Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

श्री गायत्र्यक्षरवल्ली स्तोत्रम्

तत्कारं चम्पकं पीतं ब्रह्मविष्णुशिवात्मकम् ।
शान्तं पद्मासनारूढं ध्यायेत् स्वस्थान संस्थितम् ॥ 1 ॥
सकारं चिन्तयेच्छान्तं अतसीपुष्पसन्निभम् ।
पद्ममध्यस्थितं काम्यमुपपातकनाशनम् ॥ 2 ॥
विकारं कपिलं चिन्त्यं कमलासनसंस्थितम् ।
ध्यायेच्छान्तं द्विजश्रेष्ठो महापातकनाशनम् ॥ 3 ॥
तुकारं चिन्तयेत्प्राज्ञ इन्द्रनीलसमप्रभम् ।
निर्दहेत्सर्वदुःखस्तु ग्रहरोगसमुद्भवम् ॥ 4 ॥
वकारं वह्निदीप्ताभं चिन्तयित्वा विचक्षणः ।
भ्रूणहत्याकृतं पापं तक्षणादेव नाशयेत् ॥ 5 ॥
रेकारं विमलं ध्यायेच्छुद्धस्फटिकसन्निभम् ।
पापं नश्यति तत् क्षिप्रमगम्यागमनोद्भवम् ॥ 6 ॥
णिकारं चिन्तयेद्योगी विद्युद्वल्लीसमप्रभम् ।
अभक्ष्यभक्षजं पापं तत्क्षणादेव नश्यति ॥ 7 ॥
यङ्कारं तारकावर्णमिन्दुशेखरभूषितम् ।
योगिनां वरदं ध्यायेद्ब्रह्महत्याघनाशनम् ॥ 8 ॥
भकारं कृष्णवर्णं तु नीलमेघसमप्रभम् ।
ध्यात्वा पुरुषहत्यादि पापं नाशयति द्विजः ॥ 9 ॥
र्गोकारं रक्तवर्णं तु कमलासन संस्थितम् ।
तं गोहत्याकृतं पापं नाशयेच्च विचिन्तयन् ॥ 10 ॥
देकारं मकरश्यामं कमलासनसंस्थितम् ।
चिन्तयेत्सततं योगी स्त्रीहत्यादहनं परम् ॥ 11 ॥
वकारं शुक्लवर्णं तु जाजीपुष्पसमप्रभम् ।
गुरुहत्या कृतं पापं ध्यात्वा दहति तत्क्षणात् ॥ 12 ॥
स्यकारं च तदा पीतं सुवर्ण सदृशप्रभम् ।
मनसा चिन्तितं पापं ध्यात्वा दहति निश्चयम् ॥ 13 ॥
धीकारं चिन्तयेच्छुभ्रं कुन्दपुष्पसमप्रभम् ।
पितृमातृवधात्पापान्मुच्यते नात्र संशयः ॥ 14 ॥
मकारं पद्मरागाभां चिन्तयेद्दीप्ततेजसम् ।
पूर्वजन्मार्जितं पापं तत्क्षणादेव नश्यति ॥ 15 ॥
हिकारं शङ्खवर्णं च पूर्णचन्द्रसमप्रभम् ।
अशेषपापदहनं ध्यायेन्नित्यं विचक्षणः ॥ 16 ॥
धिकारं पाण्डुरं ध्यायेत्पद्मस्योपरिसंस्थितम् ।
प्रतिग्रहकृतं पापं तत्क्षणादेव नश्यति ॥ 17 ॥
योकारं रक्तवर्णं तु इन्द्रगोपसमप्रभम् ।
ध्यात्वा प्राणिवधं पापं दहत्यग्निरिवेन्धनम् ॥ 18 ॥
द्वितीयच्चैव यः प्राक्तो योकारो रक्तसन्निभः ।
निर्दहेत्सर्वपापानि नान्यैः पापैश्च लिप्यते ॥ 19 ॥
नकारं तु मुखं पूर्वमादित्योदयसन्निभम् ।
सकृद्ध्यात्वा द्विजश्रेष्ठ सगच्छेदैश्वरं परम् ॥ 20 ॥
नीलोत्पलदलश्यामं प्रकारं दक्षिणाननम् ।
सकृद्ध्यात्वा द्विजश्रेष्ठ सगच्छेद्वैष्णवं पदम् ॥ 21 ॥
श्वेतवर्णं तु तत्पीतं चोकारं पश्चिमाननम् ।
सकृद्ध्यात्वा द्विजश्रेष्ठ रुद्रेण सहमोदते ॥ 22 ॥
शुक्लवर्णेन्दुसङ्काशं दकारं चोत्तराननम् ।
सकृद्ध्यात्वा द्विजश्रेष्ठ सगच्छेद्ब्रह्मणःपदम् ॥ 23 ॥
यात्कारस्तु शिरः प्रोक्तश्चतुर्थवदनप्रभः ।
प्रत्यक्ष फलदो ब्रह्मा विष्णु रुद्रात्मकः स्मृतः ॥ 24 ॥
एवं ध्यात्वा तु मेधावी जपं होमं करोति यः ।
न भवेत्पातकं तस्य अमृतं किं न विद्यते ।
साक्षाद्भवत्यसौ ब्रह्मा स्वयम्भूः परमेश्वरः ॥ 25 ॥
इति श्री गायत्र्यक्षरवल्ली स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits