हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
त्रैलोक्यविजयम् नृसिंह कवचम्
नारद
उवाच
।
इन्द्रादिदेववृन्देश
ईड्येश्वर
जगत्पते
।
महाविष्णोर्नृसिंहस्य
कवचं
ब्रूहि
मे
प्रभो
।
यस्य
प्रपठनाद्विद्वांस्त्रैलोक्यविजयी
भवेत्
॥
1
॥
ब्रह्मोवाच
।
शृणु
नारद
वक्ष्यामि
पुत्रश्रेष्ठ
तपोधन
।
कवचं
नरसिंहस्य
त्रैलोक्यविजयी
भवेत्
॥
2
॥
स्रष्टाऽहं
जगतां
वत्स
पठनाद्धारणाद्यतः
।
लक्ष्मीर्जगत्त्रयं
पाति
संहर्ता
च
महेश्वरः
॥
3
॥
पठनाद्धारणाद्देवा
बहवश्च
दिगीश्वराः
।
ब्रह्ममन्त्रमयं
वक्ष्ये
भ्रान्त्यादिविनिवारकम्
॥
4
॥
यस्य
प्रसादाद्दुर्वासास्त्रैलोक्यविजयी
भवेत्
।
पठनाद्धारणाद्यस्य
शास्ता
च
क्रोधभैरवः
॥
5
॥
त्रैलोक्यविजयस्यास्य
कवचस्य
प्रजापतिः
।
ऋषिश्छन्दस्तु
गायत्री
नृसिंहो
देवता
विभुः
॥
6
॥
चतुर्वर्गे
च
शान्तौ
च
विनियोगः
प्रकीर्तितः
।
क्ष्रौं
बीजं
मे
शिरः
पातु
चन्द्रवर्णो
महामनुः
॥
7
॥
ओं
उग्रं
वीरं
महाविष्णुं
ज्वलन्तं
सर्वतोमुखम्
।
नृसिंहं
भीषणं
भद्रं
मृत्युमृत्युं
नमाम्यहम्
॥
8
॥
द्वात्रिंशदक्षरो
मन्त्रो
मन्त्रराजः
सुरद्रुमः
।
कण्ठं
पातु
ध्रुवं
क्ष्रौं
हृद्भगवते
चक्षुषी
मम
॥
9
॥
नरसिंहाय
च
ज्वालामालिने
पातु
कर्णकम्
।
दीप्तदंष्ट्राय
च
तथा
अग्निनेत्राय
नासिकाम्
॥
10
॥
सर्वरक्षोघ्नाय
तथा
सर्वभूतहिताय
च
।
सर्वज्वरविनाशाय
दह
दह
पदद्वयम्
॥
11
॥
रक्ष
रक्ष
वर्ममन्त्रः
स्वाहा
पातु
मुखं
मम
।
तारादिरामचन्द्राय
नमः
पातु
हृदं
मम
॥
12
॥
क्लीं
पायात्
पार्श्वयुग्मं
च
तारो
नमः
पदं
ततः
।
नारायणाय
नाभिं
च
आं
ह्रीं
क्रों
क्ष्रौं
च
हुं
फट्
॥
13
॥
षडक्षरः
कटिं
पातु
ओं
नमो
भगवते
पदम्
।
वासुदेवाय
च
पृष्ठं
क्लीं
कृष्णाय
उरुद्वयम्
॥
14
॥
क्लीं
कृष्णाय
सदा
पातु
जानुनी
च
मनूत्तमः
।
क्लीं
ग्लौं
क्लीं
श्यामलाङ्गाय
नमः
पायात्
पदद्वयम्
॥
15
॥
क्ष्रौं
नृसिंहाय
क्ष्रौं
ह्रीं
च
सर्वाङ्गं
मे
सदाऽवतु
।
इति
ते
कथितं
वत्स
सर्वमन्त्रौघविग्रहम्
॥
16
॥
तव
स्नेहान्मया
ख्यातं
प्रवक्तव्यं
न
कस्यचित्
।
गुरुपूजां
विधायाथ
गृह्णीयात्
कवचं
ततः
॥
17
॥
सर्वपुण्ययुतो
भूत्वा
सर्वसिद्धियुतो
भवेत्
।
शतमष्टोत्तरं
चास्य
पुरश्चर्याविधिः
स्मृतः
॥
18
॥
हवनादीन्
दशांशेन
कृत्वा
सत्साधकोत्तमः
।
ततस्तु
सिद्धकवचो
रूपेण
मदनोपमः
॥
19
॥
स्पर्धामुद्धूय
भवने
लक्ष्मीर्वाणी
वसेन्मुखे
।
पुष्पाञ्जल्यष्टकं
दत्त्वा
मूलेनैव
पठेत्
सकृत्
॥
20
॥
अपि
वर्षसहस्राणां
पूजानां
फलमाप्नुयात्
।
भूर्जे
विलिख्य
गुटिकां
स्वर्णस्थां
धारयेद्यदि
॥
21
॥
कण्ठे
वा
दक्षिणे
बाहौ
नरसिंहो
भवेत्
स्वयम्
।
योषिद्वामभुजे
चैव
पुरुषो
दक्षिणे
करे
॥
22
॥
बिभृयात्
कवचं
पुण्यं
सर्वसिद्धियुतो
भवेत्
।
काकवन्ध्या
च
या
नारी
मृतवत्सा
च
या
भवेत्
॥
23
॥
जन्मवन्ध्या
नष्टपुत्रा
बहुपुत्रवती
भवेत्
।
कवचस्य
प्रसादेन
जीवन्मुक्तो
भवेन्नरः
॥
24
॥
त्रैलोक्यं
क्षोभयत्येवं
त्रैलोक्यविजयी
भवेत्
।
भूतप्रेतपिशाचाश्च
राक्षसा
दानवाश्च
ये
॥
25
॥
तं
दृष्ट्वा
प्रपलायन्ते
देशाद्देशान्तरं
ध्रुवम्
।
यस्मिन्
गृहे
च
कवचं
ग्रामे
वा
यदि
तिष्ठति
।
तद्देशं
तु
परित्यज्य
प्रयान्ति
ह्यातिदूरतः
॥
26
॥
इति
श्रीब्रह्मसंहितायां
सप्तदशोऽध्याये
त्रैलोक्यविजयं
नाम
श्री
नृसिंह
कवचम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits