Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

तारा हृदयम्

श्री शिव उवाच ।
शृणु पार्वति भद्रं ते लोकानां हितकारकं ।
कथ्यते सर्वदा गोप्यं ताराहृदयमुत्तमम् ॥ 1 ॥
श्री पार्वत्युवाच ।
स्तोत्रं कथं समुत्पन्नं कृतं केन पुरा प्रभो ।
कथ्यतां सर्ववृत्तान्तं कृपां कृत्वा ममोपरि ॥ 2 ॥
श्री शिव उवाच ।
रणेदेवासुरे पूर्वं कृतमिन्द्रेण सुप्रिये ।
दुष्टशत्रुविनाशार्थं बल वृद्धि यशस्करम् ॥ 3 ॥
ओं अस्य श्रीमदुग्रतारा हृदय स्तोत्र मन्त्रस्य – श्री भैरव ऋषिः – अनुष्टुप्छन्दः – श्रीमदुग्रतारादेवता – स्त्रीं बीजं – हूम्शक्तिः – नमः कीलकं – सकलशत्रुविनाशार्थे जपे विनियोगः ।
करन्यासः –
ओं स्त्रीं अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं हूं मध्यमाभ्य़ां नमः ।
ओं त्रीं अनामिकाभ्यां नमः ।
ओं ऐं कनिष्ठकाभ्य़ां नमः ।
ओं हंसः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ओं स्त्रीं हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं हूं शिखायै वषट् ।
ओं त्रीं कवचाय हुं ।
ओं ऐं नेत्रत्रयाय वौषट् ।
ओं हंसः अस्त्रायफट् ।
ध्यानम् ।
ध्यायेत्कोटिदिवाकरद्युतिनिभां बालेन्दुयुक्छेखरां
रक्ताङ्गीं विकटां सुरक्तवसनां पूर्णेन्दुबिम्बाननां ।
पाशङ्खड्गमहाङ्कुशादि दधतीं दोर्भिश्चतुर्भिर्युतां
नानाभूषणभूषितां भगवतीं तारां जगत्तारिणीं ॥ 4 ॥
एवं ध्यात्वा शुभां तारां ततस्तु हृदयं पठेत् ।
तारिणी तत्त्वनिष्ठानां सर्वतत्त्वप्रकाशिका ॥ 5 ॥
रामाभिन्नापदाशक्तिश्शत्रुनाशं करोतु मे ।
सर्वदाशत्रुसंरंभे तारा मे कुरुतां जयम् ॥ 6 ॥
स्त्रीं त्रीं स्वरूपिणी देवी त्रिषु लोकेषु विश्रुता ।
तव स्नेहान्मयाख्यातं न पशूनां प्रकाशयेत् ॥ 7 ॥
शृणु देवि तवस्नेहात्तारानामानि तत्वतः ।
वर्णयिष्यामि गुप्तानि दुर्लभानि जगत्त्रये ॥ 8 ॥
तारिणी तरला तारा त्रिरूपा तरणीप्रभा ।
तत्त्वरूपा महासाध्वी सर्वसज्जनपालिका ॥ 9 ॥
रमणीया रजोरूपा जगत्सृष्टिकरी परा ।
तमोरूपा महामाया घोरारावा भयानका ॥ 10 ॥
कालरूपा कालिकाख्या जगद्विध्वंसकारिणी ।
तत्त्वज्ञाना परानन्ता तत्त्वज्ञानप्रदाऽनघा ॥ 11 ॥
रक्ताङ्गी रक्तवस्त्रा च रक्तमालासुशोभिता ।
सिद्धिलक्ष्मीश्च ब्रह्माणि महाकाली महालया ॥ 12 ॥
नामान्येतानि ये मर्त्यास्सर्वदैकाग्रमानसाः ।
प्रपठन्ति प्रिये तेषां किङ्करत्वं करोम्यहम् ॥ 13 ॥
तारां तारपरान्देवीं तारकेश्वरपूजितां ।
तारिणीं भवपाथोधेरुग्रतारां भजाम्यहम् ॥ 14 ॥
स्त्रीं ह्रीं हूं त्रीं फण्मन्त्रेण जलं जप्त्वाऽभिषेचयेत् ।
सर्वरोगाः प्रणश्यन्ति सत्यं सत्यं वदाम्यहम् ॥ 15 ॥
त्रीं स्वाहान्तैर्महामन्त्रैश्चन्दनं साधयेत्ततः ।
तिलकं कुरुते प्राज्ञो लोकोवश्योभवेत्प्रिये ॥ 16 ॥
स्त्रीं ह्रीं त्रीं स्वाहा मन्त्रेण श्मशानं भस्म मन्त्रयेत् ।
शत्रोर्गृहे प्रतिक्षिप्ते शत्रोर्मृत्युर्भविष्यति ॥ 17 ॥
ह्रीं हूं स्त्रीं फडन्तमन्त्रैः पुष्पं सम्शोध्यसप्तधा ।
उच्चाटनं करोत्याशु रिपूणां नैव सम्शयः ॥ 18 ॥
स्त्रीं त्रीं ह्रीं मन्त्रवर्येण अक्षताश्चाभि मन्त्रिताः ।
तत्प्रतिक्षेपमात्रेण शीघ्रमायाति मानिनी ॥ 19 ॥
हंसः ओं ह्रीं स्त्रीं हूं हंसः ।
इति मन्त्रेण जप्तेन शोधितं कज्जलं प्रिये ।
तस्यैव तिलकं कृत्वा जगन्मोहं स वशं नयेत् ॥ 20 ॥
ताराया हृदयं देवि सर्वपापप्रणाशनं ।
राजपेयादि यज्ञानां कोटि कोटि गुणोत्तरम् ॥ 21 ॥
गङ्गादि सर्वतीर्थानां फलं कोटिगुणं स्मृतं ।
महादुःखे महारोगे सङ्कटे प्राणसम्शये ॥ 22 ॥
महाभये महाघोरे पठेत् स्तोत्रं महोत्तमं ।
सत्यं सत्यं मयोक्तन्ते पार्वति प्राणवल्लभे ॥ 23 ॥
गोपनीयं प्रयत्नेन न प्रकाश्यमिदं क्वचित् ॥ 24 ॥
इति श्री भैरवीतन्त्रे शिवपार्वती संवादे श्रीमदुग्रताराहृदयं ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits