Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

श्यामला षोडशनाम स्तोत्रम्

हयग्रीव उवाच ।
सङ्गीतयोगिनी श्यामा श्यामला मन्त्रनायिका ।
मन्त्रिणी सचिवेशी च प्रधानेशी शुकप्रिया ॥ 1 ॥
वीणावती वैणिकी च मुद्रिणी प्रियकप्रिया ।
नीपप्रिया कदम्बेशी कदम्बवनवासिनी ॥ 2 ॥
सदामदा च नामानि षोडशैतानि कुम्भज ।
एतैर्यः सचिवेशानीं सकृत् स्तौति शरीरवान् ।
तस्य त्रैलोक्यमखिलं हस्ते तिष्ठत्यसंशयम् ॥ 3 ॥
इति श्री ब्रह्माण्डपुराणे ललितोपाख्याने सप्तदशोऽध्याये श्री श्यामला षोडश नाम स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits