हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
अन्न सूक्तम् - कृष्ण यजुर्वेद
अ॒हम॑स्मि
प्रथ॒मजा
ऋ॒तस्य॑
।
पूर्वं॑
दे॒वेभ्यो॑
अ॒मृत॑स्य॒
नाभि॑:
।
यो
मा॒
ददा॑ति॒
स
इदे॒व
माऽऽवा᳚:
।
अ॒हमन्न॒मन्न॑म॒दन्त॑मद्मि
।
पूर्व॑म॒ग्नेरपि॑
दह॒त्यन्न᳚म्
।
य॒त्तौ
हा॑ऽऽसाते
अहमुत्त॒रेषु॑
।
व्यात्त॑मस्य
प॒शव॑:
सु॒जम्भ᳚म्
।
पश्य॑न्ति॒
धीरा॒:
प्रच॑रन्ति॒
पाका᳚:
।
जहा᳚म्य॒न्यं
न
ज॑हाम्य॒न्यम्
।
अ॒हमन्नं॒
वश॒मिच्च॑रामि
॥
1
स॒मा॒नमर्थं॒
पर्ये॑मि
भु॒ञ्जत्
।
को
मामन्नं॑
मनु॒ष्यो॑
दयेत
।
परा॑के॒
अन्नं॒
निहि॑तं
लो॒क
ए॒तत्
।
विश्वै᳚र्दे॒वैः
पि॒तृभि॑र्गु॒प्तमन्न᳚म्
।
यद॒द्यते॑
लु॒प्यते॒
यत्प॑रो॒प्यते᳚
।
श॒त॒त॒मी
सा
त॒नूर्मे॑
बभूव
।
म॒हान्तौ॑
च॒रू
स॑कृद्दु॒ग्धेन॑
पप्रौ
।
दिवं॑
च॒
पृश्नि॑
पृथि॒वीं
च॑
सा॒कम्
।
तत्सं॒पिब॑न्तो॒
न
मि॑नन्ति
वे॒धस॑:
।
नैतद्भूयो॒
भव॑ति॒
नो
कनी॑यः
॥
2
अन्नं॑
प्रा॒णमन्न॑मपा॒नमा॑हुः
।
अन्नं॑
मृ॒त्युं
तमु॑
जी॒वातु॑माहुः
।
अन्नं॑
ब्र॒ह्माणो॑
ज॒रसं॑
वदन्ति
।
अन्न॑माहुः
प्र॒जन॑नं
प्र॒जाना᳚म्
।
मोघ॒मन्नं॑
विन्दते॒
अप्र॑चेताः
।
स॒त्यं
ब्र॑वीमि
व॒ध
इत्स
तस्य॑
।
नार्य॒मणं॒
पुष्य॑ति॒
नो
सखा॑यम्
।
केव॑लाघो
भवति
केवला॒दी
।
अ॒हं
मे॒घः
स्त॒नय॒न्वर्ष॑न्नस्मि
।
माम॑दन्त्य॒हम॑द्म्य॒न्यान्
॥
3
[
अह॒ग्ं
सद॒मृतो॑
भवामि
।
मदा॑दि॒त्या
अधि॒
सर्वे॑
तपन्ति
।
]