Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

श्री हर्यष्टकम्

हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावकः 1 गंगा गया सेतुः काशी पुष्करम् जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् 2 वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव यत्कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम् 3 पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम् 4 गवां कोटिसहस्राणि हेमकन्यासहस्रकम् दत्तं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् 5 ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः अधीतस्तेन येनोक्तं हरिरित्यक्षरद्वयम् 6 अश्वमेधैर्महायज्ञैर्नरमेधैस्तथैव इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् 7 प्राणः प्रयाण पाथेयं संसारव्याधिनाशनम् दुःखात्यंत परित्राणं हरिरित्यक्षरद्वयम् 8 बद्धः परिकरस्तेन मोक्षाय गमनं प्रति सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् 9 हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् आयुष्यं बलमारोग्यं यशो वृद्धिः श्रियावहम् 10 प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम् यः पठेत्स नरो याति तद्विष्णोः परमं पदम् 11 इति प्रह्लादकृत श्री हर्यष्टकम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits