा देवताः एतद्वायुदशकसंसर्गोपाथिभेदेन रेचकपूरकशोषकदाहक-प्लावका अमृतमिति प्राणमुख्यत्वेन पंचविधोऽस्ति क्षारको दारकः क्षोभको मोहको जृंभक इत्यपालनमुख्यत्वेन पंचविधोऽस्ति तेन मनुष्याणां मोहको दाहको भक्ष्यभोज्यलेह्यचोष्यपेया-त्मकं चतुर्विधमन्नं पाचयति एता दश वह्निकलाः सर्वात्वाद्यंतर्दशारगा देवताः शीतोष्णसुखदुःखेच्छासत्त्वरजस्तमोगुणा वशिन्यादिशक्तयोऽष्टौ शब्दस्पर्​शरूपरसगंधाः पंचतन्मात्राः पंच पुष्पबाणा मन इक्षुधनुः वश्यो बाणो रागः पाशः द्वेषोऽंकुशः अव्यक्तमहत्तत्त्वमहदहंकार इति कामेश्वरीवज्नेश्वरीभगमालिन्योऽंतस्त्रिकोणाग्नगा देवताः पंचदशतिथिरूपेण कालस्य परिणामावलोकनस्थितिः पंचदश नित्या श्रद्धानुरूपाधिदेवता तयोः कामेश्वरी सदानंदघना परिपूर्णस्वात्मैक्यरूपा देवता 2 सलिलमिति सौहित्यकारणं सत्त्वम् कर्तव्यमकर्तव्यमिति भावनायुक्त उपचारः अस्ति नास्तीति कर्तव्यता उपचारः बाह्याभ्यंत:करणानां रूपग्रहणयोग्यताऽस्त्वित्यावाहनम् तस्य वाह्याभ्यंतःकरणानामेकरूपविषयग्रहणमासनम् रक्तशुक्लपदैकीकरणं पाद्यम् उज्ज्वलदा-मोदानंदासनदानमर्घ्यम् स्वच्छं स्वत:सिद्धमित्याचमनीयम् चिच्चंद्रमयीति सर्वांगस्त्रवणं स्नानम् चिदग्निस्वरूपपरमानंदशक्तिस्फुरणं-वँस्त्रम् प्रत्येकं सप्तविंशतिधा भिन्नत्वेनेच्छाज्ञान-क्रियात्मकब्रह्मग्रंथिमद्रसतंतुब्रह्मनाडी ब्रह्मसूत्रम् स्वव्यतिरिक्तवस्तुसंगरहितस्मरणं-विँभूषणम् स्वच्छस्वपरिपूर्णतास्मरणं गंधः समस्तविषयाणां मनसः स्थैर्येणानुसंधानं कुसुमम् तेषामेव सर्वदा स्वीकरणं धूपः पवनावच्छिन्नोर्ध्वग्वलनसच्चिदुल्काकाशदेहो दीपः समस्तयाताया-तवर्ज्यं नैवेद्यम् अवस्थात्रयाणामेकीकरणं तांबूलम् मूलाधारादाब्रह्मरंध्रपर्यंतं ब्रह्मरंध्रादा-मूलाधारपर्यंतं गतागतरूपेण प्रादक्षिण्यम् तुर्यावस्था नमस्कारः देहशून्यप्रमातृतानिमज्जनं बलिहरणम् सत्यमस्ति कर्तव्यमकर्तव्यमौदासीन्यनित्यात्मविलापनं होमः स्वयं तत्पादुका-निमज्जनं परिपूर्णध्यानम्3 एवं मुहूर्तत्रयं भावनापरो जीवन्मुक्तो भवति तस्य देवतात्मैक्यसिद्धिः चिंतितकार्याण्य-यत्नेन सिद्धयंति एव शिवयोगीति कथ्यते 4