Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

श्री रंगनाथ अष्टोत्तर शत नामावलिः

ओं श्रीरंगशायिने नमः ।
ओं श्रीकांताय नमः ।
ओं श्रीप्रदाय नमः ।
ओं श्रितवत्सलाय नमः ।
ओं अनंताय नमः ।
ओं माधवाय नमः ।
ओं जेत्रे नमः ।
ओं जगन्नाथाय नमः ।
ओं जगद्गुरवे नमः ।
ओं सुरवर्याय नमः । 10
ओं सुराराध्याय नमः ।
ओं सुरराजानुजाय नमः ।
ओं प्रभवे नमः ।
ओं हरये नमः ।
ओं हतारये नमः ।
ओं विश्वेशाय नमः ।
ओं शाश्वताय नमः ।
ओं शंभवे नमः ।
ओं अव्ययाय नमः ।
ओं भक्तार्तिभंजनाय नमः । 20
ओं वाग्मिने नमः ।
ओं वीराय नमः ।
ओं विख्यातकीर्तिमते नमः ।
ओं भास्कराय नमः ।
ओं शास्त्रतत्त्वज्ञाय नमः ।
ओं दैत्यशास्त्रे नमः ।
ओं अमरेश्वराय नमः ।
ओं नारायणाय नमः ।
ओं नरहरये नमः ।
ओं नीरजाक्षाय नमः । 30
ओं नरप्रियाय नमः ।
ओं ब्रह्मण्याय नमः ।
ओं ब्रह्मकृते नमः ।
ओं ब्रह्मणे नमः ।
ओं ब्रह्मांगाय नमः ।
ओं ब्रह्मपूजिताय नमः ।
ओं कृष्णाय नमः ।
ओं कृतज्ञाय नमः ।
ओं गोविंदाय नमः ।
ओं हृषीकेशाय नमः । 40
ओं अघनाशनाय नमः ।
ओं विष्णवे नमः ।
ओं जिष्णवे नमः ।
ओं जितारातये नमः ।
ओं सज्जनप्रियाय नमः ।
ओं ईश्वराय नमः ।
ओं त्रिविक्रमाय नमः ।
ओं त्रिलोकेशाय नमः ।
ओं त्रय्यर्थाय नमः ।
ओं त्रिगुणात्मकाय नमः । 50
ओं काकुत्स्थाय नमः ।
ओं कमलाकांताय नमः ।
ओं कालीयोरगमर्दनाय नमः ।
ओं कालांबुदश्यामलांगाय नमः ।
ओं केशवाय नमः ।
ओं क्लेशनाशनाय नमः ।
ओं केशिप्रभंजनाय नमः ।
ओं कांताय नमः ।
ओं नंदसूनवे नमः ।
ओं अरिंदमाय नमः । 60
ओं रुक्मिणीवल्लभाय नमः ।
ओं शौरये नमः ।
ओं बलभद्राय नमः ।
ओं बलानुजाय नमः ।
ओं दामोदराय नमः ।
ओं हृषीकेशाय नमः ।
ओं वामनाय नमः ।
ओं मधुसूदनाय नमः ।
ओं पूताय नमः ।
ओं पुण्यजनध्वंसिने नमः । 70
ओं पुण्यश्लोकशिखामणये नमः ।
ओं आदिमूर्तये नमः ।
ओं दयामूर्तये नमः ।
ओं शांतमूर्तये नमः ।
ओं अमूर्तिमते नमः ।
ओं परस्मै ब्रह्मणे नमः ।
ओं परस्मै धाम्ने नमः ।
ओं पावनाय नमः ।
ओं पवनाय नमः ।
ओं विभवे नमः । 80
ओं चंद्राय नमः ।
ओं छंदोमयाय नमः ।
ओं रामाय नमः ।
ओं संसारांबुधितारकाय नमः ।
ओं आदितेयाय नमः ।
ओं अच्युताय नमः ।
ओं भानवे नमः ।
ओं शंकराय नमः ।
ओं शिवाय नमः ।
ओं ऊर्जिताय नमः । 90
ओं महेश्वराय नमः ।
ओं महायोगिने नमः ।
ओं महाशक्तये नमः ।
ओं महत्प्रियाय नमः ।
ओं दुर्जनध्वंसकाय नमः ।
ओं अशेषसज्जनोपास्तसत्फलाय नमः ।
ओं पक्षींद्रवाहनाय नमः ।
ओं अक्षोभ्याय नमः ।
ओं क्षीराब्धिशयनाय नमः ।
ओं विधवे नमः । 100
ओं जनार्दनाय नमः ।
ओं जगद्धेतवे नमः ।
ओं जितमन्मथविग्रहाय नमः ।
ओं चक्रपाणये नमः ।
ओं शंखधारिणे नमः ।
ओं शारंगिणे नमः ।
ओं खड्गिने नमः ।
ओं गदाधराय नमः । 108

Recite with devotion and pure heart

Regular practice brings spiritual benefits