श्वर उवाच ।
शृणु देवि प्रवक्ष्यामि साम्प्रतं तत्त्वतः परम् ।
नाम्नां सहस्रं परमं सुमुख्याः सिद्धये हितम् ॥ 1 ॥
सहस्रनामपाठी यः सर्वत्र विजयी भवेत् ।
पराभवो न तस्यास्ति सभायां वा महारणे ॥ 2 ॥
यथा तुष्टा भवेद्देवी सुमुखी चास्य पाठतः ।
तथा भवति देवेशि साधकः शिव एव सः ॥ 3 ॥
अश्वमेधसहस्राणि वाजपेयस्य कोटयः ।
सकृत्पाठेन जायन्ते प्रसन्ना सुमुखी भवेत् ॥ 4 ॥
मतङ्गोऽस्य ऋषिश्छन्दोऽनुष्टुब्देवी समीरिता ।
सुमुखी विनियोगः स्यात्सर्वसम्पत्तिहेतवे ।
एवं ध्यात्वा पठेदेतद्यदीच्छेत्सिद्धिमात्मनः ॥ 5 ॥
ध्यानम् ।
देवीं षोडशवार्षिकीं शवगतां माध्वीरसाघूर्णितां
श्यामाङ्गीमरुणाम्बरां पृथुकुचां गुञ्जावलीशोभिताम् ।
हस्ताभ्यां दधतीं कपालममलं तीक्ष्णां तथा कर्त्रिकां
ध्यायेन्मानसपङ्कजे भगवतीमुच्छिष्टचाण्डालिनीम् ॥ 1 ॥
स्तोत्रम् ।
ओं सुमुखी शेमुषी सेव्या सुरसा शशिशेखरा ।
समानास्या साधनी च समस्तसुरसम्मुखी ॥ 2 ॥
सर्वसम्पत्तिजननी सम्पदा सिन्धुसेविनी ।
शम्भुसीमन्तिनी सौम्या समाराध्या सुधारसा ॥ 3 ॥
सारङ्गा सवली वेला लावण्यवनमालिनी ।
वनजाक्षी वनचरी वनी वनविनोदिनी ॥ 4 ॥
वेगिनी वेगदा वेगा बगलस्था बलाधिका ।
काली कालप्रिया केली कमला कालकामिनी ॥ 5 ॥
कमला कमलस्था च कमलस्था कलावती ।
कुलीना कुटिला कान्ता कोकिला कलभाषिणी ॥ 6 ॥
कीरा केलिकरा काली कपालिन्यपि कालिका ।
केशिनी च कुशावर्ता कौशाम्भी केशवप्रिया ॥ 7 ॥
काली काशी महाकालसङ्काशा केशदायिनी ।
कुण्डला च कुलस्था च कुण्डलाङ्गदमण्डिता ॥ 8 ॥
कुण्डपद्मा कुमुदिनी कुमुदप्रीतिवर्धिनी ।
कुण्डप्रिया कुण्डरुचिः कुरङ्गनयनाकुला ॥ 9 ॥
कुन्दबिम्बालिनदिनी कुसुम्भकुसुमाकरा ।
काञ्ची कनकशोभाढ्या क्वणत्किङ्किणिकाकटिः ॥ 10 ॥
कठोरकरणा काष्ठा कौमुदी कण्डवत्यपि ।
कपर्दिनी कपटिनी कठिनी कलकण्डिनी ॥ 11 ॥
कीरहस्ता कुमारी च कुरूढकुसुमप्रिया ।
कुञ्जरस्था कुजरता कुम्भी कुम्भस्तनी कला ॥ 12 ॥
कुम्भीकाङ्गा करभोरूः कदलीकुशशायिनी ।
कुपिता कोटरस्था च कङ्काली कन्दलालया ॥ 13 ॥
कपालवासिनी केशी कम्पमानशिरोरुहा ।
कादम्बरी कदम्बस्था कुङ्कुमप्रेमधारिणी ॥ 14 ॥
कुटुम्बिनी कृपायुक्ता क्रतुः क्रतुकरप्रिया ।
कात्यायनी कृत्तिका च कार्तिकी कुशवर्तिनी ॥ 15 ॥
कामपत्नी कामदात्री कामेशी कामवन्दिता ।
कामरूपा कामरतिः कामाख्या ज्ञानमोहिनी ॥ 16 ॥
खड्गिनी खेचरी खञ्जा खञ्जरीटेक्षणा खगा ।
खरगा खरनादा च खरस्था खेलनप्रिया ॥ 17 ॥
खरांशुः खेलिनी खट्वा खरा खट्वाङ्गधारिणी ।
खरखण्डिन्यपि ख्यातिः खण्डिता खण्डनप्रिया ॥ 18 ॥
खण्डप्रिया खण्डखाद्या खण्डसिन्धुश्च खण्डिनी ।
गङ्गा गोदावरी गौरी गौतम्यपि च गोमती ॥ 19 ॥
गङ्गा गया गगनगा गारुडी गरुडध्वजा ।
गीता गीतप्रिया गेया गुणप्रीतिर्गुरुर्गिरी ॥ 20 ॥
गौर्गौरी गण्डसदना गोकुला गोप्रतारिणी ।
गोप्ता गोविन्दिनी गूढा गूढविग्रस्तगुञ्जिनी ॥ 21 ॥
गजगा गोपिनी गोपी गोक्षा जयप्रिया गणा ।
गिरिभूपालदुहिता गोगा गोकुलवासिनी ॥ 22 ॥
घनस्तनी घनरुचिर्घनोरुर्घननिःस्वना ।
घुङ्कारिणी घुक्षकरी घूघूकपरिवारिता ॥ 23 ॥
घण्टानादप्रिया घण्टा घोटा घोटकवाहिनी ।
घोररूपा च घोरा च घृतप्रीतिर्घृताञ्जनी ॥ 24 ॥
घृताची घृतवृष्टिश्च घण्टाघटघटावृता ।
घटस्था घटना घातकरी घातनिवारिणी ॥ 25 ॥
चञ्चरीकी चकोरी च चामुण्डा चीरधारिणी ।
चातुरी चपला चञ्चुश्चिता चिन्तामणिस्थिता ॥ 26 ॥
चातुर्वर्ण्यमयी चञ्चुश्चोराचार्या चमत्कृतिः ।
चक्रवर्तिवधूश्चित्रा चक्राङ्गी चक्रमोदिनी ॥ 27 ॥
चेतश्चरी चित्तवृत्तिश्चेतना चेतनप्रिया ।
चापिनी चम्पकप्रीतिश्चण्डा चण्डालवासिनी ॥ 28 ॥
चिरञ्जीविनी तच्चित्ता चिञ्चामूलनिवासिनी ।
छुरिका छत्रमध्यस्था छिन्दा छिन्दकरी छिदा ॥ 29 ॥
छुच्छुन्दरी छलप्रीतिश्छुच्छुन्दरिनिभस्वना ।
छलिनी छत्रदा छिन्ना छिण्टिच्छेदकरी छटा ॥ 30 ॥
छद्मिनी छान्दसी छाया छरुच्छन्दकरीत्यपि ।
जयदाजयदा जाती जायिनी जामला जतुः ॥ 31 ॥
जम्बूप्रिया जीवनस्था जङ्गमा जङ्गमप्रिया ।
जपापुष्पप्रिया जप्या जगज्जीवा जगज्जनिः ॥ 32 ॥
जगज्जन्तुप्रधाना च जगज्जीवपरा जवा ।
जातिप्रिया जीवनस्था जीमूतसदृशीरुचिः ॥ 33 ॥
जन्या जनहिता जाया जन्मभूर्जम्भसी जभूः ।
जयदा जगदावासा जायिनी ज्वरकृच्छ्रजित् ॥ 34 ॥
जपा च जपती जप्या जपार्हा जायिनी जना ।
जालन्धरमयी जानुर्जालौका जाप्यभूषणा ॥ 35 ॥
जगज्जीवमयी जीवा जरत्कारुर्जनप्रिया ।
जगतीजननिरता जगच्छोभाकरी जवा ॥ 36 ॥
जगतीत्राणकृज्जङ्घा जातीफलविनोदिनी ।
जातीपुष्पप्रिया ज्वाला जातिहा जातिरूपिणी ॥ 37 ॥
जीमूतवाहनरुचिर्जीमूता जीर्णवस्त्रकृत् ।
जीर्णवस्त्रधरा जीर्णा ज्वलती जालनाशिनी ॥ 38 ॥
जगत्क्षोभकरी जातिर्जगत्क्षोभविनाशिनी ।
जनापवादा जीवा च जननीगृहवासिनी ॥ 39 ॥
जनानुरागा जानुस्था जलवासा जलार्तिकृत् ।
जलजा जलवेला च जलचक्रनिवासिनी ॥ 40 ॥
जलमुक्ता जलारोहा जलसा जलजेक्षणा ।
जलप्रिया जलौका च जलशोभावती तथा ॥ 41 ॥
जलविस्फूर्जितवपुर्ज्वलत्पावकशोभिनी ।
झिञ्झा झिल्लमयी झिञ्झाझणत्कारकरी जया ॥ 42 ॥
झञ्झी झम्पकरी झम्पा झम्पत्रासनिवारिणी ।
टङ्कारस्था टङ्ककरी टङ्कारकरणांहसा ॥ 43 ॥
टङ्कारोट्टकृतष्ठीवा डिण्डीरवसनावृता ।
डाकिनी डामरी चैव डिण्डिमध्वनिनादिनी ॥ 44 ॥
डकारनिःस्वनरुचिस्तपिनी तापिनी तथा ।
तरुणी तुन्दिला तुन्दा तामसी च तमःप्रिया ॥ 45 ॥
ताम्रा ताम्रवती तन्तुस्तुन्दिला तुलसम्भवा ।
तुलाकोटिसुवेगा च तुल्यकामा तुलाश्रया ॥ 46 ॥
तुदनी तुननी तुम्बी तुलाकाला तुलाश्रवा ।
तुमुला तुलजा तुल्या तुलादानकरी तथा ॥ 47 ॥
तुल्यवेगा तुल्यगतिस्तुलाकोटिनिनादिनी ।
ताम्रोष्ठा ताम्रपर्णी च तमःसङ्क्षोभकारिणी ॥ 48 ॥
त्वरिता ज्वरहा तीरा तारकेशी तमालिनी ।
तमोदानवती ताम्रतालस्थानवती तमी ॥ 49 ॥
तामसी च तमिस्रा च तीव्रा तीव्रपराक्रमा ।
तटस्था तिलतैलाक्ता तरुणी तपनद्युतिः ॥ 50 ॥
तिलोत्तमा च तिलकृत्तारकाधीशशेखरा ।
तिलपुष्पप्रिया तारा तारकेशी कुटुम्बिनी ॥ 51 ॥
स्थाणुपत्नी स्थिरकरी स्थूलसम्पद्विवर्धिनी ।
स्थितिः स्थैर्यस्थविष्ठा च स्थपतिः स्थूलविग्रहा ॥ 52 ॥
स्थूलस्थलवती स्थाली स्थलसङ्गविवर्धिनी ।
दण्डिनी दन्तिनी दामा दरिद्रा दीनवत्सला ॥ 53 ॥
देवी देववधूर्दित्या दामिनी देवभूषणा ।
दया दमवती दीनवत्सला दाडिमस्तनी ॥ 54 ॥
देवमूर्तिकरा दैत्या दारिणी देवतानता ।
दोलाक्रीडा दयालुश्च दम्पती देवतामयी ॥ 55 ॥
दशादीपस्थिता दोषा दोषहा दोषकारिणी ।
दुर्गा दुर्गार्तिशमनी दुर्गम्या दुर्गवासिनी ॥ 56 ॥
दुर्गन्धनाशिनी दुःस्था दुःखप्रशमकारिणी ।
दुर्गन्धा दुन्दुभिध्वान्ता दूरस्था दूरवासिनी ॥ 57 ॥
दरदा दरदात्री च दुर्व्याधदयिता दमी ।
धुरन्धरा धुरीणा च धौरेयी धनदायिनी ॥ 58 ॥
धीरारवा धरित्री च धर्मदा धीरमानसा ।
धनुर्धरा च धमनी धमनीधूर्तविग्रहा ॥ 59 ॥
धूम्रवर्णा धूम्रपाना धूमला धूममोदिनी ।
नन्दिनीनन्दिनी नन्दा नन्दिनी नन्दबालिका ॥ 60 ॥
नवीना नर्मदा नर्मनमिर्नियमनिःस्वना ।
निर्मला निगमाधारा निम्नगा नग्नकामिनी ॥ 61 ॥
नीला निरत्ना निर्वाणा निर्लोभा निर्गुणा नतिः ।
नीलग्रीवा निरीहा च निरञ्जनजनानवा ॥ 62 ॥
निर्गुण्डिका च निर्गुण्डा निर्नासा नासिकाभिधा ।
पताकिनी पताका च पत्रप्रीतिः पयस्विनी ॥ 63 ॥
पीना पीनस्तनी पत्नी पवनाशा निशामयी ।
परा परपरा काली पारकृत्यभुजप्रिया ॥ 64 ॥
पवनस्था च पवना पवनप्रीतिवर्धिनी ।
पशुवृद्धिकरी पुष्पपोषिका पुष्टिवर्धिनी ॥ 65 ॥
पुष्पिणी पुस्तककरा पूर्णिमाऽतलवासिनी ।
पेशी पाशकरी पाशा पांशुहा पांशुला पशुः ॥ 66 ॥
पटुः पराशा परशुधारिणी पाशिनी तथा ।
पापघ्नी पतिपत्नी च पतिता पतितापनी ॥ 67 ॥
पिशाची च पिशाचघ्नी पिशिताशनतोषिणी ।
पानदा पानपात्री च पानदानकरोद्यता ॥ 68 ॥
पेया प्रसिद्धा पीयूषा पूर्णा पूर्णमनोरथा ।
पतङ्गाभा पतङ्गा च पौनःपुन्यमिवापरा ॥ 69 ॥
पङ्किला पङ्कमग्ना च पानीया पञ्जरस्थिता ।
पञ्चमी पञ्चयज्ञा च पञ्चता पञ्चमप्रिया ॥ 70 ॥
पिचुमन्दा पुण्डरीका पिकी पिङ्गललोचना ।
प्रियङ्गुमञ्जरी पिण्डी पण्डिता पाण्डुरप्रभा ॥ 71 ॥
प्रेतासना प्रियालस्था पाण्डुघ्नी पीनसापहा ।
फलिनी फलदात्री च फलश्रीः फलभूषणा ॥ 72 ॥
फूत्कारकारिणी स्फारी फुल्ला फुल्लाम्बुजानना ।
स्फुलिङ्गहा स्फीतमतिः स्फीतकीर्तिकरी तथा ॥ 73 ॥
बलमाया बलारातिर्बलिनी बलवर्धिनी ।
वेणुवाद्या वनचरी विरञ्चिजनयित्र्यपि ॥ 74 ॥
विद्याप्रदा महाविद्या बोधिनी बोधदायिनी ।
बुद्धमाता च बुद्धा च वनमालावती वरा ॥ 75 ॥
वरदा वारुणी वीणा वीणावादनतत्परा ।
विनोदिनी विनोदस्था वैष्णवी विष्णुवल्लभा ॥ 76 ॥
वैद्या वैद्यचिकित्सा च विवशा विश्वविश्रुता ।
विद्यौघविह्वला वेला वित्तदा विगतज्वरा ॥ 77 ॥
विरावा विवरीकारा बिम्बोष्ठी बिम्बवत्सला ।
विन्ध्यस्था वरवन्द्या च वीरस्थानवरा च वित् ॥ 78 ॥
वेदान्तवेद्या विजया विजया विजयप्रदा ।
विरोगीवन्दिनी वन्ध्या वन्द्यबन्धनिवारिणी ॥ 79 ॥
भगिनी भगमाला च भवानी भवनाशिनी ।
भीमा भीमाननाभीमा भङ्गुरा भीमदर्शना ॥ 80 ॥
भिल्ली भिल्लधरा भीरुर्भरुण्डा भीर्भयावहा ।
भगसर्पिण्यपि भगा भगरूपा भगालया ॥ 81 ॥
भगासना भगाभोगा भेरीझङ्काररञ्जिता ।
भीषणा भीषणारावा भगवत्यहिभूषणा ॥ 82 ॥
भारद्वाजा भोगदात्री भूतिघ्नी भूतिभूषणा ।
भूमिदा भूमिदात्री च भूपतिर्भरदायिनी ॥ 83 ॥
भ्रमरी भ्रामरी भाला भूपालकुलसंस्थिता ।
माता मनोहरा माया मानिनी मोहिनी मही ॥ 84 ॥
महालक्ष्मीर्मदक्षीबा मदिरा मदिरालया ।
मदोद्धता मतङ्गस्था माधवी मधुमर्दिनी ॥ 85 ॥
मोदा मोदकरी मेधा मेध्या मध्याधिपस्थिता ।
मद्यपा मांसलोमस्था मोदिनी मैथुनोद्यता ॥ 86 ॥
मूर्धावती महामाया मायामहिममन्दिरा ।
महामाला महाविद्या महामारी महेश्वरी ॥ 87 ॥
महादेववधूर्मान्या मथुरा मेरुमण्डिता ।
मेदस्विनी मिलिन्दाक्षी महिषासुरमर्दिनी ॥ 88 ॥
मण्डलस्था भगस्था च मदिरारागगर्विता ।
मोक्षदा मुण्डमाला च माला मालाविलासिनी ॥ 89 ॥
मातङ्गिनी च मातङ्गी मातङ्गतनयापि च ।
मधुस्रवा मधुरसा बन्धूककुसुमप्रिया ॥ 90 ॥
यामिनी यामिनीनाथभूषा यावकरञ्जिता ।
यवाङ्कुरप्रिया यामा यवनी यवनार्दिनी ॥ 91 ॥
यमघ्नी यमकल्पा च यजमानस्वरूपिणी ।
यज्ञा यज्ञयजुर्यक्षी यशोनिष्कम्पकारिणी ॥ 92 ॥
यक्षिणी यक्षजननी यशोदायासधारिणी ।
यशःसूत्रपदा यामा यज्ञकर्मकरीत्यपि ॥ 93 ॥
यशस्विनी यकारस्था यूपस्तम्भनिवासिनी ।
रञ्जिता राजपत्नी च रमा रेखा रवीरणा ॥ 94 ॥
रजोवती रजश्चित्रा रञ्जनी रजनीपतिः ।
रोगिणी रजनी राज्ञो राज्यदा राज्यवर्धिनी ॥ 95 ॥
राजन्वती राजनीतिस्तथा रजतवासिनी ।
रमणी रमणीया च रामा रामावती रतिः ॥ 96 ॥
रेतोरती रतोत्साहा रोगघ्नी रोगकारिणी ।
रङ्गा रङ्गवती रागा रागज्ञा रागकृद्दया ॥ 97 ॥
रामिका रजकी रेवा रजनी रङ्गलोचना ।
रक्तचर्मधरा रङ्गी रङ्गस्था रङ्गवाहिनी ॥ 98 ॥
रमा रम्भाफलप्रीती रम्भोरू राघवप्रिया ।
रङ्गा रङ्गाङ्गमधुरा रोदसी च महारवा ॥ 99 ॥
रोगकृद्रोगहन्त्री च रोगभृद्रोगस्राविणी ।
वन्दी वन्दिस्तुता बन्धुर्बन्धूककुसुमाधरा ॥ 100 ॥
वन्दिता वन्द्यमाना च वैद्रावी वेदविद्विधा ।
विकोपा विकपाला च विकस्था विङ्कवत्सला ॥ 101 ॥
वेदिर्विलग्नलग्ना च विधिविङ्ककरी विधा ।
शङ्खिनी शङ्खवलया शङ्खमालावती शमी ॥ 102 ॥
शङ्खपात्राशिनी शङ्खस्वना शङ्खगला शशी ।
शबरी शाम्बरी शम्भुः शम्भुकेशा शरासिनी ॥ 103 ॥
शवा श्येनवती श्यामा श्यामाङ्गी श्यामलोचना ।
श्मशानस्था श्मशाना च श्मशानस्थानभूषणा ॥ 104 ॥
शमदा शमहन्त्री च शङ्खिनी शङ्खरोषणा ।
शान्तिः शान्तिप्रदा शेषा शेषाख्या शेषशायिनी ॥ 105 ॥
शेमुषी शोषिणी शेषा शौर्या शौर्यशरा शरी ।
शापदा शापहा शापा शापपन्थाः सदाशिवा ॥ 106 ॥
शृङ्गिणी शृङ्गिपलभुक् शङ्करी शाङ्करी शिवा ।
शवस्था शवभुक् शान्ता शवकर्णा शवोदरी ॥ 107 ॥
शाविनी शवशिंशाश्रीः शवा च शवशायिनी ।
शवकुण्डलिनी शैवा शीकरा शिशिराशना ॥ 108 ॥
शवकाञ्ची शवश्रीका शवमाला शवाकृतिः ।
स्रवन्ती सङ्कुचा शक्तिः शन्तनुः शवदायिनी ॥ 109 ॥
सिन्धुः सरस्वती सिन्धुः सुन्दरी सुन्दरानना ।
साधुः सिद्धिप्रदात्री च सिद्धा सिद्धसरस्वती ॥ 110 ॥
सन्ततिः सम्पदा संविच्छङ्किसम्पत्तिदायिनी ।
सपत्नी सरसा सारा सारस्वतकरी सुधा ॥ 111 ॥
सुरा समांसाशना च समाराध्या समस्तदा ।
समधीः सामदा सीमा सम्मोहा समदर्शना ॥ 112 ॥
सामतिः सामदा सीमा सावित्री सविधा सती ।
सवना सवनासारा सवरा सावरा समी ॥ 113 ॥
सिमरा सतता साध्वी सध्रीची ससहायिनी ।
हंसी हंसगतिर्हंसी हंसोज्ज्वलनिचोलयुक् ॥ 114 ॥
हलिनी हालिनी हाला हलश्रीर्हरवल्लभा ।
हला हलवती ह्येषा हेला हर्षविवर्धिनी ॥ 115 ॥
हन्तिर्हन्ता हया हाहाहताऽहन्तातिकारिणी ।
हङ्कारी हङ्कृतिर्हङ्का हीहीहाहाहिता हिता ॥ 116 ॥
हीतिर्हेमप्रदा हाराराविणी हरिसम्मता ।
होरा होत्री होलिका च होमा होमहविर्हविः ॥ 117 ॥
हरिणी हरिणीनेत्रा हिमाचलनिवासिनी ।
लम्बोदरी लम्बकर्णा लम्बिका लम्बविग्रहा ॥ 118 ॥
लीला लीलावती लोला ललना ललिता लता ।
ललामलोचना लोभ्या लोलाक्षी सत्कुलालया ॥ 119 ॥
लपत्नी लपती लम्या लोपामुद्रा ललन्तिका ।
लतिका लङ्घिनी लङ्घा लालिमा लघुमध्यमा ॥ 120 ॥
लघीयसी लघूदर्या लूता लूताविनाशिनी ।
लोमशा लोमलम्बी च ललन्ती च लुलुम्पती ॥ 121 ॥
लुलायस्था च लहरी लङ्कापुरपुरन्दरा ।
लक्ष्मीर्लक्ष्मीप्रदा लभ्या लाक्षाक्षी लुलितप्रभा ॥ 122 ॥
क्षणा क्षणक्षुः क्षुत्क्षिणी क्षमा क्षान्तिः क्षमावती ।
क्षामा क्षामोदरी क्षेम्या क्षौमभृत्क्षत्रियाङ्गना ॥ 123 ॥
क्षया क्षयाकरी क्षीरा क्षीरदा क्षीरसागरा ।
क्षेमङ्करी क्षयकरी क्षयकृत्क्षयदा क्षतिः ॥ 124 ॥
क्षुद्रिकाऽक्षुद्रिका क्षुद्रा क्षुत्क्षमा क्षीणपातका ।
मातुः सहस्रनामेदं सुमुख्याः सिद्धिदायकम् ॥ 125 ॥
यः पठेत्प्रयतो नित्यं स एव स्यान्महेश्वरः ।
अनाचारात्पठेन्नित्यं दरिद्रो धनवान्भवेत् ॥ 126 ॥
मूकः स्याद्वाक्पतिर्देवि रोगी नीरोगतां व्रजेत् ।
पुत्रार्थी पुत्रमाप्नोति त्रिषु लोकेषु विश्रुतम् ॥ 127 ॥
वन्ध्यापि सूते सत्पुत्रं विदुषः सदृशं गुरोः ।
सत्यं च बहुधा भूयाद्गावश्च बहुदुग्धदाः ॥ 128 ॥
राजानः पादनम्राः स्युस्तस्य हासा इव स्फुटाः ।
अरयः सङ्क्षयं यान्ति मानसा संस्मृता अपि ॥ 129 ॥
दर्शनादेव जायन्ते नरा नार्योऽपि तद्वशाः ।
कर्ता हर्ता स्वयं वीरो जायते नात्र संशयः ॥ 130 ॥
यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ।
दुरितं न च तस्यास्ति नास्ति शोकः कथञ्चन ॥ 131 ॥
चतुष्पथेऽर्धरात्रे च यः पठेत्साधकोत्तमः ।
एकाकी निर्भयो वीरो दशवारं स्तवोत्तमम् ॥ 132 ॥
मनसा चिन्तितं कार्यं तस्य सिद्ध्येन्न संशयः ।
विना सहस्रनाम्नां यो जपेन्मन्त्रं कदाचन ॥ 133 ॥
न सिद्धिर्जायते तस्य कल्पकोटिशतैरपि ।
कुजवारे श्मशाने वा मध्याह्ने यो जपेत्सदा ॥ 134 ॥
कृतकृत्यः स जायेत कर्ता हर्ता नृणामिह ।
रोगार्तोऽर्धनिशायां यः पठेदासनसंस्थितः ॥ 135 ॥
सद्यो नीरोगतामेति यदि स्यान्निर्भयस्तदा ।
अर्धरात्रे श्मशाने वा शनिवारे जपेन्मनुम् ॥ 136 ॥
अष्टोत्तरसहस्रं तु दशवारं जपेत्ततः ।
सहस्रनाम चैतद्धि तदा याति स्वयं शिवा ॥ 137 ॥
महापवनरूपेण घोरगोमायुनादिनी ।
ततो यदि न भीतिः स्यात्तदा देहीति वाग्भवेत् ॥ 138 ॥
तदा पशुबलिं दद्यात्स्वयं गृह्णाति चण्डिका ।
यथेष्टं च वरं दत्त्वा प्रयाति सुमुखी शिवा ॥ 139 ॥
रोचनागुरुकस्तूरीकर्पूरैश्च सचन्दनैः ।
कुङ्कुमेन दिने श्रेष्ठे लिखित्वा भूर्जपत्रके ॥ 140 ॥
शुभनक्षत्रयोगे च कृतमारुतसत्क्रियः ।
कृत्वा सम्पातनविधिं धारयेद्दक्षिणे करे ॥ 141 ॥
सहस्रनाम स्वर्णस्थं कण्ठे वा विजितेन्द्रियः ।
तदा यं प्रणमेन्मन्त्री क्रुद्धः स म्रियते नरः ॥ 142 ॥
दुष्टश्वापदजन्तूनां न भीः कुत्रापि जायते ।
बालकानामियं रक्षा गर्भिणीनामपि प्रिये ॥ 143 ॥
मोहनस्तम्भनाकर्षमारणोच्चाटनानि च ।
यन्त्रधारणतो नूनं जायन्ते साधकस्य तु ॥ 144 ॥
नीलवस्त्रे विलिख्यैतत्तद्ध्वजे स्थापयेद्यदि ।
तदा नष्टा भवत्येव प्रचण्डाप्यरिवाहिनी ॥ 145 ॥
एतज्जप्तं महाभस्म ललाटे यदि धारयेत् ।
तद्विलोकन एव स्युः प्राणिनस्तस्य किङ्कराः ॥ 146 ॥
राजपत्न्योऽपि विवशाः किमन्याः पुरयोषितः ।
एतज्जप्तं पिबेत्तोयं मासेन स्यान्महाकविः ॥ 147 ॥
पण्डितश्च महावादी जायते नात्र संशयः ।
अयुतं च पठेत् स्तोत्रं पुरश्चरणसिद्धये ॥ 148 ॥
दशांशं कमलैर्हुत्वा त्रिमध्वक्तैर्विधानतः ।
स्वयमायाति कमला वाण्या सह तदालये ॥ 149 ॥
मन्त्रो निष्कीलतामात सुमुखी सुमुखी भवेत् ।
अनन्तं च भवेत्पुण्यमपुण्यं च क्षयं व्रजेत् ॥ 150 ॥
पुष्करादिषु तीर्थेषु स्नानतो यत्फलं भवेत् ।
तत्फलं लभते जन्तुः सुमुख्याः स्तोत्रपाठतः ॥ 151 ॥
एतदुक्तं रहस्यं ते स्वसर्वस्वं वरानने ।
न प्रकाश्यं त्वया देवि यदि सिद्धिं त्वमिच्छसि ॥ 152 ॥
प्रकाशनादसिद्धिः स्यात्कुपिता सुमुखी भवेत् ।
नातः परतरं लोके सिद्धिदं प्राणिनामिह ॥ 153 ॥
वन्दे श्रीसुमुखीं प्रसन्नवदनां पूर्णेन्दुबिम्बाननां
सिन्दूराङ्कितमस्तकां मधुमदोल्लोलां च मुक्तावलीम् ।
श्यामां कज्जलिकाकरां करगतं चाध्यापयन्तीं शुकं
गुञ्जापुञ्जविभूषणां सकरुणामामुक्तवेणीलताम् ॥ 154 ॥
इति श्री मातङ्गी सहस्र नाम स्तोत्रम् ॥