हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री हरि वायु स्तुति
अथ
नखस्तुतिः
–
पांत्वस्मान्
पुरुहूतवैरिबलवन्मातंगमाद्यद्घटा-
-कुंभोच्चाद्रिविपाटनाधिकपटु
प्रत्येक
वज्रायिताः
।
श्रीमत्कंठीरवास्यप्रततसुनखरा
दारितारातिदूर-
-प्रध्वस्तध्वांतशांतप्रविततमनसा
भाविता
भूरिभागैः
॥
1
॥
लक्ष्मीकांत
समंततोऽपि
कलयन्
नैवेशितुस्ते
समं
पश्याम्युत्तमवस्तु
दूरतरतोपास्तं
रसो
योऽष्टमः
।
यद्रोषोत्कर
दक्ष
नेत्र
कुटिल
प्रांतोत्थिताग्नि
स्फुरत्
खद्योतोपम
विस्फुलिंगभसिता
ब्रह्मेशशक्रोत्कराः
॥
2
॥
अथ
वायुस्तुतिः
–
श्रीमद्विष्ण्वंघ्रिनिष्ठातिगुणगुरुतमश्रीमदानंदतीर्थ-
-त्रैलोक्याचार्यपादोज्ज्वलजलजलसत्पांसवोऽस्मान्
पुनंतु
।
वाचां
यत्र
प्रणेत्री
त्रिभुवनमहिता
शारदा
शारदेंदु-
-ज्योत्स्नाभद्रस्मितश्रीधवलितककुभा
प्रेमभारं
बभार
॥
1
॥
उत्कंठाकुंठकोलाहलजवविजिताजस्रसेवानुवृद्ध-
-प्राज्ञात्मज्ञानधूतांधतमससुमनोमौलिरत्नावलीनाम्
।
भक्त्युद्रेकावगाढप्रघटनसधटात्कारसंघृष्यमाण-
प्रांतप्राग्र्यांघ्रिपीठोत्थितकनकरजःपिंजरारंजिताशाः
॥
2
॥
जन्माधिव्याध्युपाधिप्रतिहतिविरहप्रापकाणां
गुणानां
अग्र्याणामर्पकाणां
चिरमुदितचिदानंदसंदोहदानाम्
।
एतेषामेष
दोषप्रमुषितमनसां
द्वेषिणां
दूषकाणां
दैत्यानामार्तिमंधे
तमसि
विदधतां
संस्तवे
नास्मि
शक्तः
॥
3
॥
अस्याविष्कर्तुकामं
कलिमलकलुषेऽस्मिन्
जने
ज्ञानमार्गं
वंद्यं
चंद्रेंद्ररुद्रद्युमणिफणिवयोनायकाद्यैरिहाद्य
।
मध्वाख्यं
मंत्रसिद्धं
किमुत
कृतवतो
मारुतस्यावतारं
पातारं
पारमेष्ट्यं
पदमपविपदः
प्राप्तुरापन्नपुंसाम्
॥
4
॥
उद्यद्विद्युत्प्रचंडां
निजरुचिनिकरव्याप्तलोकावकाशो
बिभ्रद्भीमो
भुजे
योऽभ्युदितदिनकराभांगदाढ्य
प्रकांडे
।
वीर्योद्धार्यां
गदाग्र्यामयमिह
सुमतिं
वायुदेवो
विदध्यात्
अध्यात्मज्ञाननेता
यतिवरमहितो
भूमिभूषामणिर्मे
॥
5
॥
संसारोत्तापनित्योपशमदसदयस्नेहहासांबुपूर-
-प्रोद्यद्विद्यानवद्यद्युतिमणिकिरणश्रेणिसंपूरिताशः
।
श्रीवत्सांकाधिवासोचिततरसरलश्रीमदानंदतीर्थ-
-क्षीरांभोधिर्विभिंद्याद्भवदनभिमतं
भूरि
मे
भूतिहेतुः
॥
6
॥
मूर्धन्येषोऽंजलिर्मे
दृढतरमिह
ते
बध्यते
बंधपाश-
-च्छेत्रे
दात्रे
सुखानां
भजति
भुवि
भविष्यद्विधात्रे
द्युभर्त्रे
।
अत्यंतं
संततं
त्वं
प्रदिश
पदयुगे
हंत
संतापभाजा-
-मस्माकं
भक्तिमेकां
भगवत
उत
ते
माधवस्याथ
वायोः
॥
7
॥
साभ्रोष्णाभीशुशुभ्रप्रभमभय
नभो
भूरिभूभृद्विभूति-
-भ्राजिष्णुर्भूरृभूणां
भवनमपि
विभोऽभेदि
बभ्रे
बभूवे
।
येन
भ्रूविभ्रमस्ते
भ्रमयतु
सुभृशं
बभ्रुवद्दुर्भृताशान्
भ्रांतिर्भेदावभासस्त्विति
भयमभिभूर्भोक्ष्यतो
मायिभिक्षून्
॥
8
॥
येऽमुं
भावं
भजंते
सुरमुखसुजनाराधितं
ते
तृतीयं
भासंते
भासुरैस्ते
सहचरचलितैश्चामरैश्चारुवेषाः
।
वैकुंठे
कंठलग्नस्थिरशुचिविलसत्कांतितारुण्यलीला-
लावण्यापूर्णकांताकुचभरसुलभाश्लेषसम्मोदसांद्राः
॥
9
॥
आनंदान्मंदमंदा
ददति
हि
मरुतः
कुंदमंदारनंद्या-
-वर्तामोदान्
दधाना
मृदुपदमुदितोद्गीतकैः
सुंदरीणाम्
।
वृंदैरावंद्यमुक्तेंद्वहिमगुमदनाहींद्रदेवेंद्रसेव्ये
मौकुंदे
मंदिरेऽस्मिन्नविरतमुदयन्मोदिनां
देवदेव
॥
10
॥
उत्तप्ताऽत्युत्कटत्विट्
प्रकटकटकटध्वानसंघट्टनोद्य-
-द्विद्युद्व्यूढस्फुलिंगप्रकरविकिरणोत्क्वाथिते
बाधितांगान्
।
उद्गाढं
पात्यमाना
तमसि
तत
इतः
किंकरैः
पंकिले
ते
पंक्तिर्ग्राव्णां
गरिम्णा
ग्लपयति
हि
भवद्वेषिणो
विद्वदाद्य
॥
11
॥
अस्मिन्नस्मद्गुरूणां
हरिचरणचिरध्यानसन्मंगलानां
युष्माकं
पार्श्वभूमिं
धृतरणरणिकस्वर्गिसेव्यां
प्रपन्नः
।
यस्तूदास्ते
स
आस्तेऽधिभवमसुलभक्लेशनिर्मूकमस्त-
-प्रायानंदं
कथंचिन्न
वसति
सततं
पंचकष्टेऽतिकष्टे
॥
12
॥
क्षुत्
क्षामान्
रूक्षरक्षोरदखरनखरक्षुण्णविक्षोभिताक्षा-
-नामग्नानांधकूपे
क्षुरमुखमुखरैः
पक्षिभिर्विक्षतांगान्
।
पूयासृङ्मूत्रविष्ठाकृमिकुलकलिले
तत्क्षणक्षिप्तशक्त्या-
-द्यस्त्रव्रातार्दितांस्त्वद्द्विष
उपजिहते
वज्रकल्पा
जलूकाः
॥
13
॥
मातर्मे
मातरिश्वन्
पितरतुलगुरो
भ्रातरिष्टाप्तबंधो
स्वामिन्
सर्वांतरात्मन्नजर
जरयितर्जन्ममृत्यामयानाम्
।
गोविंदे
देहि
भक्तिं
भवति
च
भगवन्नूर्जितां
निर्निमित्तां
निर्व्याजां
निश्चलां
सद्गुणगणबृहतीं
शाश्वतीमाशु
देव
॥
14
॥
विष्णोरत्त्युत्तमत्वादखिलगुणगणैस्तत्र
भक्तिं
गरिष्ठां
आश्लिष्टे
श्रीधराभ्याममुमथ
परिवारात्मना
सेवकेषु
।
यः
संधत्ते
विरिंचश्वसनविहगपानंतरुद्रेंद्रपूर्वे-
-ष्वाध्यायंस्तारतम्यं
स्फुटमवति
सदा
वायुरस्मद्गुरुस्तम्
॥
15
॥
तत्त्वज्ञान्
मुक्तिभाजः
सुखयिसि
हि
गुरो
योग्यतातारतम्या-
-दाधत्से
मिश्रबुद्धिंस्त्रिदिवनिरयभूगोचरान्
नित्यबद्धान्
।
तामिस्रांधादिकाख्ये
तमसि
सुबहुलं
दुःखयस्यन्यथाज्ञान्
विष्णोराज्ञाभिरित्थं
शृतिशतमितिहासादि
चाकर्णयामः
॥
16
॥
वंदेऽहं
तं
हनूमानिति
महितमहापौरुषो
बाहुशाली
ख्यातस्तेऽग्र्योऽवतारः
सहित
इह
बहुब्रह्मचर्यादिधर्मैः
।
सस्नेहानां
सहस्वानहरहरहितं
निर्दहन्
देहभाजां
अंहोमोहापहो
यः
स्पृहयति
महतीं
भक्तिमद्यापि
रामे
॥
17
॥
प्राक्पंचाशत्सहस्रैर्व्यवहितमहितं
योजनैः
पर्वतं
त्वं
यावत्संजीवनाद्यौषधनिधिमधिकप्राण
लंकामनैषिः
।
अद्राक्षीदुत्पतंतं
तत
उत
गिरिमुत्पाटयंतं
गृहीत्वा
यांतं
खे
राघवांघ्रौ
प्रणतमपि
तदैकक्षणे
त्वां
हि
लोकः
॥
18
॥
क्षिप्तः
पश्चात्सत्सलीलं
शतमतुलमते
योजनानां
स
उच्च-
-स्तावद्विस्तारवंश्चाप्युपललव
इव
व्यग्रबुद्ध्या
त्वयाऽतः
।
स्वस्वस्थानस्थितातिस्थिरशकलशिलाजालसंश्लेषनष्ट-
-छ्छेदांकः
प्रागिवाभूत्
कपिवरवपुषस्ते
नमः
कौशलाय
॥
19
॥
दृष्ट्वा
दुष्टाधिपोरः
स्फुटितकनकसद्वर्म
घृष्टास्थिकूटं
निष्पिष्टं
हाटकाद्रिप्रकटतटतटाकातिशंको
जनोऽभूत्
।
येनाऽजौ
रावणारिप्रियनटनपटुर्मुष्टिरिष्टं
प्रदेष्टुं
किं
नेष्टे
मे
स
तेऽष्टापदकटकतटित्कोटिभामृष्टकाष्ठः
॥
20
॥
देव्यादेशप्रणीतिदृहिणहरवरावध्यरक्षोविघाता-
-द्यासेवोद्यद्दयार्द्रः
सहभुजमकरोद्रामनामा
मुकुंदः
।
दुष्प्रापे
पारमेष्ठ्ये
करतलमतुलं
मूर्धिविन्यस्य
धन्यं
तन्वन्भूयः
प्रभूतप्रणयविकसिताब्जेक्षणस्त्वेक्षमाणः
॥
21
॥
जघ्ने
निघ्नेन
विघ्नो
बहुलबलबकध्वंसनाद्येन
शोच-
-द्विप्रानुक्रोशपाशैरसुविधृतिसुखस्यैकचक्राजनानाम्
।
तस्मै
ते
देव
कुर्मः
कुरुकुलपतये
कर्मणा
च
प्रणामान्
किर्मीरं
दुर्मतीनां
प्रथममथ
च
यो
नर्मणा
निर्ममाथ
॥
22
॥
निर्मृद्नन्नत्ययत्नं
विजरवर
जरासंधकायास्थिसंधीन्
युद्धे
त्वं
स्वध्वरे
वा
पशुमिव
दमयन्
विष्णुपक्षद्विडीशम्
।
यावत्प्रत्यक्षभूतं
निखिलमखभुजं
तर्पयामासिथासौ
तावत्याऽयोजि
तृप्त्या
किमु
वद
भगवन्
राजसूयाश्वमेधे
॥
23
॥
क्ष्वेलाक्षीणाट्टहासं
तव
रणमरिहन्नुद्गदोद्दामबाहोः
बह्वक्षौहिण्यनीकक्षपणसुनिपुणं
यस्य
सर्वोत्तमस्य
।
शुश्रूषार्थं
चकर्थ
स्वयमयमथ
संवक्तुमानंदतीर्थ-
-श्रीमन्नामन्समर्थस्त्वमपि
हि
युवयोः
पादपद्मं
प्रपद्ये
॥
24
॥
दृह्यंतीं
हृदृहं
मां
दृतमनिल
बलाद्द्रावयंतीमविद्या-
-निद्रां
विद्राव्य
सद्योरचनपटुमथाऽपाद्य
विद्यासमुद्र
।
वाग्देवी
सा
सुविद्याद्रविणद
विदिता
द्रौपदी
रुद्रपत्न्या-
-दुद्रिक्ता
द्रागभद्राद्रहयतु
दयिता
पूर्वभीमाऽज्ञया
ते
॥
25
॥
याभ्यां
शुश्रूषुरासीः
कुरुकुलजनने
क्षत्रविप्रोदिताभ्यां
ब्रह्मभ्यां
बृंहिताभ्यां
चितसुखवपुषा
कृष्णनामास्पदाभ्याम्
।
निर्भेदाभ्यां
विशेषाद्विवचनविषयाभ्याममूभ्यामुभाभ्यां
तुभ्यं
च
क्षेमदेभ्यः
सरिसिजविलसल्लोचनेभ्यो
नमोऽस्तु
॥
26
॥
गच्छन्
सौगंधिकार्थं
पथि
स
हनुमतः
पुच्छमच्छस्य
भीमः
प्रोद्धर्तुं
नाशकत्स
त्वमुमुरुवपुषा
भीषयामास
चेति
।
पूर्णज्ञानौजसोस्ते
गुरुतम
वपुषोः
श्रीमदानंदतीर्थ
क्रीडामात्रं
तदेतत्
प्रमदद
सुधियां
मोहक
द्वेषभाजाम्
॥
27
॥
बह्वीः
कोटीरटीकः
कुटलकटुमतीनुत्कटाटोपकोपान्
द्राक्च
त्वं
सत्वरत्वाच्चरणद
गदया
पोथयामासिथारीन्
।
उन्मथ्यातथ्यमिथ्यात्ववचनवचनानुत्पथस्थांस्तथाऽन्यान्
प्रायच्छः
स्वप्रियायै
प्रियतमकुसुमं
प्राण
तस्मै
नमस्ते
॥
28
॥
देहादुत्क्रामितानामधिपतिरसतामक्रमाद्वक्रबुद्धिः
क्रुद्धः
क्रोधैकवश्यः
क्रिमिरिव
मणिमान्
दुष्कृती
निष्क्रियार्थम्
।
चक्रे
भूचक्रमेत्य
क्रकचमिव
सतां
चेतसः
कष्टशास्त्रं
दुस्तर्कं
चक्रपाणेर्गुणगणविरहं
जीवतां
चाधिकृत्य
॥
29
॥
तद्दुष्प्रेक्षानुसारात्कतिपयकुनरैरादृतोऽन्यैर्विसृष्टो
ब्रह्माऽहं
निर्गुणोऽहं
वितथमिदमिति
ह्येष
पाषंडवादः
।
तद्युक्त्याभासजालप्रसरविषतरूद्दाहदक्षप्रमाण-
-ज्वालामालाधराग्निः
पवन
विजयते
तेऽवतारस्तृतीयः
॥
30
॥
आक्रोशंतो
निराशा
भयभरविवशस्वाशयाश्छिन्नदर्पा
वाशंतो
देशनाशस्विति
बत
कुधियां
नाशमाशादशाऽशु
।
धावंतोऽश्लीलशीला
वितथशपथशापाशिवाः
शांतशौर्या-
-स्त्वद्व्याख्यासिंहनादे
सपदि
ददृशिरे
मायिगोमायवस्ते
॥
31
॥
त्रिष्वप्येवावतारेष्वरिभिरपघृणं
हिंसितो
निर्विकारः
सर्वज्ञः
सर्वशक्तिः
सकलगुणगणापूर्णरूपप्रगल्भः
।
स्वच्छः
स्वच्छंदमृत्युः
सुखयसि
सुजनं
देव
किं
चित्रमत्र
त्राता
यस्य
त्रिधामा
जगदुत
वशगं
किंकराः
शंकराद्याः
॥
32
॥
उद्यन्मंदस्मितश्रीमृदु
मधुमधुरालापपीयूषधारा-
-पूरासेकोपशांतासुखसुजनमनोलोचनापीयमानम्
।
संद्रक्ष्ये
सुंदरं
संदुहदिह
महदानंदमानंदतीर्थ
श्रीमद्वक्त्रेंदुबिंबं
दुरतनुदुदितं
नित्यदाऽहं
कदा
नु
॥
33
॥
प्राचीनाचीर्णपुण्योच्चयचतुरतराचारतश्चारुचित्ता-
-नत्युच्चां
रोचयंतीं
श्रुतिचितवचनां
श्रावकांश्चोद्यचुंचून्
।
व्याख्यामुत्खातदुःखां
चिरमुचितमहाचार्य
चिंतारतांस्ते
चित्रां
सच्छास्त्रकर्ताश्चरणपरिचरांछ्रावयास्मांश्च
किंचित्
॥
34
॥
पीठे
रत्नोकपक्लृप्ते
रुचिररुचिमणिज्योतिषा
सन्निषण्णं
ब्रह्माणं
भाविनं
त्वां
ज्वलति
निजपदे
वैदिकाद्या
हि
विद्याः
।
सेवंते
मूर्तिमत्यः
सुचरित
चरितं
भाति
गंधर्व
गीतं
प्रत्येकं
देवसंसत्स्वपि
तव
भगवन्नर्तितद्योवधूषु
॥
35
॥
सानुक्रोशैरजस्रं
जनिमृतिनिरयाद्यूर्मिमालाविलेऽस्मिन्
संसाराब्धौ
निमग्नान्
शरणमशरणानिच्छतो
वीक्ष्य
जंतून्
।
युष्माभिः
प्रार्थितः
सन्
जलनिधिशयनः
सत्यवत्यां
महर्षे-
-र्व्यक्तश्चिन्मात्रमूर्तिर्न
खलु
भगवतः
प्राकृतो
जातु
देहः
॥
36
॥
अस्तव्यस्तं
समस्तश्रुतिगतमधमै
रत्नपूगं
यथाऽंधै-
-रर्थं
लोकोपकृत्यै
गुणगणनिलयः
सूत्रयामास
कृत्स्नम्
।
योऽसौ
व्यासाभिधानस्तमहमहरहर्भक्तितस्त्वत्प्रसादात्
सद्यो
विद्योपलब्ध्यै
गुरुतममगुरुं
देवदेवं
नमामि
॥
37
॥
आज्ञामन्यैरधार्यां
शिरसि
परिसरद्रश्मिकोटीरकोटौ
कृष्णस्याक्लिष्टकर्मा
दधदनुसराणादर्थितो
देवसंघैः
।
भूमावागत्य
भूमन्नसुकरमकरोर्ब्रह्मसूत्रस्य
भाष्यं
दुर्भाष्यं
व्यस्य
दस्योर्मणिमत
उदितं
वेदसद्युक्तिभिस्त्वम्
॥
38
॥
भूत्वा
क्षेत्रे
विशुद्धे
द्विजगणनिलये
रौप्यपीठाभिधाने
तत्रापि
ब्रह्मजातिस्त्रिभुवनविशदे
मध्यगेहाख्यगेहे
।
पारिव्राज्याधिराजः
पुनरपि
बदरीं
प्राप्य
कृष्णं
च
नत्वा
कृत्वा
भाष्याणि
सम्यग्
व्यतनुत
च
भवान्
भारतार्थप्रकाशम्
॥
39
॥
वंदे
तं
त्वां
सुपूर्णप्रमतिमनुदिनासेवितं
देववृंदैः
वंदे
वंदारुमीशे
श्रिय
उत
नियतं
श्रीमदानंदतीर्थम्
।
वंदे
मंदाकिनीसत्सरिदमलजलासेकसाधिक्यसंगं
वंदेऽहं
देव
भक्त्या
भवभयदहनं
सज्जनान्मोदयंतम्
॥
40
॥
सुब्रह्मण्याख्यसूरेः
सुत
इति
सुभृशं
केशवानंदतीर्थ-
श्रीमत्पादाब्जभक्तः
स्तुतिमकृत
हरेर्वायुदेवस्य
चास्य
।
तत्पादार्चादरेण
ग्रथितपदलसन्मालया
त्वेतया
ये
संराध्यामू
नमंति
प्रततमतिगुणा
मुक्तिमेते
व्रजंति
॥
41
॥
अथ
श्रीनखस्तुतिः
–
पांत्वस्मान्
पुरुहूतवैरिबलवन्मातंगमाद्यद्घटा
कुंभोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः
।
श्रीमत्कंठीरवास्य
प्रतत
सुनखरा
दारितारातिदूर-
प्रध्वस्तध्वांतशांतप्रविततमनसा
भाविता
नाकिवृंदैः
॥
1
॥
लक्ष्मीकांत
समंततोऽविकलयन्
नैवेशितुस्ते
समं
पश्याम्युत्तमवस्तु
दूरतरतोऽपास्तं
रसो
योऽष्टमः
।
यद्रोषोत्करदक्षनेत्रकुटिलप्रांतोत्थिताग्निस्फुरत्
खद्योतोपमविस्फुलिंगभसिता
ब्रह्मेशशक्रोत्कराः
॥
2
॥
इति
श्रीत्रिविक्रमपंडिताचार्य
विरचिता
वायुस्तुतिः
समाप्ता
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits