हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
मीनाक्षी पञ्च रत्न स्तोत्रम्
उद्यद्भानुसहस्रकोटिसदृशां
केयूरहारोज्ज्वलां
बिम्बोष्ठीं
स्मितदन्तपङ्क्तिरुचिरां
पीताम्बरालङ्कृताम्
।
विष्णुब्रह्मसुरेन्द्रसेवितपदां
तत्त्वस्वरूपां
शिवां
मीनाक्षीं
प्रणतोऽस्मि
सन्ततमहं
कारुण्यवारान्निधिम्
॥
1
॥
मुक्ताहारलसत्किरीटरुचिरां
पूर्णेन्दुवक्त्रप्रभां
शिञ्जन्नूपुरकिङ्किणीमणिधरां
पद्मप्रभाभासुराम्
।
सर्वाभीष्टफलप्रदां
गिरिसुतां
वाणीरमासेवितां
मीनाक्षीं
प्रणतोऽस्मि
सन्ततमहं
कारुण्यवारान्निधिम्
॥
2
॥
श्रीविद्यां
शिववामभागनिलयां
ह्रीङ्कारमन्त्रोज्ज्वलां
श्रीचक्राङ्कितबिन्दुमध्यवसतिं
श्रीमत्सभानायकीम्
।
श्रीमत्षण्मुखविघ्नराजजननीं
श्रीमज्जगन्मोहिनीं
मीनाक्षीं
प्रणतोऽस्मि
सन्ततमहं
कारुण्यवारान्निधिम्
॥
3
॥
श्रीमत्सुन्दरनायिकां
भयहरां
ज्ञानप्रदां
निर्मलां
श्यामाभां
कमलासनार्चितपदां
नारायणस्यानुजाम्
।
वीणावेणुमृदङ्गवाद्यरसिकां
नानाविधामम्बिकां
मीनाक्षीं
प्रणतोऽस्मि
सन्ततमहं
कारुण्यवारान्निधिम्
॥
4
॥
नानायोगिमुनीन्द्रहृत्सुवसतीं
नानार्थसिद्धिप्रदां
नानापुष्पविराजिताङ्घ्रियुगलां
नारायणेनार्चिताम्
।
नादब्रह्ममयीं
परात्परतरां
नानार्थतत्वात्मिकां
मीनाक्षीं
प्रणतोऽस्मि
सन्ततमहं
कारुण्यवारान्निधिम्
॥
5
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits