हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री गायत्री लहरी
अमन्दानन्देनामरवरगृहे
वासनिरतां
नरं
गायन्तं
या
भुवि
भवभयात्त्रायत
इह
।
सुरेशैः
सम्पूज्यां
मुनिगणनुतां
तां
सुखकरीं
नमामो
गायत्रीं
निखिलमनुजाघौघशमनीम्
॥
1
॥
अवामा
सम्युक्तं
सकलमनुजैर्जाप्यमभिती
ह्यपायात्पायाद्भूरथ
भुवि
भुवः
स्वः
पदमिति
।
पदं
तन्मे
पादाववतु
सवितुश्चैव
जघने
वरेण्यं
श्रोणिं
मे
सततमवतान्नाभिमपि
च
॥
2
॥
पदं
भर्गो
देवस्य
मम
हृदयं
धीमहि
तथा
गलं
पायान्नित्यं
धिय
इह
पदं
चैव
रसनाम्
।
तथा
नेत्रे
योऽव्यादलकमवतान्नः
पदमिति
शिरोदेशं
पायान्मम
तु
परितश्चान्तिमपदम्
॥
3
॥
अये
दिव्ये
देवि
त्रिदशनिवहैर्वन्दितपदे
न
शेकुस्त्वां
स्तोतुं
भगवति
महान्तोऽपि
मुनयः
।
कथङ्कारं
तर्हिस्तुतिततिरियं
मे
शुभतरा
तथा
पूर्णा
भूयात्
त्रुटिपरियुता
भावरहिता
॥
4
॥
भजन्तं
निर्व्याजं
तव
सुखदमन्त्रं
विजयिनं
जनं
यावज्जीवं
जपति
जननि
त्वं
सुखयसि
।
न
वा
कामं
काचित्
कलुषकणिकाऽपि
स्पृशति
तं
संसारं
संसारं
सरति
सहसा
तस्य
सततम्
॥
5
॥
दधानां
ह्याधानं
सितकुवलयास्फालनरुचां
स्वयं
विभ्राजन्तीं
त्रिभुवनजनाह्लादनकरीम्
।
अलं
चालं
चालं
मम
चकितचित्तं
सुचपलं
चलच्चन्द्रास्ये
त्वद्वदनरुचमाचामय
चिरम्
॥
6
॥
ललामे
भाले
ते
बहुतर
विशालेऽति
विमले
कला
चञ्चच्चान्द्री
रुचिरतिलकावेन्दुकलया
।
नितान्तं
गोमाया
निविड
तमसो
नाश
व्यसना
तमो
मे
गाढं
हि
हृदयसदनस्थं
ग्लपयतु
॥
7
॥
अये
मातः
किं
ते
चरण
शरणं
संश्रयवतां
जनानामन्तस्थो
वृजिन
हुतभुक्
प्रज्वलति
यः
।
तदस्याशु
सम्यक्
प्रशमनहितायैव
विधृतं
करे
पात्रं
पुण्यं
सलिलभरितं
काष्ठरचितम्
॥
8
॥
अथाहोस्विन्मातः
सरिदधिपतेः
सारमखिलं
सुधारूपं
कूपं
लघुतरमनूपं
कलयति
।
स्वभक्तेभ्यो
नित्यं
वितरसि
जनोद्धारिणि
शुभे
विहीने
दीनेऽस्मिन्
मय्यपि
सकरुणां
कुरु
कृपाम्
॥
9
॥
सदैव
त्वत्पाणौ
विधृतमरविन्दं
द्युतिकरं
त्विदं
दर्शं
दर्शं
रविशशिसमं
नेत्रयुगलम्
।
विचिन्त्य
स्वां
वृत्तिं
भ्रमविषमजालेऽस्ति
पतितं
इदं
मन्ये
नो
चेत्
कथमिति
भवेदर्धविकचम्
॥
10
॥
स्वयं
मातः
किं
वा
त्वमसि
जलजानामपि
खनि-
-र्यतस्ते
सर्वाङ्गं
कमलमयमेवास्ति
किमु
नो
।
तथा
भीत्या
तस्माच्छरणमुपयातः
कमलराट्
प्रयुञ्जानोऽश्रान्तं
भवति
तदिहैवासनविधौ
॥
11
॥
दिवौकोभिर्वन्द्ये
विकसित
सरोजाक्षि
सुखदे
कृपादृष्टेर्वृष्टिः
सुनिपतति
यस्योपरि
तव
।
तदीयां
वाञ्छां
हि
द्रुतमनु
विदधासि
सफलां
अतोमन्तोस्तन्तून्
मम
सपदि
छित्वाऽम्ब
सुखय
॥
12
॥
करेऽक्षाणां
माला
प्रविलसति
या
तेऽतिविमले
किमर्थं
सा
कान्
वा
गणयसि
जनान्
भक्ति
निरतान्
।
जपन्ती
कं
मन्त्रं
प्रशमयसि
दुःखं
जनिजुषा
मये
का
वा
वाञ्छा
भवति
तव
त्वत्र
सुवरदे
॥
13
॥
न
मन्ये
धन्येऽहं
त्ववितथमिदं
लोकगदितं
ममात्रोक्तिर्मत्वा
कमलपति
फुल्लं
तव
करम्
।
विजृम्भा
सम्युक्त
द्युतिमिदमभि
कोकनदमि-
-त्यरं
जानानेयं
मधुकरतति
संविलसति
॥
14
॥
महामोहाम्भोधौ
मम
निपतिता
जीवनतरि-
-र्निरालम्बा
दोला
चलति
दुरवस्थामधिगता
।
जलावर्त
व्यालो
ग्रसितुमभितो
वाञ्छति
च
तां
करालम्बं
दत्वा
भगवति
द्रुतं
तारय
शिवे
॥
15
॥
दधानासित्वं
यत्
स्ववपुषि
पयोधार
युगल-
-मिति
श्रुत्वा
लोकैर्मम
मनसि
चिन्ता
समभवत्
।
कथं
स्यात्
सा
तस्मादलक
लतिका
मस्तक
भुवि
शिरोद्यौ
हृद्येयं
जलदपटली
खेलति
किल
॥
16
॥
तथा
तत्रैवोपस्थितमपि
निशीथिन्यधिपतेः
प्रपश्यामि
श्यामे
सह
सहचरैस्तारक
गणैः
।
अहोरात्र
क्रीडा
परवशमितास्तेऽपि
चकिता-
-श्चिरं
चिक्रीडन्ते
तदपि
महदाश्चर्यचरितम्
॥
17
॥
यदाहुस्तं
मुक्ता
पटल
जटितं
रत्नमुकुटं
न
धत्ते
तेषां
सा
वचनरचना
साधुपदवीम्
।
निशैषा
केशास्तु
नहि
विगत
वेशा
ध्रुवमिति
प्रसन्नाऽध्यासन्ना
विधुपरिषदेषा
विलसति
॥
18
॥
त्रिबीजे
हे
देवि
त्रिप्रणवसहिते
त्र्यक्षरयुते
त्रिमात्रा
राजन्ते
भुवनविभवे
ह्योमितिपदे
।
त्रिकालं
संसेव्ये
त्रिगुणवति
च
त्रिस्वरमयि
त्रिलोकेशैः
पूज्ये
त्रिभुवनभयात्त्राहि
सततम्
॥
19
॥
न
चन्द्रो
नैवेमे
नभसि
वितता
तारकगणाः
त्विषां
राशी
रम्या
तव
चरणयोरम्बुनिचये
।
पतित्वा
कल्लोलैः
सह
परिचयाद्विस्तृतिमिता
प्रभा
सैवाऽनन्ता
गगनमुकुरे
दीव्यति
सदा
॥
20
॥
त्वमेव
ब्रह्माणी
त्वमसि
कमला
त्वं
नगसुता
त्रिसन्ध्यं
सेवन्ते
चरणयुगलं
ये
तव
जनाः
।
जगज्जाले
तेषां
निपतित
जनानामिह
शुभे
समुद्धारार्थं
किं
मतिमति
मतिस्ते
न
भवति
॥
21
॥
अनेकैः
पापौघैर्लुलित
वपुषं
शोक
सहितं
लुठन्तं
दीनं
मां
विमल
पदयो
रेणुषु
तव
।
गलद्बाष्पं
शश्वद्
जननि
सहसाश्वासनवचो
ब्रुवाणोत्तिष्ठ
त्वं
अमृतकणिकां
पास्यसि
कदा
॥
22
॥
न
वा
मादृक्
पापी
न
हि
तव
समा
पापहरणी
न
दुर्बुद्धिर्मादृक्
न
च
तव
समा
धी
वितरिणी
।
न
मादृग्
गर्विष्ठो
न
हि
तव
समा
गर्वहरणी
हृदि
स्मृत्वा
ह्येवं
मयि
कुरु
यथेच्छा
तव
यथा
॥
23
॥
दरीधर्ति
स्वान्तेऽक्षर
वर
चतुर्विंशतिमितं
त्वदन्तर्मन्त्रं
यत्त्वयि
निहित
चेतो
हि
मनुजः
।
समन्ताद्भास्वन्तं
भवति
भुवि
सञ्जीवनवनं
भवाम्भोधेः
पारं
व्रजति
स
नितरां
सुखयुतः
॥
24
॥
भगवति
लहरीयं
रुद्रदेव
प्रणीता
तव
चरणसरोजे
स्थाप्यते
भक्तिभावैः
।
कुमतितिमिरपङ्कस्याङ्कमग्नं
सशङ्कं
अयि
खलु
कुरु
दत्वा
वीतशङ्कं
स्वमङ्कम्
॥
25
॥
इति
श्री
रुद्रदेव
विरचित
श्री
गायत्री
लहरी
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits