Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

पुरुषोत्तम सहस्र नाम स्तोत्रम्

विनियोगः पुराणपुरुषो विष्णुः पुरुषोत्तम उच्यते नाम्नां सहस्रं वक्ष्यामि तस्य भागवतोद्धृतम् 1 यस्य प्रसादाद्वागीशाः प्रजेशा विभवोन्नताः क्षुद्रा अपि भवंत्याशु श्रीकृष्णं तं नतोऽस्म्यहम् 2 अनंता एव कृष्णस्य लीला नामप्रवर्तिकाः उक्ता भागवते गूहाः प्रकटा अपि कुत्रचित् 3 अतस्तानि प्रवक्ष्यामि नामानि मुरवैरिणः सहस्रं यैस्तु पठितैः पठितं स्याच्छुकामृतम् 4 कृष्णनामसहस्रस्य ऋषिरग्निर्निरूपितः गायत्री तथा छंदो देवता पुरुषोत्तमः 5 विनियोगः समस्तेषु पुरुषार्थेषु वै मतः बीजं भक्तप्रियः शक्तिः सत्यवागुच्यते हरिः 6 भक्तोद्धरणयत्नस्तु मंत्रोऽत्र परमो मतः अवतारितभक्तांशः कीलकं परिकीर्तितम् 7 अस्त्रं सर्वसमर्थश्च गोविंदः कवचं मतम् पुरुषो ध्यानमत्रोक्तः सिद्धिः शरणसंस्मृतिः 8 अधिकारलीला श्रीकृष्णः सच्चिदानंदो नित्यलीलाविनोदकृत् सर्वागमविनोदी लक्ष्मीशः पुरुषोत्तमः 9 आदिकालः सर्वकालः कालात्मा माययावृतः भक्तोद्धारप्रयत्नात्मा जगत्कर्ता जगन्मयः 10 नामलीलापरो विष्णुर्व्यासात्मा शुकमोक्षदः व्यापिवैकुंठदाता श्रीमद्भागवतागमः 11 शुकवागमृताब्धींदुः शौनकाद्यखिलेष्टदः भक्तिप्रवर्तकस्त्राता व्यासचिंताविनाशकः 12 सर्वसिद्धांतवागात्मा नारदाद्यखिलेष्टदः अंतरात्मा ध्यानगम्यो भक्तिरत्नप्रदायकः 13 मुक्तोपसृप्यः पूर्णात्मा मुक्तानां रतिवर्धनः भक्तकार्यैकनिरतो द्रौण्यस्त्रविनिवारकः 14 भक्तस्मयप्रणेता भक्तवाक्परिपालकः ब्रह्मण्यदेवो धर्मात्मा भक्तानां परीक्षकः 15 आसन्नहितकर्ता मायाहितकरः प्रभुः उत्तराप्राणदाता ब्रह्मास्त्रविनिवारकः 16 सर्वतः पाणवपतिः परीक्षिच्छुद्धिकारणम् गूहात्मा सर्ववेदेषु भक्तैकहृदयंगमः 17 कुंतीस्तुत्यः प्रसन्नात्मा परमाद्भुतकार्यकृत् भीष्ममुक्तिप्रदः स्वामी भक्तमोहनिवारकः 18 सर्वावस्थासु संसेव्यः समः सुखहितप्रदः कृतकृत्यः सर्वसाक्षी भक्तस्त्रीरतिवर्धनः 19 सर्वसौभाग्यनिलयः परमाश्चर्यरूपधृक् अनन्यपुरुषस्वामी द्वारकाभाग्यभाजनम् 20 बीजसंस्कारकर्ता परीक्षिज्जानपोषकः सर्वत्रपूर्णगुणकः सर्वभूषणभूषितः 21 सर्वलक्षणदाता धृतराष्ट्रविमुक्तिदः सन्मार्गरक्षको नित्यं विदुरप्रीतिपूरकः 22 लीलाव्यामोहकर्ता कालधर्मप्रवर्तकः पाणवानां मोक्षदाता परीक्षिद्भाग्यवर्धनः 23 कलिनिग्रहकर्ता धर्मादीनां पोषकः सत्संगजानहेतुश्च श्रीभागवतकारणम् 24 प्राकृतादृष्टमार्गश्च चोंतिनुएद् ज्ञान-साधन-लीला श्रोतव्यः सकलागमैः कीर्तितव्यः शुद्धभावैः स्मर्तव्यश्चात्मवित्तमैः 25 अनेकमार्गकर्ता नानाविधगतिप्रदः पुरुषः सकलाधारः सत्त्वैकनिलयात्मभूः 26 सर्वध्येयो योगगम्यो भक्त्या ग्राह्यः सुरप्रियः जन्मादिसार्थककृतिर्लीलाकर्ता पतिः सताम् 27 आदिकर्ता तत्त्वकर्ता सर्वकर्ता विशारदः नानावतारकर्ता ब्रह्माविर्भावकारणम् 28 दशलीलाविनोदी नानासृष्टिप्रवर्तकः अनेककल्पकर्ता सर्वदोषविवर्जितः 29 सर्गलीला वैराग्यहेतुस्तीर्थात्मा सर्वतीर्थफलप्रदः तीर्थशुद्धैकनिलयः स्वमार्गपरिपोषकः 30 तीर्थकीर्तिर्भक्तगम्यो भक्तानुशयकार्यकृत् भक्ततुल्यः सर्वतुल्यः स्वेच्छासर्वप्रवर्तकः 31 गुणातीतोऽनवद्यात्मा सर्गलीलाप्रवर्तकः साक्षात्सर्वजगत्कर्ता महदादिप्रवर्तकः 32 मायाप्रवर्तकः साक्षी मायारतिविवर्धनः आकाशात्मा चतुर्मूर्तिश्चतुर्धा भूतभावनः 33 रजःप्रवर्तको ब्रह्मा मरीच्यादिपितामहः वेदकर्ता यज्ञकर्ता सर्वकर्ताऽमितात्मकः 34 अनेकसृष्टिकर्ता दशधासृष्टिकारकः यज्ञांगो यज्ञवाराहो भूधरो भूमिपालकः 35 सेतुर्विधरणो जैत्रो हिरण्याक्षांतकः सुरः दितिकश्यपकामैकहेतुसृष्टिप्रवर्तकः 36 देवाभयप्रदाता वैकुंठाधिपतिर्महान् सर्वगर्वप्रहारी सनकाद्यखिलार्थदः 37 सर्वाश्वासनकर्ता भक्ततुल्याहवप्रदः काललक्षणहेतुश्च सर्वार्थज्ञापकः परः 38 भक्तोन्नतिकरः सर्वप्रकारसुखदायकः नानायुद्धप्रहरणो ब्रह्मशापविमोचकः 39 पुष्टिसर्गप्रणेता गुणसृष्टिप्रवर्तकः कर्दमेष्टप्रदाता देवहूत्यखिलार्थदः 40 शुक्लनारायणः सत्यकालधर्मप्रवर्तकः ज्ञानावतारः शांतात्मा कपिलः कालनाशकः 41 त्रिगुणाधिपतिः सांख्यशास्त्रकर्ता विशारदः सर्गदूषणहारी पुष्टिमोक्षप्रवर्तकः 42 लौकिकानंददाता ब्रह्मानंदप्रवर्तकः भक्तिसिद्धांतवक्ता सगुणज्ञानदीपकः 43 आत्मप्रदः पूर्णकामो योगात्मा योगभावितः जीवन्मुक्तिप्रदः श्रीमानन्यभक्तिप्रवर्तकः 44 कालसामर्थ्यदाता कालदोषनिवारकः गर्भोत्तमज्ञानदाता कर्ममार्गनियामकः 45 सर्वमार्गनिराकर्ता भक्तिमार्गैकपोषकः सिद्धिहेतुः सर्वहेतुः सर्वाश्चर्यैककारणम् 46 चेतनाचेतनपतिः समुद्रपरिपूजितः सांख्याचार्यस्तुतः सिद्धपूजितः सर्वपूजितः 47 विसर्गलीला विसर्गकर्ता सर्वेशः कोटिसूर्यसमप्रभः अनंतगुणगंभीरो महापुरुषपूजितः 48 अनंतसुखदाता ब्रह्मकोटिप्रजापतिः सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः 49 समुद्रकोटिगंभीरस्तीर्थकोटिसमाह्वयः सुमेरुकोटिनिष्कंपः कोटिब्रह्मांडविग्रहः 50 कोट्यश्वमेधपापघ्नो वायुकोटिमहाबलः कोटींदुजगदानंदी शिवकोटिप्रसादकृत् 51 सर्वसद्गुणमाहात्म्यः सर्वसद्गुणभाजनम् मन्वादिप्रेरको धर्मो यज्ञनारायणः परः 52 आकूतिसूनुर्देवेंद्रो रुचिजन्माऽभयप्रदः दक्षिणापतिरोजस्वी क्रियाशक्तिः परायणः 53 दत्तात्रेयो योगपतिर्योगमार्गप्रवर्तकः अनसूयागर्भरत्नमृषिवंशविवर्धनः 54 गुणत्रयविभागज्ञश्चतुर्वर्गविशारदः नारायणो धर्मसूनुर्मूर्तिपुण्ययशस्करः 55 सहस्रकवचच्छेदी तपःसारो नरप्रियः विश्वानंदप्रदः कर्मसाक्षी भारतपूजितः 56 अनंताद्भुतमाहात्म्यो बदरीस्थानभूषणम् जितकामो जितक्रोधो जितसंगो जितेंद्रियः 57 उर्वशीप्रभवः स्वर्गसुखदायी स्थितिप्रदः अमानी मानदो गोप्ता भगवच्छास्त्रबोधकः 58 ब्रह्मादिवंद्यो हंसश्रीर्मायावैभवकारणम् विविधानंतसर्गात्मा विश्वपूरणतत्परः 59 यज्ञजीवनहेतुश्च यज्ञस्वामीष्टबोधकः नानासिद्धांतगम्यश्च सप्ततंतुश्च षड्गुणः 60 प्रतिसर्गजगत्कर्ता नानालीलाविशारदः ध्रुवप्रियो ध्रुवस्वामी चिंतिताधिकदायकः 61 दुर्लभानंतफलदो दयानिधिरमित्रहा अंगस्वामी कृपासारो वैन्यो भूमिनियामकः 62 भूमिदोग्धा प्रजाप्राणपालनैकपरायणः यशोदाता ज्ञानदाता सर्वधर्मप्रदर्शकः 63 पुरंजनो जगन्मित्रं विसर्गांतप्रदर्शकः प्रचेतसां पतिश्चित्रभक्तिहेतुर्जनार्दनः 64 स्मृतिहेतुब्रह्मभावसायुज्यादिप्रदः शुभः विजयी चोंतिनुएद् स्थानलीला स्थितिलीलाब्धिरच्युतो विजयप्रदः 65 स्वसामर्थ्यप्रदो भक्तकीर्तिहेतुरधोक्षजः प्रियव्रतप्रियस्वामी स्वेच्छावादविशारदः 66 संग्यगम्यः स्वप्रकाशः सर्वसंगविवर्जितः इच्छायां समर्यादस्त्यागमात्रोपलंभनः 67 अचिंत्यकार्यकर्ता तर्कागोचरकार्यकृत् शऋंगाररसमर्यादा आग्नीध्ररसभाजनम् 68 नाभीष्टपूरकः कर्ममर्यादादर्शनोत्सुकः सर्वरूपोऽद्भुततमो मर्यादापुरुषोत्तमः 69 सर्वरूपेषु सत्यात्मा कालसाक्षी शशिप्रभः मेरुदेवीव्रतफलमृषभो भगलक्षणः 70 जगत्संतर्पको मेघरूपी देवेंद्रदर्पहा जयंतीपतिरत्यंतप्रमाणाशेषलौकिकः 71 शतधान्यस्तभूतात्मा शतानंदो गुणप्रसूः वैष्णवोत्पादनपरः सर्वधर्मोपदेशकः 72 परहंसक्रियागोप्ता योगचर्याप्रदर्शकः चतुर्थाश्रमनिर्णेता सदानंदशरीरवान् 73 प्रदर्शितान्यधर्मश्च भरतस्वाम्यपारकृत् यथावत्कर्मकर्ता संगानिष्टप्रदर्शकः 74 आवश्यकपुनर्जन्मकर्ममार्गप्रदर्शकः यज्ञरूपमृगः शांतः सहिष्णुः सत्पराक्रमः 75 रहूगणगतिज्ञश्च रहूगणविमोचकः भवाटवीतत्त्ववक्ता बहिर्मुखहिते रतः 76 गयस्वामी स्थानवंशकर्ता स्थानविभेदकृत् पुरुषावयवो भूमिविशेषविनिरूपकः 77 जंबूद्वीपपतिर्मेरुनाभिपद्मरुहाश्रयः नानाविभूतिलीलाढ्यो गंगोत्पत्तिनिदानकृत् 78 गंगामाहात्म्यहेतुश्च गंगारूपोऽतिगूढकृत् वैकुंठदेहहेत्वंबुजन्मकृत् सर्वपावनः 79 शिवस्वामी शिवोपास्यो गूढः संकर्षणात्मकः स्थानरक्षार्थमत्स्यादिरूपः सर्वैकपूजितः 80 उपास्यनानारूपात्मा ज्योतीरूपो गतिप्रदः सूर्यनारायणो वेदकांतिरुज्ज्वलवेषधृक् 81 हंसोऽंतरिक्षगमनः सर्वप्रसवकारणम् आनंदकर्ता वसुदो बुधो वाक्पतिरुज्ज्वलः 82 कालात्मा कालकालश्च कालच्छेदकृदुत्तमः शिशुमारः सर्वमूर्तिराधिदैविकरूपधृक् 83 अनंतसुखभोगाढ्यो विवरैश्वर्यभाजनम् संकर्षणो दैत्यपतिः सर्वाधारो बृहद्वपुः 84 अनंतनरकच्छेदी स्मृतिमात्रार्तिनाशनः सर्वानुग्रहकर्ता चोंतिनुएद् पोषण-पुष्टि-लीला मर्यादाभिन्नशास्त्रकृत् 85 कालांतकभयच्छेदी नामसामर्थ्यरूपधृक् उद्धारानर्हगोप्त्रात्मा नामादिप्रेरकोत्तमः 86 अजामिलमहादुष्टमोचकोऽघविमोचकः धर्मवक्ताऽक्लिष्टवक्ता विष्णुधर्मस्वरूपधृक् 87 सन्मार्गप्रेरको धर्ता त्यागहेतुरधोक्षजः वैकुंठपुरनेता दाससंवृद्धिकारकः 88 दक्षप्रसादकृद्धंसगुह्यस्तुतिविभावनः स्वाभिप्रायप्रवक्ता मुक्तजीवप्रसूतिकृत् 89 नारदप्रेरणात्मा हर्यश्वब्रह्मभावनः शबलाश्वहितो गूढवाक्यार्थज्ञापनक्षमः 90 गूढार्थज्ञापनः सर्वमोक्षानंदप्रतिष्ठितः पुष्टिप्ररोहहेतुश्च दासैकज्ञातहृद्गतः 91 शांतिकर्ता सुहितकृत् स्त्रीप्रसूः सर्वकामधुक् पुष्टिवंशप्रणेता विश्वरूपेष्टदेवता 92 कवचात्मा पालनात्मा वर्मोपचितिकारणम् विश्वरूपशिरश्छेदी त्वाष्ट्रयज्ञविनाशकः 93 वृत्रस्वामी वृत्रगम्यो वृत्रव्रतपरायणः वृत्रकीर्तिर्वृत्रमोक्षो मघवत्प्राणरक्षकः 94 अश्वमेधहविर्भोक्ता देवेंद्रामीवनाशकः संसारमोचकश्चित्रकेतुबोधनतत्परः 95 मंत्रसिद्धिः सिद्धिहेतुः सुसिद्धिफलदायकः महादेवतिरस्कर्ता भक्त्यै पूर्वार्थनाशकः 96 देवब्राह्मणविद्वेषवैमुख्यज्ञापकः शिवः आदित्यो दैत्यराजश्च महत्पतिरचिंत्यकृत् 97 मरुतां भेदकस्त्राता व्रतात्मा पुंप्रसूतिकृत् ऊतिलीला कर्मात्मा वासनात्मा ऊतिलीलापरायणः 98 समदैत्यसुरः स्वात्मा वैषम्यज्ञानसंश्रयः देहाद्युपाधिरहितः सर्वज्ञः सर्वहेतुविद् 99 ब्रह्मवाक्स्थापनपरः स्वजन्मावधिकार्यकृत् सदसद्वासनाहेतुस्त्रिसत्यो भक्तमोचकः 100 हिरण्यकशिपुद्वेषी प्रविष्टात्माऽतिभीषणः शांतिज्ञानादिहेतुश्च प्रह्लादोत्पत्तिकारणम् 101 दैत्यसिद्धांतसद्वक्ता तपःसार उदारधीः दैत्यहेतुप्रकटनो भक्तिचिह्नप्रकाशकः 102 सद्द्वेषहेतुः सद्द्वेषवासनात्मा निरंतरः नैष्ठुर्यसीमा प्रह्लादवत्सलः संगदोषहा 103 महानुभावः साकारः सर्वाकारः प्रमाणभूः स्तंभप्रसूतिर्नृहरिर्नृसिंहो भीमविक्रमः 104 विकटास्यो ललज्जिह्वो नखशस्त्रो जवोत्कटः हिरण्यकशिपुच्छेदी क्रूरदैत्यनिवारकः 105 सिंहासनस्थः क्रोधात्मा लक्ष्मीभयविवर्धनः ब्रह्माद्यत्यंतभयभूरपूर्वाचिंत्यरूपधृक् 106 भक्तैकशांतहृदयो भक्तस्तुत्यः स्तुतिप्रियः भक्तांगलेहनोद्धूतक्रोधपुङ्जः प्रशांतधीः 107 स्मृतिमात्रभयत्राता ब्रह्मबुद्धिप्रदायकः गोरूपधार्यमृतपाः शिवकीर्तिविवर्धनः 108 धर्मात्मा सर्वकर्मात्मा विशेषात्माऽऽश्रमप्रभुः संसारमग्नस्वोद्धर्ता सन्मार्गाखिलतत्त्ववाक् 109 आचारात्मा सदाचारः चोंतिनुएद् मन्वंतरलीला मन्वंतरविभावनः स्मृत्याऽशेषाशुभहरो गजेंद्रस्मृतिकारणम् 110 जातिस्मरणहेत्वैकपूजाभक्तिस्वरूपदः यज्ञो भयान्मनुत्राता विभुर्ब्रह्मव्रताश्रयः 111 सत्यसेनो दुष्टघाती हरिर्गजविमोचकः वैकुंठो लोककर्ता अजितोऽमृतकारणम् 112 उरुक्रमो भूमिहर्ता सार्वभौमो बलिप्रियः विभुः सर्वहितैकात्मा विष्वक्सेनः शिवप्रियः 113 धर्मसेतुर्लोकधृतिः सुधामांतरपालकः उपहर्ता योगपतिर्बृहद्भानुः क्रियापतिः 114 चतुर्दशप्रमाणात्मा धर्मो मन्वादिबोधकः लक्ष्मीभोगैकनिलयो देवमंत्रप्रदायकः 115 दैत्यव्यामोहकः साक्षाद्गरुडस्कंधसंश्रयः लीलामंदरधारी दैत्यवासुकिपूजितः 116 समुद्रोन्मथनायत्तोऽविघ्नकर्ता स्ववाक्यकृत् आदिकूर्मः पवित्रात्मा मंदराघर्षणोत्सुकः 117 श्वासैजदब्धिवार्वीचिः कल्पांतावधिकार्यकृत् चतुर्दशमहारत्नो लक्ष्मीसौभाग्यवर्धनः 118 धन्वंतरिः सुधाहस्तो यज्ञभोक्ताऽऽर्तिनाशनः आयुर्वेदप्रणेता देवदैत्याखिलार्चितः 119 बुद्धिव्यामोहको देवकार्यसाधनतत्परः स्त्रीरूपो मायया वक्ता दैत्यांतःकरणप्रियः 120 पायितामृतदेवांशो युद्धहेतुस्मृतिप्रदः सुमालिमालिवधकृन्माल्यवत्प्राणहारकः 121 कालनेमिशिरश्छेदी दैत्ययज्ञविनाशकः इंद्रसामर्थ्यदाता दैत्यशेषस्थितिप्रियः 122 शिवव्यामोहको मायी भृगुमंत्रस्वशक्तिदः बलिजीवनकर्ता स्वर्गहेतुर्व्रतार्चितः 123 अदित्यानंदकर्ता कश्यपादितिसंभवः उपेंद्र इंद्रावरजो वामनब्रह्मरूपधृक् 124 ब्रह्मादिसेवितवपुर्यज्ञपावनतत्परः याच्ञोपदेशकर्ता ज्ञापिताशेषसंस्थितिः 125 सत्यार्थप्रेरकः सर्वहर्ता गर्वविनाशकः त्रिविक्रमस्त्रिलोकात्मा विश्वमूर्तिः पृथुश्रवाः 126 पाशबद्धबलिः सर्वदैत्यपक्षोपमर्दकः सुतलस्थापितबलिः स्वर्गाधिकसुखप्रदः 127 कर्मसंपूर्तिकर्ता स्वर्गसंस्थापितामरः ज्ञातत्रिविधधर्मात्मा महामीनोऽब्धिसंश्रयः 128 सत्यव्रतप्रियो गोप्ता मत्स्यमूर्तिधृतश्रुतिः शऋंगबद्धधृतक्षोणिः सर्वार्थज्ञापको गुरुः 129 ईशानुकथालीला ईशसेवकलीलात्मा सूर्यवंशप्रवर्तकः सोमवंशोद्भवकरो मनुपुत्रगतिप्रदः 130 अंबरीषप्रियः साधुर्दुर्वासोगर्वनाशकः ब्रह्मशापोपसंहर्ता भक्तकीर्तिविवर्धनः 131 इक्ष्वाकुवंशजनकः सगराद्यखिलार्थदः भगीरथमहायत्नो गंगाधौतांघ्रिपंकजः 132 ब्रह्मस्वामी शिवस्वामी सगरात्मजमुक्तिदः खट्वांगमोक्षहेतुश्च रघुवंशविवर्धनः 133 रघुनाथो रामचंद्रो रामभद्रो रघुप्रियः अनंतकीर्तिः पुण्यात्मा पुण्यश्लोकैकभास्करः 134 कोशलेंद्रः प्रमाणात्मा सेव्यो दशरथात्मजः लक्ष्मणो भरतश्चैव शत्रुघ्नो व्यूहविग्रहः 135 विश्वामित्रप्रियो दांतस्ताडकावधमोक्षदः वायव्यास्त्राब्धिनिक्षिप्तमारीचश्च सुबाहुहा 136 वृषध्वजधनुर्भंगप्राप्तसीतामहोत्सवः सीतापतिर्भृगुपतिगर्वपर्वतनाशकः 137 अयोध्यास्थमहाभोगयुक्तलक्ष्मीविनोदवान् कैकेयीवाक्यकर्ता पितृवाक्परिपालकः 138 वैराग्यबोधकोऽनन्यसात्त्विकस्थानबोधकः अहल्यादुःखहारी गुहस्वामी सलक्ष्मणः 139 चित्रकूटप्रियस्थानो दंडकारण्यपावनः शरभंगसुतीक्ष्णादिपूजितोऽगस्त्यभाग्यभूः 140 ऋषिसंप्रार्थितकृतिर्विराधवधपंडितः छिन्नशूर्पणखानासः खरदूषणघातकः 141 एकबाणहतानेकसहस्रबलराक्षसः मारीचघाती नियतसीतासंबंधशोभितः 142 सीतावियोगनाट्यश्च जटायुर्वधमोक्षदः शबरीपूजितो भक्तहनुमत्प्रमुखावृतः 143 दुंदुभ्यस्थिप्रहरणः सप्ततालविभेदनः सुग्रीवराज्यदो वालिघाती सागरशोषणः 144 सेतुबंधनकर्ता विभीषणहितप्रदः रावणादिशिरश्छेदी राक्षसाघौघनाशकः 145 सीताऽभयप्रदाता पुष्पकागमनोत्सुकः अयोध्यापतिरत्यंतसर्वलोकसुखप्रदः 146 मथुरापुरनिर्माता सुकृतज्ञस्वरूपदः जनकज्ञानगम्यश्च ऐलांतप्रकटश्रुतिः 147 हैहयांतकरो रामो दुष्टक्षत्रविनाशकः सोमवंशहितैकात्मा यदुवंशविवर्धनः 148 निरोधलीला परब्रह्मावतरणः केशवः क्लेशनाशनः भूमिभारावतरणो भक्तार्थाखिलमानसः 149 सर्वभक्तनिरोधात्मा लीलानंतनिरोधकृत् भूमिष्ठपरमानंदो देवकीशुद्धिकारणम् 150 वसुदेवज्ञाननिष्ठसमजीवनिवारकः सर्ववैराग्यकरणस्वलीलाधारशोधकः 151 मायाज्ञापनकर्ता शेषसंभारसंभृतिः भक्तक्लेशपरिज्ञाता तन्निवारणतत्परः 152 आविष्टवसुदेवांशो देवकीगर्भभूषणम् पूर्णतेजोमयः पूर्णः कंसाधृष्यप्रतापवान् 153 विवेकज्ञानदाता ब्रह्माद्यखिलसंस्तुतः सत्यो जगत्कल्पतरुर्नानारूपविमोहनः 154 भक्तिमार्गप्रतिष्ठाता विद्वन्मोहप्रवर्तकः मूलकालगुणद्रष्टा नयनानंदभाजनम् 155 वसुदेवसुखाब्धिश्च देवकीनयनामृतम् पितृमातृस्तुतः पूर्वसर्ववृत्तांतबोधकः 156 गोकुलागतिलीलाप्तवसुदेवकरस्थितिः सर्वेशत्वप्रकटनो मायाव्यत्ययकारकः 157 ज्ञानमोहितदुष्टेशः प्रपंचास्मृतिकारणम् यशोदानंदनो नंदभाग्यभूगोकुलोत्सवः 158 नंदप्रियो नंदसूनुर्यशोदायाः स्तनंधयः पूतनासुपयःपाता मुग्धभावातिसुंदरः 159 सुंदरीहृदयानंदो गोपीमंत्राभिमंत्रितः गोपालाश्चर्यरसकृत् शकटासुरखंडनः 160 नंदव्रजजनानंदी नंदभाग्यमहोदयः तृणावर्तवधोत्साहो यशोदाज्ञानविग्रहः 161 बलभद्रप्रियः कृष्णः संकर्षणसहायवान् रामानुजो वासुदेवो गोष्ठांगणगतिप्रियः 162 किंकिणीरवभावज्ञो वत्सपुच्छावलंबनः नवनीतप्रियो गोपीमोहसंसारनाशकः 163 गोपबालकभावज्ञश्चौर्यविद्याविशारदः मृत्स्नाभक्षणलीलास्यमाहात्म्यज्ञानदायकः 164 धराद्रोणप्रीतिकर्ता दधिभांडविभेदनः दामोदरो भक्तवश्यो यमलार्जुनभंजनः 165 बृहद्वनमहाश्चर्यो वृंदावनगतिप्रियः वत्सघाती बालकेलिर्बकासुरनिषूदनः 166 अरण्यभोक्ताऽप्यथवा बाललीलापरायणः प्रोत्साहजनकश्चैवमघासुरनिषूदनः 167 व्यालमोक्षप्रदः पुष्टो ब्रह्ममोहप्रवर्धनः अनंतमूर्तिः सर्वात्मा जंगमस्थावराकृतिः 168 ब्रह्ममोहनकर्ता स्तुत्य आत्मा सदाप्रियः पौगंडलीलाभिरतिर्गोचारणपरायणः 169 वृंदावनलतागुल्मवृक्षरूपनिरूपकः नादब्रह्मप्रकटनो वयःप्रतिकृतिस्वनः 170 बर्हिनृत्यानुकरणो गोपालानुकृतिस्वनः सदाचारप्रतिष्ठाता बलश्रमनिराकृतिः 171 तरुमूलकृताशेषतल्पशायी सखिस्तुतः गोपालसेवितपदः श्रीलालितपदांबुजः 172 गोपसंप्रार्थितफलदाननाशितधेनुकः कालीयफणिमाणिक्यरंजितश्रीपदांबुजः 173 दृष्टिसङ्जीविताशेषगोपगोगोपिकाप्रियः लीलासंपीतदावाग्निः प्रलंबवधपंडितः 174 दावाग्न्यावृतगोपालदृष्ट्याच्छादनवह्निपः वर्षाशरद्विभूतिश्रीर्गोपीकामप्रबोधकः 175 गोपीरत्नस्तुताशेषवेणुवाद्यविशारदः कात्यायनीव्रतव्याजसर्वभावाश्रितांगनः 176 सत्संगतिस्तुतिव्याजस्तुतवृंदावनांघ्रिपः गोपक्षुच्छांतिसंव्याजविप्रभार्याप्रसादकृत् 177 हेतुप्राप्तेंद्रयागस्वकार्यगोसवबोधकः शैलरूपकृताशेषरसभोगसुखावहः 178 लीलागोवर्धनोद्धारपालितस्वव्रजप्रियः गोपस्वच्छंदलीलार्थगर्गवाक्यार्थबोधकः 179 इंद्रधेनुस्तुतिप्राप्तगोविंदेंद्राभिधानवान् व्रतादिधर्मसंसक्तनंदक्लेशविनाशकः 180 नंदादिगोपमात्रेष्टवैकुंठगतिदायकः वेणुवादस्मरक्षोभमत्तगोपीविमुक्तिदः 181 सर्वभावप्राप्तगोपीसुखसंवर्धनक्षमः गोपीगर्वप्रणाशार्थतिरोधानसुखप्रदः 182 कृष्णभावव्याप्तविश्वगोपीभावितवेषधृक् राधाविशेषसंभोगप्राप्तदोषनिवारकः 183 परमप्रीतिसंगीतसर्वाद्भुतमहागुणः मानापनोदनाक्रंदगोपीदृष्टिमहोत्सवः 184 गोपिकाव्याप्तसर्वांगः स्त्रीसंभाषाविशारदः रासोत्सवमहासौख्यगोपीसंभोगसागरः 185 जलस्थलरतिव्याप्तगोपीदृष्ट्यभिपूजितः शास्त्रानपेक्षकामैकमुक्तिद्वारविवर्धनः 186 सुदर्शनमहासर्पग्रस्तनंदविमोचकः गीतमोहितगोपीधृक्षंखचूडविनाशकः 187 गुणसंगीतसंतुष्टिर्गोपीसंसारविस्मृतिः अरिष्टमथनो दैत्यबुद्धिव्यामोहकारकः 188 केशिघाती नारदेष्टो व्योमासुरविनाशकः अक्रूरभक्तिसंराद्धपादरेणुमहानिधिः 189 रथावरोहशुद्धात्मा गोपीमानसहारकः ह्रदसंदर्शिताशेषवैकुंठाक्रूरसंस्तुतः 190 मथुरागमनोत्साहो मथुराभाग्यभाजनम् मथुरानगरीशोभादर्शनोत्सुकमानसः 191 दुष्टरंजकघाती वायकार्चितविग्रहः वस्त्रमालासुशोभांगः कुब्जालेपनभूषितः 192 कुब्जासुरूपकर्ता कुब्जारतिवरप्रदः प्रसादरूपसंतुष्टहरकोदंडखंडनः 193 शकलाहतकंसाप्तधनूरक्षकसैनिकः जाग्रत्स्वप्नभयव्याप्तमृत्युलक्षणबोधकः 194 मथुरामल्ल ओजस्वी मल्लयुद्धविशारदः सद्यः कुवलयापीडघाती चाणूरमर्दनः 195 लीलाहतमहामल्लः शलतोशलघातकः कंसांतको जितामित्रो वसुदेवविमोचकः 196 ज्ञाततत्त्वपितृज्ञानमोहनामृतवाङ्मयः उग्रसेनप्रतिष्ठाता यादवाधिविनाशकः 197 नंदादिसांत्वनकरो ब्रह्मचर्यव्रते स्थितः गुरुशुश्रूषणपरो विद्यापारमितेश्वरः 198 सांदीपनिमृतापत्यदाता कालांतकादिजित् गोकुलाश्वासनपरो यशोदानंदपोषकः 199 गोपिकाविरहव्याजमनोगतिरतिप्रदः समोद्धवभ्रमरवाक् गोपिकामोहनाशकः 200 कुब्जारतिप्रदोऽक्रूरपवित्रीकृतभूगृहः पृथादुःखप्रणेता पांडवानां सुखप्रदः 201 दशमस्कंधोत्तरार्धनामानि निरोधलीला जरासंधसमानीतसैन्यघाती विचारकः यवनव्याप्तमथुराजनदत्तकुशस्थलिः 202 द्वारकाद्भुतनिर्माणविस्मापितसुरासुरः मनुष्यमात्रभोगार्थभूम्यानीतेंद्रवैभवः 203 यवनव्याप्तमथुरानिर्गमानंदविग्रहः मुचुकुंदमहाबोधयवनप्राणदर्पहा 204 मुचुकुंदस्तुताशेषगुणकर्ममहोदयः फलप्रदानसंतुष्टिर्जन्मांतरितमोक्षदः 205 शिवब्राह्मणवाक्याप्तजयभीतिविभावनः प्रवर्षणप्रार्थिताग्निदानपुण्यमहोत्सवः 206 रुक्मिणीरमणः कामपिता प्रद्युम्नभावनः स्यमंतकमणिव्याजप्राप्तजांबवतीपतिः 207 सत्यभामाप्राणपतिः कालिंदीरतिवर्धनः मित्रविंदापतिः सत्यापतिर्वृषनिषूदनः 208 भद्रावांछितभर्ता लक्ष्मणावरणक्षमः इंद्रादिप्रार्थितवधनरकासुरसूदनः 209 मुरारिः पीठहंता ताम्रादिप्राणहारकः षोडशस्त्रीसहस्रेशः छत्रकुंडलदानकृत् 210 पारिजातापहरणो देवेंद्रमदनाशकः रुक्मिणीसमसर्वस्त्रीसाध्यभोगरतिप्रदः 211 रुक्मिणीपरिहासोक्तिवाक्तिरोधानकारकः पुत्रपौत्रमहाभाग्यगृहधर्मप्रवर्तकः 212 शंबरांतकसत्पुत्रविवाहहतरुक्मिकः उषापहृतपौत्रश्रीर्बाणबाहुनिवारकः 213 शीतज्वरभयव्याप्तज्वरसंस्तुतषड्गुणः शंकरप्रतियोद्धा द्वंद्वयुद्धविशारदः 214 नृगपापप्रभेत्ता ब्रह्मस्वगुणदोषदृक् विष्णुभक्तिविरोधैकब्रह्मस्वविनिवारकः 215 बलभद्राहितगुणो गोकुलप्रीतिदायकः गोपीस्नेहैकनिलयो गोपीप्राणस्थितिप्रदः 216 वाक्यातिगामियमुनाहलाकर्षणवैभवः पौंड्रकत्याजितस्पर्धः काशीराजविभेदनः 217 काशीनिदाहकरणः शिवभस्मप्रदायकः द्विविदप्राणघाती कौरवाखर्वगर्वनुत् 218 लांगलाकृष्टनगरीसंविग्नाखिलनागरः प्रपन्नाभयदः सांबप्राप्तसन्मानभाजनम् 219 नारदान्विष्टचरणो भक्तविक्षेपनाशकः सदाचारैकनिलयः सुधर्माध्यासितासनः 220 जरासंधावरुद्धेन विज्ञापितनिजक्लमः मंत्र्युद्धवादिवाक्योक्तप्रकारैकपरायणः 221 राजसूयादिमखकृत् संप्रार्थितसहायकृत् इंद्रप्रस्थप्रयाणार्थमहत्संभारसंभृतिः 222 जरासंधवधव्याजमोचिताशेषभूमिपः सन्मार्गबोधको यज्ञक्षितिवारणतत्परः 223 शिशुपालहतिव्याजजयशापविमोचकः दुर्योधनाभिमानाब्धिशोषबाणवृकोदरः 224 महादेववरप्राप्तपुरशाल्वविनाशकः दंतवक्त्रवधव्याजविजयाघौघनाशकः 225 विदूरथप्राणहर्ता न्यस्तशस्त्रास्त्रविग्रहः उपधर्मविलिप्तांगसूतघाती वरप्रदः 226 बल्वलप्राणहरणपालितर्षिश्रुतिक्रियः सर्वतीर्थाघनाशार्थतीर्थयात्राविशारदः 227 ज्ञानक्रियाविभेदेष्टफलसाधनतत्परः सारथ्यादिक्रियाकर्ता भक्तवश्यत्वबोधकः 228 सुदामारंकभार्यार्थभूम्यानीतेंद्रवैभवः रविग्रहनिमित्ताप्तकुरुक्षेत्रैकपावनः 229 नृपगोपीसमस्तस्त्रीपावनार्थाखिलक्रियः ऋषिमार्गप्रतिष्ठाता वसुदेवमखक्रियः 230 वसुदेवज्ञानदाता देवकीपुत्रदायकः अर्जुनस्त्रीप्रदाता बहुलाश्वस्वरूपदः 231 श्रुतदेवेष्टदाता सर्वश्रुतिनिरूपितः महादेवाद्यतिश्रेष्ठो भक्तिलक्षणनिर्णयः 232 वृकग्रस्तशिवत्राता नानावाक्यविशारदः नरगर्वविनाशार्थहृतब्राह्मणबालकः 233 लोकालोकपरस्थानस्थितबालकदायकः द्वारकास्थमहाभोगनानास्त्रीरतिवर्धनः 234 मनस्तिरोधानकृतव्यग्रस्त्रीचित्तभावितः मुक्तिलीला मुक्तिलीलाविहरणो मौशलव्याजसंहृतिः 235 श्रीभागवतधर्मादिबोधको भक्तिनीतिकृत् उद्धवज्ञानदाता पंचविंशतिधा गुरुः 236 आचारभक्तिमुक्त्यादिवक्ता शब्दोद्भवस्थितिः हंसो धर्मप्रवक्ता सनकाद्युपदेशकृत् 237 भक्तिसाधनवक्ता योगसिद्धिप्रदायकः नानाविभूतिवक्ता शुद्धधर्मावबोधकः 238 मार्गत्रयविभेदात्मा नानाशंकानिवारकः भिक्षुगीताप्रवक्ता शुद्धसांख्यप्रवर्तकः 239 मनोगुणविशेषात्मा ज्ञापकोक्तपुरूरवाः पूजाविधिप्रवक्ता सर्वसिद्धांतबोधकः 240 लघुस्वमार्गवक्ता स्वस्थानगतिबोधकः यादवांगोपसंहर्ता सर्वाश्चर्यगतिक्रियः 241 आश्रयलीला कालधर्मविभेदार्थवर्णनाशनतत्परः बुद्धो गुप्तार्थवक्ता नानाशास्त्रविधायकः 242 नष्टधर्ममनुष्यादिलक्षणज्ञापनोत्सुकः आश्रयैकगतिज्ञाता कल्किः कलिमलापहः 243 शास्त्रवैराग्यसंबोधो नानाप्रलयबोधकः विशेषतः शुकव्याजपरीक्षिज्ज्ञानबोधकः 244 शुकेष्टगतिरूपात्मा परीक्षिद्देहमोक्षदः शब्दरूपो नादरूपो वेदरूपो विभेदनः 245 व्यासः शाखाप्रवक्ता पुराणार्थप्रवर्तकः मार्कंडेयप्रसन्नात्मा वटपत्रपुटेशयः 246 मायाव्याप्तमहामोहदुःखशांतिप्रवर्तकः महादेवस्वरूपश्च भक्तिदाता कृपानिधिः 247 आदित्यांतर्गतः कालः द्वादशात्मा सुपूजितः श्रीभागवतरूपश्च सर्वार्थफलदायकः 248 इतीदं कीर्तनीयस्य हरेर्नामसहस्रकम् पंचसप्ततिविस्तीर्णं पुराणांतरभाषितम् 249 एतत्प्रातरुत्थाय श्रद्धावान् सुसमाहितः जपेदर्थाहितमतिः गोविंदपदं लभेत् 250 सर्वधर्मविनिर्मुक्तः सर्वसाधनवर्जितः एतद्धारणमात्रेण कृष्णस्य पदवीं व्रजेत् 251 हर्यावेशितचित्तेन श्रीभागवतसागरात् समुद्धृतानि नामानि चिंतामणिनिभानि हि 252 कंठस्थितान्यर्थदीप्त्या बाधंतेऽज्ञानजं तमः भक्तिं श्रीकृष्णदेवस्य साधयंति विनिश्चितम् 253 किंबहूक्तेन भगवान् नामभिः स्तुतषड्गुणः आत्मभावं नयत्याशु भक्तिं कुरुते दृढाम् 254 यः कृष्णभक्तिमिह वांछति साधनौघैर्- नामानि भासुरयशांसि जपेत्स नित्यम् तं वै हरिः स्वपुरुषं कुरुतेऽतिशीघ्रं- आत्मार्पणं समधिगच्छति भावतुष्टः 255 श्रीकृष्ण कृष्णसख वृष्णिवृषावनिध्रुग्- राजन्यवंशदहनानपवर्गवीर्य गोविंद गोपवनिताव्रजभृत्यगीत तीर्थश्रवः श्रवणमंगल पाहि भृत्यान् 256 इति श्रीभागवतसारसमुच्चये वैश्वानरोक्तं श्रीवल्लभाचार्यविरचितं श्रीपुरुषोत्तमसहस्रनामस्तोत्रं संपूर्णम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits