Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

श्री गायत्री भुजङ्ग स्तोत्रम्

उषःकालगम्यामुदात्त स्वरूपां
अकारप्रविष्टामुदाराङ्गभूषाम् ।
अजेशादि वन्द्यामजार्चाङ्गभाजां
अनौपम्यरूपां भजाम्यादिसन्ध्याम् ॥ 1 ॥
सदा हंसयानां स्फुरद्रत्नवस्त्रां
वराभीतिहस्तां खगाम्नायरूपाम् ।
स्फुरत्स्वाधिकामक्षमालां च कुम्भं
दधनामहं भावये पूर्वसन्ध्याम् ॥ 2 ॥
प्रवाल प्रकृष्टाङ्ग भूषोज्ज्वलन्तीं
किरीटोल्लसद्रत्नराजप्रभाताम् ।
विशालोरुभासां कुचाश्लेषहारां
भजे बालकां ब्रह्मविद्यां विनोदाम् ॥ 3 ॥
स्फुरच्चन्द्रकान्तां शरच्चन्द्रवक्त्रां
महाचन्द्रकान्ताद्रि पीनस्तनाढ्याम् ।
त्रिशूलाक्षहस्तां त्रिनेत्रस्य पत्नीं
वृषारूढपादां भजे मध्यसन्ध्याम् ॥ 4 ॥
षडाधाररूपां षडाधारगम्यां
षडध्वातिशुद्धां यजुर्वेदरूपाम् ।
हिमाद्रेः सुतां कुन्ददन्तावभासां
महेशार्धदेहां भजे मध्यसन्ध्याम् ॥ 5 ॥
सुषुम्नान्तरस्थां सुधासेव्यमाना-
-मुकारान्तरस्थां द्वितीयस्वरूपाम् ।
सहस्रार्करश्मि प्रभासत्रिनेत्रां
सदा यौवनाढ्यां भजे मध्यसन्ध्याम् ॥ 6 ॥
सदासामगानां प्रियां श्यामलाङ्गीं
अकारान्तरस्थां करोल्लासिचक्राम् ।
गदापद्महस्तां ध्वनत्पाञ्चजन्यां
खगेशोपविष्टां भजेमास्तसन्ध्याम् ॥ 7 ॥
प्रगल्भस्वरूपां स्फुरत्कङ्कणाढ्यां
अहंलम्बमानस्तनप्रान्तहारम् ।
महानीलरत्नप्रभाकुण्डलाभ्यां
स्फुरत्स्मेरवक्त्रां भजे तुर्यसन्ध्याम् ॥ 8 ॥
सदातत्त्वमस्यादि वाक्यैकगम्यां
महामोक्षमार्गैक पाथेयरूपाम् ।
महासिद्धविद्याधरैः सेव्यमानां
भजेऽहं भवोत्तारणीं तुर्यसन्ध्याम् ॥ 9 ॥
हृदम्भोजमध्ये पराम्नायमीडे
सुखासीनसद्राजहंसां मनोज्ञाम् ।
सदा हेमभासां त्रयीविद्यमध्यां
भजाम स्तुवामो वदाम स्मरामः ॥ 10 ॥
सदा तत्पदैस्तूयमानां सवित्रीं
वरेण्यां महाभर्गरूपां त्रिनेत्राम् ।
सदा देवदेवादि देवस्य पत्नीं
अहं धीमहीत्यादि पादैक जुष्टाम् ॥ 11 ॥
अनाथं दरिद्रं दुराचारयुक्तं
शठं स्थूलबुद्धिं परं धर्महीनम् ।
त्रिसन्ध्यां जपध्यानहीनं महेशीं
परं चिन्तयामि प्रसीद त्वमेव ॥ 12 ॥
इतीदं भुजङ्गं पठेद्यस्तु भक्त्या
समाधाय चित्ते सदा श्रीभवानीम् ।
त्रिसन्ध्यस्वरूपां त्रिलोकैकवन्द्यां
स मुक्तो भवेत्सर्वपापैरजस्रम् ॥ 13 ॥
इति श्री गायत्री भुजङ्ग स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits