हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
वासुदेव स्तोत्रम्
(श्रीमहाभारते
भीष्मपर्वणि
पंचषष्टितमोऽध्याये
श्लो:
47)
विश्वावसुर्विश्वमूर्तिर्विश्वेशो
विष्वक्सेनो
विश्वकर्मा
वशी
च
।
विश्वेश्वरो
वासुदेवोऽसि
तस्मा-
-द्योगात्मानं
दैवतं
त्वामुपैमि
॥
47
॥
जय
विश्व
महादेव
जय
लोकहितेरत
।
जय
योगीश्वर
विभो
जय
योगपरावर
॥
48
॥
पद्मगर्भ
विशालाक्ष
जय
लोकेश्वरेश्वर
।
भूतभव्यभवन्नाथ
जय
सौम्यात्मजात्मज
॥
49
॥
असंख्येयगुणाधार
जय
सर्वपरायण
।
नारायण
सुदुष्पार
जय
शार्ङ्गधनुर्धर
॥
50
॥
जय
सर्वगुणोपेत
विश्वमूर्ते
निरामय
।
विश्वेश्वर
महाबाहो
जय
लोकार्थतत्पर
॥
51
॥
महोरगवराहाद्य
हरिकेश
विभो
जय
।
हरिवास
दिशामीश
विश्वावासामिताव्यय
॥
52
॥
व्यक्ताव्यक्तामितस्थान
नियतेंद्रिय
सत्क्रिय
।
असंख्येयात्मभावज्ञ
जय
गंभीरकामद
॥
53
॥
अनंतविदित
ब्रह्मन्
नित्यभूतविभावन
।
कृतकार्य
कृतप्रज्ञ
धर्मज्ञ
विजयावह
॥
54
॥
गुह्यात्मन्
सर्वयोगात्मन्
स्फुट
संभूत
संभव
।
भूताद्य
लोकतत्त्वेश
जय
भूतविभावन
॥
55
॥
आत्मयोने
महाभाग
कल्पसंक्षेपतत्पर
।
उद्भावनमनोभाव
जय
ब्रह्मजनप्रिय
॥
56
॥
निसर्गसर्गनिरत
कामेश
परमेश्वर
।
अमृतोद्भव
सद्भाव
मुक्तात्मन्
विजयप्रद
॥
57
॥
प्रजापतिपते
देव
पद्मनाभ
महाबल
।
आत्मभूत
महाभूत
सत्वात्मन्
जय
सर्वदा
॥
58
॥
पादौ
तव
धरा
देवी
दिशो
बाहु
दिवं
शिरः
।
मूर्तिस्तेऽहं
सुराः
कायश्चंद्रादित्यौ
च
चक्षुषी
॥
59
॥
बलं
तपश्च
सत्यं
च
कर्म
धर्मात्मजं
तव
।
तेजोऽग्निः
पवनः
श्वास
आपस्ते
स्वेदसंभवाः
॥
60
॥
अश्विनौ
श्रवणौ
नित्यं
देवी
जिह्वा
सरस्वती
।
वेदाः
संस्कारनिष्ठा
हि
त्वयीदं
जगदाश्रितम्
॥
61
॥
न
संख्या
न
परीमाणं
न
तेजो
न
पराक्रमम्
।
न
बलं
योगयोगीश
जानीमस्ते
न
संभवम्
॥
62
॥
त्वद्भक्तिनिरता
देव
नियमैस्त्वां
समाश्रिताः
।
अर्चयामः
सदा
विष्णो
परमेशं
महेश्वरम्
॥
63
॥
ऋषयो
देवगंधर्वा
यक्षराक्षसपन्नगाः
।
पिशाचा
मानुषाश्चैव
मृगपक्षिसरीसृपाः
॥
64
॥
एवमादि
मया
सृष्टं
पृथिव्यां
त्वत्प्रसादजम्
।
पद्मनाभ
विशालाक्ष
कृष्ण
दुःखप्रणाशन
॥
65
॥
त्वं
गतिः
सर्वभूतानां
त्वं
नेता
त्वं
जगद्गुरुः
।
त्वत्प्रसादेन
देवेश
सुखिनो
विबुधाः
सदा
॥
66
॥
पृथिवी
निर्भया
देव
त्वत्प्रसादात्सदाऽभवत्
।
तस्माद्भव
विशालाक्ष
यदुवंशविवर्धनः
॥
67
॥
धर्मसंस्थापनार्थाय
दैत्यानां
च
वधाय
च
।
जगतो
धारणार्थाय
विज्ञाप्यं
कुरु
मे
प्रभो
॥
68
॥
यत्तत्परमकं
गुह्यं
त्वत्प्रसादादिदं
विभो
।
वासुदेव
तदेतत्ते
मयोद्गीतं
यथातथम्
॥
69
॥
सृष्ट्वा
संकर्षणं
देवं
स्वयमात्मानमात्मना
।
कृष्ण
त्वमात्मनो
साक्षी
प्रद्युम्नं
चात्मसंभवम्
॥
70
॥
प्रद्युम्नादनिरुद्धं
त्वं
यं
विदुर्विष्णुमव्ययम्
।
अनिरुद्धोऽसृजन्मां
वै
ब्रह्माणं
लोकधारिणम्
॥
71
॥
वासुदेवमयः
सोऽहं
त्वयैवास्मि
विनिर्मितः
।
[तस्माद्याचामि
लोकेश
चतुरात्मानमात्मना
।
]
विभज्य
भागशोऽऽत्मानं
व्रज
मानुषतां
विभो
॥
72
॥
तत्रासुरवधं
कृत्वा
सर्वलोकसुखाय
वै
।
धर्मं
प्राप्य
यशः
प्राप्य
योगं
प्राप्स्यसि
तत्त्वतः
॥
73
॥
त्वां
हि
ब्रह्मर्षयो
लोके
देवाश्चामितविक्रम
।
तैस्तैर्हि
नामभिर्युक्ता
गायंति
परमात्मकम्
॥
74
॥
स्थिताश्च
सर्वे
त्वयि
भूतसंघाः
कृत्वाश्रयं
त्वां
वरदं
सुबाहो
।
अनादिमध्यांतमपारयोगं
लोकस्य
सेतुं
प्रवदंति
विप्राः
॥
75
॥
इति
श्रीमहाभारते
भीष्मपर्वणि
पंचषष्टितमोऽध्याये
वासुदेव
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits