हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
लक्ष्मी नृसिंह हृदय स्तोत्रम्
अस्य
श्री
लक्ष्मीनृसिंह
हृदय
महामन्त्रस्य
प्रह्लाद
ऋषिः,
श्रीलक्ष्मीनृसिंहो
देवता,
अनुष्टुप्
छन्दः,
मम
ईप्सितार्थसिद्ध्यर्थे
पाठे
विनियोगः
॥
करन्यासः
–
ओं
श्रीलक्ष्मीनृसिंहाय
अङ्गुष्ठाभ्यां
नमः
।
ओं
वज्रनखाय
तर्जनीभ्यां
नमः
।
ओं
महारूपाय
मध्यमाभ्यां
नमः
।
ओं
सर्वतोमुखाय
अनामिकाभ्यां
नमः
।
ओं
भीषणाय
कनिष्ठिकाभ्यां
नमः
।
ओं
वीराय
करतल
करपृष्ठाभ्यां
नमः
।
हृदयन्यासः
–
ओं
श्रीलक्ष्मीनृसिंहाय
हृदयाय
नमः
।
ओं
वज्रनखाय
शिरसे
स्वाहा
।
ओं
महारूपाय
शिखायै
वषट्
।
ओं
सर्वतोमुखाय
कवचाय
हुम्
।
ओं
भीषणाय
नेत्रत्रयाय
वौषट्
।
ओं
वीराय
अस्त्राय
फट्
॥
अथ
ध्यानम्
।
सत्यं
ज्ञानेन्द्रियसुखं
क्षीराम्भोनिधि
मध्यगं
योगारूढं
प्रसन्नास्यं
नानाभरणभूषितम्
।
महाचक्रं
महाविष्णुं
त्रिनेत्रं
च
पिनाकिनं
श्वेताहिवासं
श्वेताङ्गं
सूर्यचन्द्रादि
पार्श्वगम्
।
श्रीनृसिंहं
सदा
ध्यायेत्
कोटिसूर्यसमप्रभम्
॥
अथ
मन्त्रः
।
ओं
नमो
भगवते
नरसिंहाय
देवाय
नमः
॥
अथ
हृदय
स्तोत्रम्
।
श्रीनृसिंहः
परम्ब्रह्म
श्रीनृसिंहः
परं
शिवः
।
नृसिंहः
परमो
विष्णुः
नृसिंहः
सर्वदेवता
॥
1
॥
नृशब्देनोच्यते
जीवः
सिंहशब्देन
च
स्वरः
।
तयोरैक्यं
श्रुतिप्रोक्तं
यः
पश्यति
स
पश्यति
॥
2
॥
नृसिंहाद्देवाः
जायन्ते
लोकाः
स्थावरजङ्गमाः
।
नृसिंहेनैव
जीवन्ति
नृसिंहे
प्रविशन्ति
च
॥
3
॥
नृसिंहो
विश्वमुत्पाद्य
प्रविश्य
तदनन्तरम्
।
राजभिक्षुस्वरूपेण
नृसिंहस्य
स्मरन्ति
ये
॥
4
॥
नृसिंहात्
परमं
नास्ति
नृसिंहं
कुलदैवतम्
।
नृसिंहभक्ता
ये
लोके
ते
ज्ञानिनं
इतीरिताः
॥
5
॥
विरक्ता
दयया
युक्ताः
सर्वभूतसमेक्षणाः
।
न्यस्त
संसार
योगेन
नृसिंहं
प्राप्नुवन्ति
ते
॥
6
॥
माहात्म्यं
यस्य
सर्वेऽपि
वदन्ति
निगमागमाः
।
नृसिंहः
सर्वजगतां
कर्ता
भोक्ता
न
चापरः
॥
7
॥
नृसिंहो
जगतां
हेतुः
बहिर्यायाऽवलम्बनः
।
मायया
वेदितात्मा
च
सुदर्शनसमाक्षरः
॥
8
॥
वासुदेवो
मयातीतो
नारायणसमप्रभ
।
निर्मलो
निरहङ्कारो
निर्माल्यो
यो
निरञ्जनः
॥
9
॥
सर्वेषां
चापि
भूतानां
हृदयाम्भोजवासकः
।
अतिप्रेष्ठः
सदानन्दो
निर्विकारो
महामतिः
॥
10
॥
चराचरस्वरूपी
च
चराचरनियामकः
।
सर्वेश्वरः
सर्वकर्ता
सर्वात्मा
सर्वगोचरः
॥
11
॥
नृसिंह
एव
यः
साक्षात्
प्रत्यगात्मा
न
संशयः
।
केचिन्मूढा
वदन्त्येवमवतारमनीश्वरम्
॥
12
॥
नृसिंह
परमात्मानं
सर्वभूतनिवासिनम्
।
तस्य
दर्शनमात्रेण
सूर्यस्यालोकवद्भवेत्
॥
13
॥
सर्वं
नृसिंह
एवेति
सङ्ग्रहात्मा
सुदुर्लभः
।
नारसिंहः
परं
दैवं
नारसिंहो
जगद्गुरुः
॥
14
॥
नृसिंहेति
नृसिंहेति
प्रभाते
ये
पठन्ति
च
।
तेषां
प्रसन्नो
भगवान्
मोक्षं
सम्यक्
प्रयच्छति
॥
15
॥
ओङ्कारेभ्यश्च
पूतात्मा
ओङ्कारैक
प्रबोधितः
।
ओङ्कारो
मन्त्रराजश्च
लोके
मोक्षप्रदायकः
॥
16
॥
नृसिंहभक्ता
ये
लोके
निर्भया
निर्विकारकाः
।
तेषां
दर्शनमात्रेण
सर्वपापैः
प्रमुच्यते
॥
17
॥
सकारो
जीववाची
स्यादिकारः
परमेश्वरः
।
हकाराकारयोरैक्यं
महावाक्यं
ततो
भवेत्
॥
18
॥
ओङ्कारजा
प्रेतमुक्तिः
काश्यां
मरणं
तथा
।
नृसिंह
स्मरणादेव
मुक्तिर्भवति
नान्यथा
॥
19
॥
तस्मात्सर्वप्रयत्नेन
मन्त्रराजमिति
ध्रुवम्
।
सर्वेषां
चापि
वेदानां
देवतानां
तथैव
च
॥
20
॥
सर्वेषां
चापि
शास्त्राणां
तात्पर्यं
नृहरौ
हरौ
।
श्रीरामतापनीयस्य
गोपालस्यापि
तापिनः
॥
21
॥
नृसिंहतापनीयस्य
कलां
नार्हति
षोडशीम्
।
श्रीमन्मन्त्रमहाराज
नृसिंहस्य
प्रसादतः
॥
22
॥
श्रीनृसिंहो
नमस्तुभ्यं
श्रीनृसिंहः
प्रसीद
मे
।
नृसिंहो
भगवान्माता
श्रीनृसिंहः
पिता
मम
॥
23
॥
नृसिंहो
मम
पुत्रश्च
नरकात्त्रायते
यतः
।
सर्वदेवात्मको
यश्च
नृसिंहः
परिकीर्तितः
॥
24
॥
अश्वमेधसहस्राणि
वाजपेय
शतानि
च
।
काशी
रामेश्वरादीनि
फलान्यपि
निशम्य
च
॥
25
॥
यावत्फलं
समाप्नोति
तावदाप्नोति
मन्त्रतः
।
षण्णवत्यश्च
करणी
यावती
तृप्तिरिष्यते
॥
26
॥
पितॄणां
तावती
प्रीतिः
मन्त्रराजस्य
जायते
।
अपुत्रस्य
गतिर्नास्ति
इति
स्मृत्या
यदीरितम्
॥
27
॥
तत्तु
लक्ष्मीनृसिंहस्य
भक्तिमात्रावगोचरम्
।
सर्वाणि
तर्कमीमांसा
शास्त्राणि
परिहाय
वै
॥
28
॥
नृसिंह
स्मरणाल्लोके
तारकं
भवतारकम्
।
अपार
भववाराब्धौ
सततं
पततां
नृणाम्
॥
29
॥
नृसिंहमन्त्रराजोऽयं
नाविको
भाष्यते
बुधैः
।
यमपाशेन
बद्धानां
पङ्गुं
वै
तिष्ठतां
नृणाम्
॥
30
॥
नृसिंहमन्त्रराजोऽयं
ऋषयः
परिकीर्तितः
।
भवसर्पेण
दंष्ट्राणां
विवेकगत
चेतसाम्
॥
31
॥
नृसिंहमन्त्रराजोऽयं
गारुडोमन्त्र
उच्यते
।
अज्ञानतमसां
नृणामन्धवद्भ्रान्तचक्षुषाम्
॥
32
॥
नृसिंहमन्त्रराजोऽयं
प्रयासं
परिकीर्तितः
।
तापत्रयाग्नि
दग्धानां
छाया
संश्रयमिच्छताम्
॥
33
॥
नृसिंहमन्त्रराजश्च
भक्तमानसपञ्जरम्
।
नृसिंहो
भास्करो
भूत्वा
प्रकाशयति
मन्दिरम्
॥
34
॥
वेदान्तवनमध्यस्था
हरिणी
मृग
इष्यते
।
नृसिंह
नीलमेघस्य
सन्दर्शन
विशेषतः
॥
35
॥
मयूरा
भक्तिमन्तश्च
नृत्यन्ति
प्रीतिपूर्वकम्
।
अन्यत्र
निर्गता
वाला
मातरं
परिलोकय
॥
36
॥
यथा
यथा
हि
तुष्यन्ते
नृसिंहस्यावलोकनात्
।
श्रीमन्नृसिंहपादाब्जं
नत्वारङ्गप्रवेशिता
॥
37
॥
मदीय
बुद्धिवनिता
नटी
नृत्यति
सुन्दरी
।
श्रीमन्नृसिंहपादाब्ज
मधुपीत्वा
मदोन्मदः
॥
38
॥
मदीया
बुद्धिमालोक्य
मूढा
निन्दन्ति
माधवम्
।
श्रीमन्नृसिंहपादाब्जरेणुं
विधिसुभक्षणम्
॥
40
॥
मदीयचित्तहंसोऽयं
मनोवश्यं
न
याति
मे
।
श्रीनृसिंहः
पिता
मह्यं
माता
च
नरकेसरी
॥
41
॥
वर्तते
ताभुवौ
नित्यं
रौवहं
परियामि
वै
।
सत्यं
सत्यं
पुनः
सत्यं
नृसिंहः
शरणं
मम
॥
42
॥
अहोभाग्यं
अहोभाग्यं
नारसिंहो
गतिर्मम
।
श्रीमन्नृसिंहपादाब्जद्वन्द्वं
मे
हृदये
सदा
॥
43
॥
वर्ततां
वर्ततां
नित्यं
दृढभक्तिं
प्रयच्छ
मे
।
नृसिंह
तुष्टो
भक्तोऽयं
भुक्तिं
मुक्तिं
प्रयच्छति
॥
44
॥
नृसिंहहृदयं
यस्तु
पठेन्नित्यं
समाहितः
।
नृसिंहत्वं
समाप्नोति
नृसिंहः
सम्प्रसीदति
॥
45
॥
त्रिसन्ध्यं
यः
पठेन्नित्यं
मन्दवारे
विषेशतः
।
राजद्वारे
सभास्थाने
सर्वत्र
विजयी
भवेत्
॥
46
॥
यं
यं
चिन्तयते
कामं
तं
तं
प्राप्नोति
निश्चितम्
।
इह
लोके
शुभान्
कामान्
परत्र
च
पराङ्गतिम्
॥
47
॥
इति
भविष्योत्तरपुराणे
प्रह्लादकथितं
श्री
लक्ष्मीनृसिंह
हृदय
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits