Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

अग्नि सूक्तम्

अ॒ग्निमी॑ले पु॒रोहि॑तं-यँ॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् होता॑रं रत्न॒धात॑मम् 1 अ॒ग्निः पूर्वे॑भि॒र्​ऋषि॑भि॒रीड्यो॒ नूत॑नैरु॒त दे॒वाण् एह व॑क्षति 2 अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे य॒शसं॑-वीँ॒रव॑त्तमम् 3 अग्ने॒ यं-यँ॒ज्ञम॑ध्व॒रं-विँ॒श्वतः॑ परि॒भूरसि॑ इद्दे॒वेषु॑ गच्छति 4 अ॒ग्निर्​होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः दे॒वो दे॒वेभि॒रा ग॑मत् 5 यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ तवेत्तत्स॒त्यमं॑गिरः 6 उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् नमो॒ भरं॑त॒ एम॑सि 7 राजं॑तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् वर्ध॑मानं॒ स्वे दमे॑ 8 नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व सच॑स्वा नः स्व॒स्तये॑ 9