Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

तारा स्तोत्रम्

ध्यानम् ओं प्रत्यालीढपदार्चिताङ्घ्रिशवहृद् घोराट्टहासा परा खड्गेन्दीवरकर्त्रिकर्परभुजा हुङ्कार बीजोद्भवा सर्वा नीलविशालपिङ्गलजटाजूटैक नागैर्युता जाड्यन्यस्य कपालके त्रिजगतां हन्त्युग्रतारा स्वयम् शून्यस्थामतितेजसां दधतीं शूलाब्ज खड्गं गदां मुक्ताहारसुबद्ध रत्न रसनां कर्पूर कुन्दोज्वलाम् वन्दे विष्णुसुरेन्द्ररुद्रनमितां त्रैलोक्य रक्षापराम् नीलां तामहिभूषणाधिवलयामत्युग्रतारां भजे स्तोत्रं मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे फुल्लेन्दीवरलोचने त्रिनयने कर्त्रीकपालोत्पले खड्गं चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये 1 वाचामीश्वरि भक्तिकल्पलतिके सर्वार्थसिद्धीश्वरि गद्यप्राकृतपद्यजातरचनासर्वार्थसिद्धिप्रदे नीलेन्दीवरलोचनत्रययुते कारुण्यवारान्निधे सौभाग्यामृतवर्धनेन कृपयासिञ्च त्वमस्मादृशम् 2 खर्वे गर्वसमूहपूरिततनो सर्पादिवेषोज्वले व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते सद्यःकृत्तगलद्रजःपरिमिलन्मुण्डद्वयीमूर्धजे ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय 3 मायानङ्गविकाररूपललनाबिन्द्वर्धचन्द्राम्बिके हुम्फट्कारमयि त्वमेव शरणं मन्त्रात्मिके मादृशः मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परा वेदानां नहि गोचरा कथमपि प्राज्ञैर्नुतामाश्रये 4 त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां तस्याः श्रीपरमेश्वरत्रिनयनब्रह्मादिसाम्यात्मनः संसाराम्बुधिमज्जने पटुतनुर्देवेन्द्रमुख्यासुरान् मातस्ते पदसेवने हि विमुखान् किं मन्दधीः सेवते 5 मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिणस्ते देवा जयसङ्गरे विजयिनो निश्शङ्कमङ्के गताः देवोऽहं भुवने मे सम इति स्पर्धां वहन्तः परे तत्तुल्यां नियतं यथा शशिरवी नाशं व्रजन्ति स्वयम् 6 त्वन्नामस्मरणात्पलायनपरान्द्रष्टुं शक्ता ते भूतप्रेतपिशाचराक्षसगणा यक्षश्च नागाधिपाः दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवो डाकिन्यः कुपितान्तकश्च मनुजान् मातः क्षणं भूतले 7 लक्ष्मीः सिद्धिगणश्च पादुकमुखाः सिद्धास्तथा वैरिणां स्तम्भश्चापि वराङ्गने गजघटास्तम्भस्तथा मोहनम् मातस्त्वत्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाः क्लान्तः कान्तमनोभवोऽत्र भवति क्षुद्रोऽपि वाचस्पतिः 8 ताराष्टकमिदं पुण्यं भक्तिमान् यः पठेन्नरः प्रातर्मध्याह्नकाले सायाह्ने नियतः शुचिः 9 लभते कवितां विद्यां सर्वशास्त्रार्थविद्भवेत् लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान्यथेप्सितान् कीर्तिं कान्तिं नैरुज्यं प्राप्त्यान्ते मोक्षमाप्नुयात् 10

Recite with devotion and pure heart

Regular practice brings spiritual benefits