ओं विनायकाय नमः ।
ओं विघ्नराजाय नमः ।
ओं गौरीपुत्राय नमः ।
ओं गणेश्वराय नमः ।
ओं स्कंदाग्रजाय नमः ।
ओं अव्ययाय नमः ।
ओं पूताय नमः ।
ओं दक्षाय नमः ।
ओं अध्यक्षाय नमः ।
ओं द्विजप्रियाय नमः । 10
ओं अग्निगर्वच्छिदे नमः ।
ओं इंद्रश्रीप्रदाय नमः ।
ओं वाणीप्रदायकाय नमः ।
ओं सर्वसिद्धिप्रदाय नमः ।
ओं शर्वतनयाय नमः ।
ओं शर्वरीप्रियाय नमः ।
ओं सर्वात्मकाय नमः ।
ओं सृष्टिकर्त्रे नमः ।
ओं देवानीकार्चिताय नमः ।
ओं शिवाय नमः । 20
ओं सिद्धिबुद्धिप्रदाय नमः ।
ओं शांताय नमः ।
ओं ब्रह्मचारिणे नमः ।
ओं गजाननाय नमः ।
ओं द्वैमातुराय नमः ।
ओं मुनिस्तुत्याय नमः ।
ओं भक्तविघ्नविनाशनाय नमः ।
ओं एकदंताय नमः ।
ओं चतुर्बाहवे नमः ।
ओं चतुराय नमः । 30
ओं शक्तिसंयुताय नमः ।
ओं लंबोदराय नमः ।
ओं शूर्पकर्णाय नमः ।
ओं हरये नमः ।
ओं ब्रह्मविदुत्तमाय नमः ।
ओं काव्याय नमः ।
ओं ग्रहपतये नमः ।
ओं कामिने नमः ।
ओं सोमसूर्याग्निलोचनाय नमः ।
ओं पाशांकुशधराय नमः । 40
ओं चंडाय नमः ।
ओं गुणातीताय नमः ।
ओं निरंजनाय नमः ।
ओं अकल्मषाय नमः ।
ओं स्वयं सिद्धाय नमः ।
ओं सिद्धार्चितपदांबुजाय नमः ।
ओं बीजापूरफलासक्ताय नमः ।
ओं वरदाय नमः ।
ओं शाश्वताय नमः ।
ओं कृतिने नमः । 50
ओं द्विजप्रियाय नमः ।
ओं वीतभयाय नमः ।
ओं गदिने नमः ।
ओं चक्रिणे नमः ।
ओं इक्षुचापधृते नमः ।
ओं श्रीदाय नमः ।
ओं अजाय नमः ।
ओं उत्पलकराय नमः ।
ओं श्रीपतिस्तुतिहर्षिताय नमः ।
ओं कुलाद्रिभेत्त्रे नमः । 60
ओं जटिलाय नमः ।
ओं चंद्रचूडाय नमः ।
ओं अमरेश्वराय नमः ।
ओं नागयज्ञोपवीतवते नमः ।
ओं कलिकल्मषनाशनाय नमः ।
ओं स्थुलकंठाय नमः ।
ओं स्वयंकर्त्रे नमः ।
ओं सामघोषप्रियाय नमः ।
ओं पराय नमः ।
ओं स्थूलतुंडाय नमः । 70
ओं अग्रण्याय नमः ।
ओं धीराय नमः ।
ओं वागीशाय नमः ।
ओं सिद्धिदायकाय नमः ।
ओं दूर्वाबिल्वप्रियाय नमः ।
ओं कांताय नमः ।
ओं पापहारिणे नमः ।
ओं समाहिताय नमः ।
ओं आश्रितश्रीकराय नमः ।
ओं सौम्याय नमः । 80
ओं भक्तवांछितदायकाय नमः ।
ओं शांताय नमः ।
ओं अच्युतार्च्याय नमः ।
ओं कैवल्याय नमः ।
ओं सच्चिदानंदविग्रहाय नमः ।
ओं ज्ञानिने नमः ।
ओं दयायुताय नमः ।
ओं दांताय नमः ।
ओं ब्रह्मद्वेषविवर्जिताय नमः ।
ओं प्रमत्तदैत्यभयदाय नमः । 90
ओं व्यक्तमूर्तये नमः ।
ओं अमूर्तिमते नमः ।
ओं शैलेंद्रतनुजोत्संगखेलनोत्सुकमानसाय नमः ।
ओं स्वलावण्यसुधासारजितमन्मथविग्रहाय नमः ।
ओं समस्तजगदाधाराय नमः ।
ओं मायिने नमः ।
ओं मूषकवाहनाय नमः ।
ओं रमार्चिताय नमः ।
ओं विधये नमः ।
ओं श्रीकंठाय नमः । 100
ओं विबुधेश्वराय नमः ।
ओं चिंतामणिद्वीपपतये नमः ।
ओं परमात्मने नमः ।
ओं गजाननाय नमः ।
ओं हृष्टाय नमः ।
ओं तुष्टाय नमः ।
ओं प्रसन्नात्मने नमः ।
ओं सर्वसिद्धिप्रदायकाय नमः । 108